________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० २ पा० २ सू० १०१-१०६ ]
महावृत्तिसहितम्
११३
1
परत्वेन स्मलक्षणः । इति हाधीयते स्म । शश्वदधीयते स्म । तथा हशश्वल्लक्षणात् परत्वेन पुरालक्षणो विधिः । इति ह पुरा श्रध्यगीषत । शश्वत्पुरा अध्यगीषत । "ननौ पृष्ठप्रतिवचने भूतमात्रे लट् वक्तव्य:" [ घा० ] श्रकार्षीः कटं देवदत्त ! ननु करोमि भोः । तथा "नशब्दे नुशब्दे च वाचि पृष्ठप्रतिवचने भूते वा छट् aro ] कार्षीः कटं देवदत्त ! न करोमि भोः नाकार्ष भोः । श्रहं नु करोमि श्रहं न्वकार्षम् । नेदं द्वयं वक्तव्यम् । पूर्वत्र क्रियाया अपरिसमाप्तेर्वर्तमानत्वम् । उतरत्रासमाप्तिः समाप्तिश्च क्रियाया विवक्षिता ।
वक्तव्य: "
सम्प्रति || २ |२| १०१ ॥ सम्प्रति ध्वर्थे लट् भवति । श्रारम्भात्प्रभृत्याऽनुपरमाद्वर्तमानः कालः सम्प्रति इत्युच्यते । उक्तं च "आरम्भाय प्रसृता यस्मिन् काले भवन्ति कर्त्तारः । कार्यस्यानिष्ठातस्तन्मध्यं कालमिच्छन्ति ॥ तरति + नयति । याति ।
तस्य शत्रुशानववैकार्थे || २|२| १०२|| तस्य सम्प्रतिकाले विहितस्य लट: स्थाने शत्रु शान इत्येतावादेशौ भवतः न चेद्वान्तेनैकार्थ्यं भवति । पचन्तं पश्य । पचता कृतम् । पचमानेन कृतम् । तस्य ग्रहणं किम् १ श्रसम्प्रतिकाले विहितस्य लटः स्थाने मा भूत् । उष्यते इह पुरा छात्रैः । श्रधीयते स्म नटैः ।
कार्य इति किम् ? पचति देवदत्तः । श्रत्र तस्य शतृशानाविति योगविभागः कर्त्तव्यः । "न वा साकारूक्षे" [२/२/१४] इत्यतो मण्डूकप्लुत्या नवाग्रहणं चाभिसम्बन्धनीयम् । ततो नेत्यनेन इतिशब्दयोगे प्रतिषेध एव भवति । वर्षतीति धावति । हन्तीति पलायते । वेति व्यवस्थितविभाषा । तेन इवादिभिर्योगे द्यौ भिन्नाधिकरणेषु च हृत्सु नित्यो विधिः । कुर्वती भक्तिः । कुर्वद्भक्तिः । कौर्वतः । पाचमानः । भक्तिशब्दः प्रियादौ पठ्यते । तेन ' पुंवद्यजातीयदेशीये” [ ४|३|१२४ ] इति पुंवद्भावः । समानाधिकरणेषु हृत्सु विकल्पः । कुर्वत्तरः | कुर्वद्र पः । कुर्वाणरूपः । करोतितराम् । करोतिरूपम् । तस्मात् द्युत्ययोरुपसंख्यानं न कर्तव्यम् । पुनरवैकार्थ इति द्वितीयो योगः । श्रत्रापि नवत्यधिकारात् कचिद्वान्तेन सामानाधिकरण्येऽपि शतृशानौ भवतः । सन् घटः । श्रस्ति घटः । विद्यमानो घटः । विद्यते घटः । जुह्वन् जुहोति वा देवदत्तः । श्रधीयानो मुनिः । श्रधी मुनिः । व्यवस्थितविभाषाबलात् माङयाक्रोशे लुङपि । मा पचन् । मा पचमानः । मा पाक्षीत् ।
संबोधने ॥ २/२/१०३ ॥ सम्बोधनमभिमुखीकरणम् । तद्विषये लटः शतृशानौ भवतः वैकार्थत्वे । नित्यार्थमिदम् । हे पचमान । उभयोद्यत्यं सम्बोधनमिति वाविभक्त्यपि भवति ।
1
लक्षणहेत्वोः क्रियायाः || २ |२| १०४॥ लक्षणं ज्ञापकं चिह्नम् । हेतुर्जनकः । लक्षणं च या क्रिया क्रियाया हेतुश्च या क्रिया तत्र वर्तमानाद्धोः परस्य लटः शतृशानौ भवतः । शयाना भुज्जते यवनाः । तिष्ठन्तोऽनुशासति गणकाः । व्यभिचार्य्यपि लक्षणं दृश्यते यथा यत्रासौ काकस्तद्देवदत्तमिति । श्रन्यदेव स्यात् शयाना वर्द्धते दूर्वा । श्रासीनं वर्द्धते विसम् । हेतौ । श्रधोयान श्रास्ते । श्रर्जयन् वसति । नवेत्यनुवृत्तेरिह न भवति । वर्षतीति धावति । हन्तीति पलायते । लक्षण हेत्वोरिति किम् ? यो वेपते सोऽश्वत्थः । यदुत्लवते तल्लघु । द्रव्यस्य गुणस्य च लक्षणे न भवतः । इह शास्त्रे अन्यत्र हेतुग्रहणे कारकग्रहणमिति लक्षणग्रहणे च ज्ञापकग्रहणमिति अन्यतरनिर्देशे नोभयप्रतिपत्तेर्द्वयोरुपादानं द्वन्द्वेषु श्रल्पान्तरमिति पूर्वनिपातव्यभि - चारार्थं [च]
•
तौ सत् || २|२| १०५ ॥ तौ शतृशानौ सत्संज्ञौ भवतः । शतृशानयोः प्रकृतत्वात् तौग्रहणं शतृशानरूपपरिग्रहार्थम् । तेन लृडादेशयोरपि सत्संज्ञा सिद्धा । देवदत्तस्य कुर्वन् करिष्यन् । “डड्महण ” [ १ ३७५] इत्यादिना तास प्रतिषेधः ।
पूङ जोः शानः ॥ २|२| १०६|| सम्प्रतीति वर्तते । पूङ् यज् इत्येताभ्यां शानस्त्यो भवति । श्रादेशोऽयं कर्त्तर्येव भवति । मभाग्भ्योऽपि धुभ्यो विधास्यते । सोमं पवमानः । यजमानः । “न मित्र" [१/४/७२ ] श्रादिसूत्रे शत्रू इत्यतः प्रभृति श्रा तुनो नकारात् तृभिति प्रत्याहार उक्तः । तेन कर्मणि प्रतिषेधः ।
१५
For Private And Personal Use Only