________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म०२ पा० २ सू०८५-8]
महावृत्तिसहितम्
तः ॥शरा८५॥ तसंशस्त्यो भवति धोभूते। इह वाग्विशेषपरिग्रहो नास्ति । कृतः। कृतवान् । भुक्तः । भुक्तवान् । तक्तवत्वो विनोः तसंज्ञाश्रिता तेन संज्ञया त्यविधाने इतरेतराश्रयं नास्ति । श्रादिकर्मण्यपि कथञ्चित् भूतत्वमस्ति । प्रकृतः कटं देवदत्तः । प्रकृतवान् कटं देवदत्तः ।
सुयजोर्वनिए ॥रा८६॥ सुपीति निवृत्तम् । सु यजि इत्येताभ्यां वनिप् भवति भूते । सुतवान् । सुत्वा । इष्टवानिति यज्वा ।
जषोऽतृ ॥२२।८७॥ जीर्यतेरतृ इत्ययं त्यो भवति भूते। जरन् । जरन्तौ। जरन्तः। क्तक्तवत्वोरसमत्वादबाधकोऽयम् । र वस्सदिणो वसुर्लिएमम् ।।२।।८८॥ वस् सद् इण् इत्येतेभ्यः भूते वसुर्भवति लिड्वन्मसंज्ञश्च । अनूषिवान् श्रीदत्तं धान्यसिंहः । उपसेदिवान् उपाध्यायं शिष्यः । ईयिवान् उपेयिवान् उपाध्यायं शिष्यः । इणः - क्रादिनियमादिटि द्वित्वम् । धुरूपस्य "यणेत्योः" [१४७७ ] इति यणादेशः । चस्य "कितीणो दी: शि१९६] इति दीत्वम् । अथ क्रादिनियमलक्षणस्येटः “वशि" [१११११४] इति प्रतिषेधः कस्मान्न भवति ? उत्तरत्र "श्रुवोऽनिट' [ २१२१८६] इत्यनि-वचनं ज्ञापकं "वशि" [११११४] इति प्रतिषेधो न भवति । उदात्तस्य वा स प्रतिषेधः । लिड्वदतिदेशाद्वित्वम् । “न झितलोक" [१७२ ] इत्यादिना कर्मणि ताप्रतिषेधश्च भवति । मसंज्ञायाः कि प्रयोजनं कर्मव्यतिहारे मा भूत् । व्यत्यूषे जनपद इति । "प्राक्नेर्वाऽसमः''[२11८1] इति लुादयोऽपि भवन्ति । अन्ववात्सीत् । अन्ववसत् । अनूवास । उपासदत् । उपासीदत् । उपससाद । उपागात् । उपैत् । रपेयाय । कसुकानौ लिडादेशौ सर्वधुभ्य इत्येके । "क्वसुलों मम्" इति मसंज्ञकः । कानस्य "इङानं दः" [१॥२॥१५५] इति दसंज्ञा । भावकर्मकर्तृषु च सम्भवः । लिड.देशत्वादेव कित्त्वे सिद्ध स्फान्तार्थ कित्करणमनयोः । अञ्ज आजिवान् । स्वजेः सस्वज्वान् इति कित्त्वान्नखं सिद्धम् ।
कारान्तस्यैप्प्रतिषेधार्थ च कित्करणं तितीर्वानः । "ऋच्छत्यताम् [श२११२३] इत्यम्न भवति । कर्मणि ततिराणः । "ऋत इद्धोः" [५।११७४] इति इत्वस्य "द्विस्वेऽचि' [ ११११६] इति स्थानिवद्भावे तु इति द्वित्वम् । 'उरः' [२२।१६६ ] इति अखम् । तैरेवाचार्यः “वस्वेकाजाद्घसामिङ्' इति वसौ परतः एकाचामाकारान्तानां घसेश्चेविहितः । पेचिवान् । पपिवान् । जक्षिवान् । इह करमान्न भवति ? बिभिद्वान चिच्छिद्वान् । "हलमध्ये लि व्यत्तः" इत्यनेन एत्वचखयोः कृतयावसा य एकाच तयेड़ भवति । यद्यवं ययिवानित्यत्रापि "इटि चात् खम्"[४५/६३] इति खे कृते एकाच्त्वमस्तीति श्राद्ग्रहणमनर्थकम् । नियमार्थमेतत् । यथा इएिनमित्तमेकाच्वं तेषामाकारान्तानामेव [इड्भवति ] नान्येषां चखन्यानिति । अत्रापीटि कृते उङा से क्रियमाणे एकाच्वसम्भवोऽस्ति । अत एव नियमात् घसेरिट्यप्राप्त ग्रहणम् । तथा वा दृशिगमहनषिदविशाम् । ददृशिवान् । ददृश्वान् । जग्मिवान् । जगन्वान् । जन्निवान् । जघन्वान् । 'मो नः" [३३] 'म्वो:', [श३१८४] इति मकारस्य नत्वम् । दृशेरनेकाच्वात् गमहनोरात इति नियमात् इट्यप्राप्त विभाषा। बसौ परतो विदेः शविकरणस्य ग्रहणम् । विविदिवान् । विविद्वान् । ज्ञानार्थस्य ग्रहणे ते “यस्य वा" [११।१२१] इति प्रतिषेधः स्यात् । विविशिवान् । विविश्वान् । .
श्रुवोऽनिट् ॥२।२।६॥ श्रु इत्येतस्माद्वसुर्भवत्यनिट् । उपशुश्रुवान् श्रीदत्त धान्यसिंहः । असमत्वाललुङादयोऽपि । उपाशृणोत् । उपशुश्राव ।
___ अनाश्वाननूचानो ॥२।२।१०॥ अनाश्वान अनूचान इत्येतौ शब्दौ निपात्येते । नपूर्वादश्नातेः वसुलिवदिडभावश्च निपात्यते । अनाश्वांस्तपश्चकार। असमत्वात् नाश्चात् नाश इत्यपि भवति । वचेरनुपूर्वात् कर्तरि कानो निपात्यते । अनूचानो व्रतोपपन्नः । असमखात् अनूक्तवान् अन्वोचत् अनूवाच इति च भवति ।
लुङ॥२।२।९१॥ लुङ् इत्ययं त्यो भवति भूते धोः। अकार्षीत् । अहार्षीत् । क भवानुषितः । अमुत्रावात्समिति । अत्र भूतमात्रस्य विवक्षा, अतएव लडून भवति ।
For Private And Personal Use Only