________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम्
[अ० २ पा० २ सू० १३३-१४३
ज्ञापनार्थमित्यन्ये । शीलादिकेषु चासमविधिन भवतीति । पदेरुका विशेषविहितेन सामान्यविहितस्य युचो वाधितत्वात् पुनरनेन प्रत्यापत्तिः ।
क्रुधमण्डार्थात् ॥२।२।१३३।। क्रुध्यर्थेभ्यो मण्डार्थेभ्यश्च धुभ्यो युज्भवति । क्रोधनः । कोपनः । रोषणः । मण्डार्थेभ्यः-मण्डनः । रचनः । भूषणः।
क्रमिद्रमो यकः ।।२।२।१३४॥ क्रमिद्रमिभ्यां यङन्ताभ्यां युजभवति । चक्रमणः । दन्द्रमणः।
यजिजपिवददशामूकः ॥२।२।१३५॥ यङ इति वर्तते । यज्यादिभ्यो यङन्तेभ्यः ऊको भवति । यायजूकः । जजपूकः । वावदूकः । दन्दशूकः । जपिदंशिभ्यां "लुपसवचरजपजभवहगृदशो गहे" [२।१।२१] इति यङ् । “जपजभदहदशभञ्जपशाम्" [१२।१८४ ] इति चस्य नुमागमः ।
जागुः ॥२।२।१३६॥ जागुरूको भवति । जागरूकः ।
लषपतपदस्थाभूवृषहनशकमगम उकञ् ॥२२॥१३७॥ लषादिभ्यः उकञ् भवति । अपलाषुकं नीचसङ्गतम् । "अपे च लषः" [२।२।१२१] इति वचनात् घिनिणपि भवति । प्रपातुका गर्भाः। उपपादुकाः देवाः । उपस्थायुको गुरून् । प्रभावुकः । प्रवषुकः । श्राघातुकः । शृणोतेः शारुकः । कामुका वन्यस्य स्त्रियो भवन्ति । "न मित" [११४७२ ] इत्यादिना कर्मणि तायाः प्रतिषेधे प्राप्ते उकप्रतिषेधे कमेरप्रतिषेध इत्युक्लम् । श्रागामुकः स्वगृहम् ।
जल्पभिक्षकुट्टलुण्टवृङटाकः ॥२२१३८॥ जल्पादिभ्यो धुभ्यष्टाको भवति । जल्पाकः । जल्पाकी । अकर्मकविवक्षायां "रुचला(द्ध र्युच" [ २।२।१३० ] इति युच् प्राप्तः । भिक्षाकः । अनुदात्तेतो युच् प्राप्तः। कुट्टाकः । लुण्टाकः । बराकः ।
प्रे सूजोरिन् ॥२।२।१३६॥ प्रपूर्वाभ्यां सूजुभ्यां इन् भवति । प्रसवी । प्रजवी ।
परिभूजिद्दतिविश्रीण्वमाव्यथाभ्यमः ॥२।२१४०॥ इन्निति वर्तते । परिभू जि दक्षि विश्री इण वम अव्यथ अभ्यम इत्येतेभ्य इन् भवति । परिभावी । जयी। श्रादरी। क्षयी। विश्रयी | अत्ययी। वमी। अव्यथी । अभ्यमी।
स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुः ॥२।२।१४१॥ स्मृहिप्रभृतिभ्यो धुभ्यः पालुर्भवति । स्पृहयालुः । गृहयालुः। पतयालुः। एते चुरादिष्वदन्ताः। दयालुः । निद्रालुः। तन्द्रालुः । तन्निति निपातनमालुविषये भवति । श्रद्धालुः । इह शीडो ग्रहणं कर्त्तव्यम् । शयालुः ।
दाधेट्रसिशदसदो रुः ॥२।२।१४२॥ दा धेट सि शद सद इत्येभ्यो रुर्भवति । दा इत्यविशेषेण ग्रहणम् । दाहः । धारः वत्सो मातरम् । “न झित' [१।४।७२] इत्यत्र उकारप्रश्लेषात् तदन्तविधिना तायाः प्रतिषेधः । सेकः । शद्रुः । सट्ठः। यत्त्वात्मकर्मणि द्यतेर्दारु काष्ठं तदुणादिषु द्रष्टव्यम् ।
सघस्यदः क्मरः ॥२२२२१४३॥ स घसि अद् इत्येतेभ्यः क्मरो भवति | समरः। घस्मरः। अमरः । अनेनैवादेः घस्भावो निपात्यते ।
भञ्जभासमिदो घुरः ॥२२२२१४४॥ भञादिभ्यो घुरो भवति । भजेरात्मकर्मण्यभिधानम् । भङ्गरं काष्ठम् । भासुरं ज्योतिः । मेदुर मुखम् ।
विद्भिच्छिदः कुरः ॥२।२।१४५॥ विद् भिद् छिद् इत्येतेभ्यः कुरो भवति । विदुरः इति ज्ञानार्थस्यैव । भिच्छिदोरात्मकर्मणि कुर इष्यते । भिदुरं काष्ठम् । छिदुरा रज्जुः ।
सृजीणनशः क्करप् ॥२२२२१४६॥ स जि इण् नश् इत्येतेभ्यः क्वरप् भवति । सत्वरः। जित्वरः । इत्वरः । नश्वरः। नश्वरी।
For Private And Personal Use Only