________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० २ पा० २ सू० ।६-१३२]
महावृत्तिसहितम्
परेः सृदेविक्षिपरटवददहमुहः ॥२।२।११६॥ परिपूर्वेभ्यः सुप्रभृतिभ्यो धुभ्यः घिनिण् भवति । परिसारी । देव देवन इत्यस्य परिदेवी । क्षिपेरविशेषेण ग्रहणम् । परिक्षेपी । परिपाटी । परिवादी । परिदाही । परिमोही ।
वो कषविचलसकत्थस्रम्भः ॥२।२।१२०॥ विपूर्वेभ्यः कषादिभ्यो धुभ्यो घिनिण मवति । विकाषी। विवेकी । विलासी। विकत्थी। विस्रम्भी।
अपे च लषः ॥२।२।१२१॥ अपे च वौ वाचि लषेधिनिण् भवति । अपलाषी। विलाषी। चरेः ।।२१२२॥ अप इति वर्तते । अपपूर्वाञ्चरेः घिनिए भवति । अपचारी। अतः ॥२।२।१२३॥ अतिपूर्वाञ्चरेपिनिण् भवति । अतिचारी।
समि पृचिसृजिज्वरः ।।२।२।१२४॥ सम्पूर्वेभ्यः पृचि सृजि ज्वरि इत्येतेभ्यो चिनिण, भवति । सम्पर्की । संसर्गी । संज्वरी । अकर्मकाणामित्येव । संपृणक्ति साकम् ।
आङि यमियसिक्रीडिमुषः ॥२।२।१२५॥ आङ् पूर्वेभ्यः यमि यसि क्रीडि मुषि इत्येतेभ्यो घिनिण भवति । आयामी । तासाव 'निड्भावादैप्प्रतिषेधो न भवति । प्रायासी। श्राक्रोडी। आमोषी।
प्रेलपसृद्र मथवदवसः ॥२।२।१२६॥ प्रशब्दे वाचि लप स द्रु मथ वद वस इत्येतेभ्यो घिनिण, भवति । प्रलापी । प्रसारी । प्रद्रावी । प्रमाथी । प्रवादी । वसेरनुबिकरणस्य प्रवासी।
निन्दहिसक्तिशखादविनाशव्याभाषासूयो वुन ॥२।२।१२७॥ निन्दादिभ्यो वुञ् भवति शीलादिषु । निन्दकः। हिंसकः। क्लिशेरविशेषेण ग्रहणे युचोऽपि बाधा । क्ल शकः । खादकः । विनाशेय॑न्तस्य विनाशकः । असूय इति कण्वादिर्यगन्तः । असूयकः । एवुना सिद्ध वुग्रहणं ज्ञापकमन्येभ्यः शीलादिषु एम्वादयो न भवन्तीति।
परौ वादितिपरटः ॥२२॥१२८॥ परिपूर्वेभ्यः वादि क्षिप रट् इत्येतेभ्यो वुञ् भवति । परिवादकः । परिक्षेपकः । परिराटकः ।
देविकुशो गौ ॥२।२।१२६॥ देवि क्रुश इत्येताभ्यां गौ वाचि बुञ् भवति । देवीति देवतेपर्यन्तस्य । परिदेवकः । श्रादेवकः । परिक्रोशकः । श्राक्रोशकः । गाविति किम् ? देवयिता।
रुचलार्थाद्धयुच् ॥२।२।१३०॥ रौत्यर्थेभ्यश्चलत्यर्थेभ्यश्च घिसंज्ञकेभ्यो युज् भवति । रवणः । शब्दनः । कथनः । चलत्यर्थेभ्यः-चलनः। चोपनः । कम्पनः । धेरिति किम् ? पठिता शास्त्रम् ।
अनुदात्ततोऽयसूददीपदीक्षो हलादेः ॥रा२१३१॥ अनुदात्तेतो हलादे|युज्भवति यकारान्त-सूददीप दीक्ष इत्येतान्वर्जयित्वा । द्योतनः । रोटनः । अनुदात्तेत इति किम् ? यष्टा । अयसूददीपदीक्ष इति किम् ? का यिता । दमायिता । सूदेः सकर्मकस्यापि सूदिता । कथं मधुसूदनः । नन्यादिपाठाणण्युः । दीपिता । दीपेर्विशेषेण रो विधास्यते युचः प्राप्तिर्नास्ति । इदं प्रतिषेधवचनं ज्ञापकं शीलादिकेषु असमविधिन भवतीत्यनित्यमेतत् । तेन कमनः । कम्रः । कम्पनः । कम्प्रः । विकत्थी विक्रथनः इति च भवति । दीक्षिता। हलादेरिति किम् ? एधते इत्येवं शील एधिता। आदिग्रहणं किम् ? हला तदन्तविधिमा भूत् । इह न स्यात् । जुगुप्सनः । मीमासनः। धेरेव । बसिता वस्त्रम् ।
सृजुज्वलगृधशुचलषपतपदः ॥२॥२१३२॥ सुप्रभृतिभ्यो युज्भवति । शरणः। जवनः । ज्वलनः । गर्धनः। शोचनः । लषणः । पतनः । पदनः । चल्यर्थानां पदेश्च ग्रहणं सकर्मकार्थम् । पदिग्रहणं
१.-सावनिट्वादै- अ०।
For Private And Personal Use Only