________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
११२
जैनेन्द्र-व्याकरणम्
[अ० २ पा० २ सू० १२-१००
अनद्यतने लङ् । ||२२|९२ ॥ भूत इति वर्तते । श्रविद्यमानायतने भूतै घोर्लङ् भवति । श्रतीताया रात्रेः श्रा पश्चिमयामात् श्रागामिन्याश्च रात्रेराप्रथमयामात् अद्यतनकालः । तत्प्रतिषेधादनद्यतनः । अकरोत् । हरत् । अनद्यतनभूतविवक्षायाः समत्वाल्लुङो बाघको लङ् । अनद्यतन इति बसनिर्देशाद्यत्राद्यतनगन्धोऽप्यस्ति तत्र लङ् न भवति । श्रद्य चाभुमहि । यदि बसः अद्यतनेऽप्यद्यतनो नास्तीति लङ् प्राप्नोति । नायं दोषः । विशेषाद्यतने सामान्याद्यतनस्य विद्यमानत्वात् । इह भूतमात्रं विवक्षितम् । श्रागच्छाम घोषात् अपिबाम पय इति । 'परोक्षे लोकविज्ञाते प्रयोक्नुः शक्यदर्शनत्वेन दर्शनविषये लड् वक्तव्यः [वा०] [अरुणन्महेन्द्रो मथुराम् । अरुणद्यवनः साकेतम् । परोक्षे इति किम् ? उदगादादित्यः । लोकविज्ञात इति किम् ? जम्मम ग्रामं देवदत्तः । प्रयोक्कुः दर्शनविषय इति किम् ? जघान कंसं किल वासुदेवः ।
Acharya Shri Kailassagarsuri Gyanmandir
अभिज्ञो लुट् ||२२|९३ ॥ अभिशोक्तिः स्मृतिवचनम् । श्रविद्यमाने यच्छदे अभिज्ञावचने वाचि अनद्यतने लृड् भवति । अभिजानासि देवदत्त कश्मीरेषु वत्स्यामः । मद्रेषु वत्स्यामः । उक्तिग्रहणं पर्यायार्थम् । स्मरसि बुध्यसे चेतयसे वा कश्मीरेषु वत्स्यामः । लङोऽपवादोऽयम् । यदीति किम् ? अभिजानासि देवदत्त यत् कश्मीरेष्ववसामः ।
न वा साकाङ्क्षे ॥२/२६४ ॥ श्राकांक्षा सम्बन्धः । अनद्यतन इत्येव । साकाङ्क्ष अभिज्ञावचने वाचि धोर्न वा लृड् भवति । यद्यभिज्ञावचने पूर्वेण प्राप्तो लृट् नेति प्रतिषिध्यते । ततः केवले यच्छब्दसहिते चाभिज्ञावचने साकांक्षे वाचि । वेति सर्वत्र विभाषा । श्रभिजानासि देवदत्त कश्मीरेषु वत्स्यामः कश्मीरेष्वसाम तत्रदान भोक्ष्यामहे तत्रैौदनानभुञ्जमहि । यच्छन्दसहिते अभिजानासि देवदत्त यत् कश्मीरेषु वत्स्यामः यत्तत्रौदनान् भोदयामहे यत्तत्रौदनानभुमहि ।
परोक्षे लिट् ॥२२२२९५॥ भूते अनद्यतने इति च वर्तते । परावृत्तोऽक्षेभ्यः परोक्षः इन्द्रियागोचर इत्यर्थः । परोक्ष शब्दस्य चेदमेव निपातनम् । भूतानद्यतनपरोक्षे ध्वर्थे लिड भवति । यद्यपि सर्वो ध्वर्थः साध्यत्वेनानुमेयत्वेन वा परोक्षस्तथापि यत्राश्रयद्वारेण प्रत्यक्षाभिमानो नास्ति लोकस्य स परोक्ष उक्तः । पपाच । चकार । श्रात्मनानुष्ठिता हि क्रिया सर्वस्य प्रत्यात्मं प्रत्यक्षेति सुप्तमत्तयोरस्मदः प्रयोगः । सुप्तोऽहं किल विललाप । मत्तोऽहं किल जघान । “अत्यन्तापह्नवे लिड् वक्तव्य:" [ वा० ] नाहं कलिङ्गं जगाम । कलिङ्गगमनस्य प्रत्यक्षत्वाल्लिडप्राप्तः ।
हशश्वतोर्लङ च ॥२२२६६ ॥ ह शश्वदित्येतयोर्वाचोर्लङ् भवति लिट् च भूतानद्यतनपरोक्षे । इतिहाकरोत् । इति द्द चकार । शश्वदकरोत् । शश्वचकार ।
प्रश्ने चान्तर्युगे ||२२|६७ ॥ प्रष्टव्य इति प्रश्नः । पञ्चवर्षे युगम्। युगाभ्यन्तरे प्रश्ने भूतानद्यतने परोक्षे ललिौ भवतः । चकारः किमर्थः १ पूर्वसूत्रे चानुकृष्टस्य लिटोऽनुकर्षणार्थः । किमगच्छस्त्वं पाटलि पुत्रम् | श्रददादौ दानम् । ददावसो दानम् । प्रश्न इति किम् ? देवदत्तो जगाम । श्रन्तर्युग इति किम् १ श्रहं त्वां पृच्छामि । जघान कंसं किल वासुदेवः ।
पुरि लुङ वा ॥ २६८ ॥ पुराशब्दो भूतानद्यतने वर्त्तते न भूतमात्रे । पुराशब्दे वाचि भूतानद्यतने वा लुङ, भवति पक्षे यथाप्राप्तं च । वात्सुरिह पुरा छात्राः । अवसन्निह पुरा छात्राः ।
लट् ॥२\२६६॥ वेति निवृत्तम् । लङ् भवति पुराशब्दे वाचि भूतानद्यतने । वसन्तीह पुरा छात्राः । योगविभाग उत्तरत्र लट एवानुवर्तनार्थः ।
स्मे ||२|२|१००॥ स्मशब्दोऽप्यनद्यतने परोक्षे च वर्तते न भूतमात्रे | स्मशब्दे वाचि श्रनयतने ड् भवति । इति स्मोपाध्यायः कथयति स्वयंप्रभार्थं युध्यन्ते स्म विद्याधराः । ललिटोरपवादोऽयम् । स्मपुराशब्दयोर्युगपत्प्रयोगे परत्वात् स्मलक्षणो लट् । सुलोचनार्थं पुरा युध्यन्ते स्म पार्थिवाः । हशश्वलक्षणादपि विधिः
For Private And Personal Use Only