________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११०
जैनेन्द्र-व्याकरणम्
[अ० २ पा० २ सू० ७७-८४
स्वादिष्वेव वातु कृत्रः किन्भवति नान्यस्मिन् । सूत्रं कृतवान् सूत्रकारः । स्वादिषु च भृते किबेव नान्यस्त्यः । कृत इति किम् ? पापं चितवान् । भूत इत्येव । कर्म करोतीति कर्मकारः। स्वादिष्वेव भूते किब्भवतीति नायमिह नियम इत्येके । तेन भाष्यकृत् शास्त्रकृत् तीर्थकृदित्येवमादि सिद्धम् । वर्तमानकालविवक्षा वा तेनानियमः।
सोमे सुबः ॥२२७७॥ सोमे कर्मणि सुनोतेः क्विन्भवति भूते । सोमं सुतवान् सोमसुत् । सोमसतौ। सोमसतः। एषोऽप्युभयथा नियमः। सोम एव वाचि सुनोतेः किम्नान्यस्मिन् । सुरां सुतवान् सुरासावः। सोमे वाचि भूते किव नान्यस्त्यः । सुज इति किम् ? सोमं कृतवान् । भूत इत्येव । सोमं सुनोति सोमसावः ।
अग्नौ चेः॥२।७८॥ अग्नौ कर्मणि चिनोतेः किन्भवति भूते । अग्नि चितवान् अनिचित् । अमिचितो। अग्निचितः । अयमप्युभयथा नियमः । अग्नावेव वाचि नान्यस्मिन् । कुख्य चितवान् कुख्यचायः । अग्नो वाचि भूते विबेव नान्यस्त्यः। चेरिति किम् ? अग्निं कृतवान् । भूत इत्येव । अग्निं चिनोति अग्निचायः।
कर्मण्यग्न्याख्यायाम् ॥२।२।७९॥ कर्मणीति प्रकृतं वर्तते । कर्मणि वाचि चिनोतेः कर्मणि कारके किन्भवति समुदायेन चेदग्न्याख्या गम्यते । श्येन इव चितः श्येनचित् । काक इव चितः काकचित् । रथचक्रचित् । श्राख्याग्रहणं किमर्थम् ? रूढ़ेः परिग्रहार्थम् । अग्न्यर्थ इष्टकाचयः श्येनचिदुच्यते ।
कर्मणोन्विक्रियः ॥२।२८०॥ कर्मणि वाचि इन्नित्ययं त्यो भवति । विपूर्वात् क्रोणातेः । कर्मणीति वर्तमाने पुनः कर्मग्रहणमभिधेयनिवृत्त्यर्थम् । कर्मणि वाचि कर्तरि कारके यथा स्यात् । तैलं विक्रीतवान् तैलविक्रयी । घृतविक्रयी । “कुरसायामिति वक्तव्यम्" [वा०] इह न भवति । धान्यविक्रायः।
दृशः क्वनिप् ॥रा८१॥ भूते कर्मणीति च वर्तते । कर्मणि वाचि दृशेोः कनिन्भवति । मेरु दृष्टवान् मेरुदृश्वा । विश्व दृश्वा । पित्करणमुत्तरार्थम् । सामान्येन वनिपि सिद्ध पुनर्वचनं भूते मन्वन्विचा निवर्तकम् ।
राशि युधिकृतः ॥२॥५२॥ राजशब्दे कर्मणि युधि कृञ् इत्येताभ्यां कनिब्भवति । युधिरन्तर्भावितण्यर्थः सकर्मकः । राजयुध्वा । राजकृत्वा । अयमपि योगः मन्वन्विचा निवृत्त्यर्थः । कर्मणीत्येव । राज्ञा युद्धवान् ।
सहे ॥रारा॥ सहशब्दे वाचि युधिकृत्रित्येताभ्यां कनिब्भवति भूते । सह युद्धवान् सहयुध्वा । सहकृला । "वा नाचः ॥३॥180] इत्यत्र न्यगवयवस्य बसस्य ग्रहणात् सहशब्दस्य सभावा न भवति । योगविभागो यथासंख्यनिवृत्त्यर्थः ।
जनेर्डः ॥२।२।८४| सुपि शील इत्यतः सुपीति संबध्यते । जनेोः सुपि वाचि ड इत्ययं त्यो भवति । उपसरे जातः उपसरजः । मन्दुराया जातः मन्दुरजः । "वे ड्यापोः क्वचित् खौ च" [४/३१७३] इति प्रादेशः । बलभीजः । "कायामजाताभिधानम्" [वा०] जाल्याजातं जाव्यजं दुःखम् । सन्तोषजं सुखम् । सङ्कल्पजः कामः । बुद्धिजः संस्कारः। अजाताविति किम् ? मृगाज्जातः । हस्तिनो जातः । गौ वाचि खुविषये प्रजाताः प्रजाः। 'अनौ कमणि वाच्यभिधानम्वा०] पुमांसमनुजातः पुमनुजः । स्त्यनुजः । 'मन्यस्मिन्नपि वाचि दृश्यते कारकान्तरे पि[वा.] किजातेन किजः । अलं जातेन अलजः । द्विर्जातो द्विजः । न जातः अजः । “कायामजातौ" इत्युक्तम् । जातावपि दृश्यते ब्राहाणजः पशुबधः । क्षत्रियजं युद्धम् | गौ वाचि खावित्युक्तः अखावपि दृश्यते । अधिजातः । अधिजः । अभिजः। परिजः। अनौ कर्मणीत्युक्तम् । अकर्मण्यपि दृश्यते । अनुआत: अनुजः । यद्यपि विशेषेण सुपीत्युच्यते इहापि प्रा नोति सर्वाङ्गपरिपूर्णो जातः गृहस्थो जातः। अनभिधानान्न भवति । "युइव्या बहुलम्" [२३॥६४] इति बहुजयचनात् । कर्मणि कारके अन्यस्मादपि भवति । परिखाता परिखा। पुंसा अनुजातः पुंसानुप्रकरणे पुंसानुजो जनुषान्ध इत्यत्रानुब्बक्ष्यते ।
For Private And Personal Use Only