________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११४
जैनेन्द्र-व्याकरणम् [२० २ पा० २ सू० १०७-१८ वयःशक्निशीले ॥२२१०७॥ वयस् शक्ति शील इत्येतेषु गम्यमानेषु धोः शानो भवति । शरीरावस्था वयः । कतीह शिखएडं वहमानाः। कतीह कवचं पर्यस्यमानाः। शक्तिः सामर्थ्यम् । कतीह भटं निघ्नानाः। कतीह भुञ्जानाः । शीलं गुणान्तरद्वेषः । कतोह मण्डयमानाः । कतीह मुएडयमानाः।
- धारीः शत्रकृछिणि ॥२।२।१०८॥ अकृञ्छ्रमनायासो यस्यास्ति सोऽकृछौ । धारि इङ इत्येताभ्यां शतृत्यो भवति अकृद्धिणि कर्तरि । धारयन् धर्मशास्त्रम् । अधीयन् जैनेन्द्रम् । अकृच्छ्रिणीति किम् ? कृच्छ्रेण धारयति । कृच्छ्रेणाधीते।
द्विषोऽरौ ॥२१०६॥ द्विषः शतृत्यो भवत्यरौ कर्तरि | चौरस्य द्विषन् । चौरं द्विषन् । "द्विषः शतुर्वा वचनम्" [चा०] इति कर्मणि वा ता । श्रराविति किम् । द्वेष्टि पति भार्या । असमा एते त्या लटं न बाधन्ते ।
सुञो यज्ञसंयोगे ॥२।२।११०।। संयुज्यते इति संयोगः संयुक्त इत्यर्थः । सुनोतेर्यज्ञसंयोगे कर्तरि शनृत्यो भवति । सर्वे सुन्वन्तः । यशस्वामिन इत्यर्थः । यज्ञसंयोग इति किम् ? सुनोति सुराम् ।
प्रशंसेऽहः ॥२।२।१११॥ अर्हतेः प्रशंसेऽर्थे शतृत्यो भवति । अर्हनिह भवान् पूजाम् । अहं निह भवान् विद्याम् । प्रशंस इति किम् १ अर्हति चोरो वधम् ।
आक्के शोलधर्मसाधुत्वे ॥२।२।११२॥ श्राङभिविधौ द्रष्टव्यः । वक्ष्यति ग्रावस्तुवः किम् । श्रा एतस्मात् क्विप्संशब्दनात् यानित ऊर्ध्व वक्ष्यामः शीलधर्मसाधुत्वेषु वेदितव्याः। शीलं व्याख्यातम् । धर्म आचारः । ध्वर्थस्य साधु करणं साधुत्वम् ।
तृन् ॥२।२।११३॥ तृन्नित्ययं त्यो भवति सर्वधुभ्यः शोलादिषु । शीले-कर्ता कटान् । वदिता जनापवादान् । धर्मे- मण्डयितारः श्राविष्टायना भवन्ति । वधूमुढाम् अन्नमपहर्तार अाह्वरका भवन्ति श्राद्ध सिद्ध । साधुत्वे । कर्ता कटम् । गन्ताऽखेटम् । गमेरुकवक्ष्यते । अधिकारात्तृनपि भवति ।
अलङ्कनिराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्य-पत्रपवृतवृध्सहचर इष्णुः ॥२११४॥ अलङ्कभित्येवमादिभ्य इष्णुर्भवति शीलादिषु । अलङ्करिष्णुः । मण्डनार्थे पूर्वविप्रतिषेधेन युचोऽयं बाधकः । निराकरिष्णुः । प्रजनिष्णुः । उत्पचिष्णुः । उत्पतिष्णुः । उन्मदिष्णुः । रोचिष्णुः । अपत्रपिष्णुः । वर्तिष्णुः । सहिष्णुः । चरिष्णुः।
ग्लाजिस्थः कस्नुः ॥२।२।११।। ग्ला भू जि स्था इत्येतेभ्यो धुभ्यः क्स्नुर्भवति शीलादिषु । ग्लास्नुः । भूष्णुः। जिष्णुः। स्थास्तुः । “कस्नोगित्वान्न स्थ ईकारः क्तिोरीत्वस्य शासनात् । एवभावस्त्रिषु स्मायः युकोऽनिटत्वङ्गकोरितोः ॥"
सिगृषिधृषितिपःक्तः॥२११६॥ त्रसि गृधि धृषि क्षिप इत्येतेभ्यः न भवति शीलादिषु । त्रस्नुः । गृध्नुः । धृष्णुः । क्षिप्नु: । ध्युङः ए प्रतिषधार्थ कित्करणमिदं ज्ञापकं त्यादिहलपेक्षया रुसंज्ञायामपि "च्युतः" [ शरा८३] एम्भवतीति । वेत्ता । बोद्धा ।
शमित्यामदेघिणिन् ।।२।२।११७॥ इति श्राद्यर्थे श्राअभिविधौ । शमादिभ्य श्रा मदेधिनिण् भवति । अष्टौ च शमादयः-शमी। तमो । दमी। श्रमी। भ्रमी। क्षमी । क्लमी। प्रमादी । उन्मादी । "उडोऽतः" [A] इत्यैप्प्राप्तः “म सेटस्तासि मोऽवमिकमिचमः' [१२।३१] इति प्रतिषिद्धः । मदेस्तु भवति । कारः उत्तरत्र कुत्वार्थः । इकारः उच्चारणार्थः। श्रन्ये उकारमितं कुर्वन्ति तेषामिह शमिनितरा इति "उगितश्च" [४।३।१५७ ] इति वा प्रादेशः प्राप्नोति । श्रामदेरिति किम् ? यसिता।
दुहानुरुधदुषद्विषद्रुह्युजत्यजरजभुजाभ्याहनः ॥२।२।११८॥ दुहादिभ्यो धिनिण् भवति शीलादिषु । दोही । अनुरोधी । दोषी । द्वेषी । द्रोही । योगी । त्यागी। रज इति सूत्रे निपातनान्नसम् । रागी। भोगी। अभ्याघाती। अकर्मकाणामिति वक्तव्यमिह मा भत् । गां दोग्धा । शत्रूनभ्याहन्ता।
For Private And Personal Use Only