________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११८
जैनेन्द्र-व्याकरणम्
[अ० २ ० १ सू० १६० - १६७
र्भुवो डुर्भवत्यखौ | विभुः । प्रभुः । शम्भुः । श्रखाविति किम् ? विभुर्नाम कश्चित् । "हुप्रकरणे मितद्रुप्रभृतीना - मुपसंख्यानम्” वा० ] मितं द्रवति मितद्रुः । शम्भुः ।
दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे त्रट् || २|२| १६०॥ दाप् लवन इत्येवमादिभ्यः करणे कारके त्रट् भवति । दान्ति तेन दात्रम् । नेत्रम् | शस्त्रम् । योत्रम् | योक्त्रम् । स्तोत्रम् । तोत्रम् । सेत्रम् । सेक्त्रम् । मेद्रम् । पत्रम् । दंष्ट्रा । अजादिषु पाठाट्टाप् । नी । दंशेः कृतनखस्य निर्देशो ज्ञापकः क्वचिदन्यत्रापि नखम् । दशनः ।
धात्रपोत्रे || २|२| १६१ ॥ धात्र पोत्र इत्येते शब्दरूपे निपात्येते । धेटः कर्मणि त्रट् निपात्यते । धयन्ति तामिति धात्री । पोत्रमिति पुनातेः पवतेर्वा करणे त्रट् निपात्यते । हलस्य सूकरस्य वा मुखं चेद्भवति हलस्य पोत्रम् | सूकरस्य पोत्रम् |
1
लूधूसूख नर्तिसहचर इत्रः || २|२| १६२ || करण इति वर्तते । ल्वादिभ्यो धुभ्यः करणे इत्रो भवति । लुनाति तेन लवित्रम् | धुवति तेन धवित्रम् । सुवति तेन सवित्रम् । खनित्रम् । श्ररित्रम् | सहित्रम् । चरित्रम् |
पुवः खौ || २|२|१६३॥ करण इति वर्तते । पक्तैः पुनातेर्वा करणे इत्रो भवति खुविषये । पूयतेऽनेन पवित्रम् | पवित्रा नाम नदी ।
कर्तरि चर्षिदेवतयोः || २|२| १६४ ॥ पुत्र इत्रो भवति कर्तरि करणे च कारके ऋषिदेवतयोरभिधेययोः । भिन्नयोगनिर्दिष्टत्वाद्यथासंख्यं न भवति । पूयतेऽनेन पुनाति वा पवित्रोऽयमृषिः । देवतायां पवित्रोऽन् मां पुनातु ।
जीतः क्तः || २|२| १६५ ॥ संप्रतीति वर्तते । त्रिशब्देतो धोः संप्रति को भवति । ञिमिदा मिन्नः । ञिधृषा । धृष्टः । ञिदिवदा । दिवण्णः ।
मतिबुद्धिपूजार्थाच्च ॥ श२/१६६ ॥ मतिरनुमतिः । बुद्धिर्ज्ञानम् । पूजा अर्चा । मत्यर्थेभ्यो बुद्ध्यर्थेभ्यः पूजार्थेभ्यश्च धुभ्यः संप्रति क्लो भवति । राज्ञां मतः । राज्ञामिष्ठः । राज्ञां बुद्धः । राज्ञां ज्ञातः । राज्ञां पूजितः । राज्ञामर्चितः । क्तयोगे कर्तरि ता प्रासा "न मित” [ ११४१७२ ] इत्यादिना प्रतिषिद्धा भवतीत्यनेन पुनर्विधीयते । चकारो ऽनुक्तसमुच्चयार्थः ।
शीलितो रक्षितः क्षान्त यात्रुष्टो जुष्ट इत्यपि । रुष्टश्च रुषितश्चोभौ अभिव्याहृत इत्यपि ॥ egg तथा कान्तः दयितोऽन्यः संयतोद्यतौ । कष्टं भविष्यतीत्याहुरमृताः पूर्वकस्मृताः ॥
अमृतशब्दः संप्रति बहुत्वनिर्देशात् । सुप्तः शयितः स्थितः श्राशित इत्येवमादयोऽपि संप्रति बोद्धव्याः ।
उणादयो बहुलम् ||२|२|१६७॥ "पुवः खौ " [ २/२/१६३ ] इत्यतो मण्डूकप्लुत्या खाव वर्तते । उ इत्येवमादयस्त्याः संप्रति ध्वर्थे बहुलं भवन्ति । खुविषये क्वचित्त्यसंज्ञा भवति । "कृवापाजिमिस्वदिसाध्यशूभ्य उण् ।” कारुः । वायुः । पायुः । जायुः । मायुः । स्वादुः । साधुः । श्राशुः । कचित्यसंज्ञा न भवति । कृधूभ्यां क्सरः । कृसरः । धूसरः । त्यसंज्ञाविरहात् " त्यादेशयोः " [ ५१४/३१] इति षत्वं न भवति । इह च शङ्खः शण्ट इण् न भवति । क्वचिदुभयथा । "वृतृवदिहनिकमिकाषिभ्यः सः ।" वर्सम् । तम् । एपम्प्रतित्यसंज्ञा षत्वं प्रति नास्ति । इह च षण्ड इति प्रकृतिकार्ये ध्वादिसत्वं न भवति उक्तं च
१. मां, ब०, स० ।
For Private And Personal Use Only