________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० २ पा० २ सू० ६७-७६ ]
महावृत्तिसहितम्
१०६
इत्येवंशीलः उष्णभोजी । उदासारिएयः । प्रत्यासारिण्यः । श्रजाताविति किम् ? शालीन् भुङ्क्ते इत्येवं शीलः शालि भोजः । साधूनामन्त्रयिता । शील इति किम् ? उष्णभोजः श्रातुरः । क्वचिदित्यनुवृत्तेः साधुकारिण्यप्यर्थे णिन् । साधुकारी । साधुदायी । "ब्रह्मणि वदेसिंन् वक्तव्यः " [ वा० ] समस्याणो बाधकः । ब्रह्मवादिनो वदन्ति ।
कर्त्तरी || २|२|६७|| कर्तरि वाचि इवार्थे धोर्णिन् भवति । उपमानभूते कर्तरीत्यर्थः । जात्यर्थमशीलार्थं चेदम् । उष्ट्र इव क्रोशते उष्ट्रकोशी । ध्वाङ्क्षरावी । खरनादी । सिंहनदीं । वृत्यैवार्थस्योक्तत्वादिवशब्दस्याप्रयोगः । कर्त्तरीति किम् ? तिलानिव भुङ्क्ते कोद्रवान् । इव इति किम् ? उष्ट्रः क्रोशति ।
व्रते ॥ २२६८ ॥ सुबन्ते वाचि धोर्णिन् भवति समुदायेन चेद् व्रतं गम्यते । शास्त्रपूर्वको नियमो व्रतम् । पार्श्वशायी । स्थण्डिलशायी । वृक्षमूलवासी । श्राद्ध न भुङ्क्ते व्रतमस्य श्राद्घभोजी । अलवणभोजी । सापेक्षस्यास्यापि नञो वृत्तिर्व्याख्याता । व्रत इति किम् ? स्थण्डिले शेते कामचारेण ।
प्रायो (य श्रा) भोदण्ये || २२|६६ ॥ सुबन्ते वाचि धोराभीक्ष्ण्ये गम्ये प्रायो णिन् भवति । शीलं गुणान्तरे द्वेषः । ततोऽन्यन्मुहुर्मुहुः सेवनमाभीक्ष्ण्यम् (कषायपायिणो गान्धारयः । सौवीरपायिणो इपिज्ञाः ' । तक्रपायियो अन्ध्राः । क्षीरपायिण उशीनराः । " मृदन्तनुम्विभक्त्याम् ' [ ५|४|११ ] इति णत्वम् । प्रायोग्रहणादिह न भवति (कुल्मात्रखादाश्चोलाः । )
मनः ॥२|२|७० ॥ मन्यतेः सुपि वाचि णिन् भवति । शीलाद्यर्थमेतत् । शोभनं मन्यते परं शोभनमानी । दर्शनीयमानी । मन इति श्यविकरणस्य ग्रहणं व्याख्यानात् । उत्तरत्र खशि विशेषो भविष्यति ।
खश्चात्मनः ||२/२/७९ ॥ श्रात्मनो यत्सुबन्तं तस्मिन् वाचि मन्यतेः खश् भवति णिश्च । शोभनमात्मानं मन्यते शोभनम्मन्यः । शोभनमानी । पण्डितम्मन्यः । पण्डितमानी ।
भूते ||२२|७२ ॥ भूत इत्यधिकारो वेदितव्यः । धोरिति वर्तते । अर्थवशाद् भूते ध्वर्थे वच्यमाणा विधयो भवन्तीत्यर्थः । वक्ष्यति दृशेः कनिप् । मेरुं दृष्टवान् मेरुदृश्वा । भूत इति किम् ? मेरुं द्रक्ष्यति । न च भूतशब्दस्येतरेतराश्रयत्वेनासिद्धिः, अनादित्वाच्छब्दव्यवहारस्य । भूत इति निसंज्ञको वा शब्दः । "इयत इति संख्यानं निसंज्ञानां न विद्यते । प्रयोजनवशादेते निपात्यन्ते पदे पदे ।।"
करणे यजः || २|२|७३ ॥ णिन्निति वर्त्तते । करणे सुबन्ते वाचि यजेधर्भूते णिन् भवति । अग्निटोमेनेष्टवान् श्रग्निष्टोमयाजी । वाजपेययाजी । विशेषस्य करणत्वम् । यजनसामान्यं यजेरर्थः ।
कर्मणि नः || २|२|७४ || कर्मणि वाचि हन्तेर्णिन् भवति भूते । पितृव्यं हतवान् पितृव्यवाती । मातुलघाती । कुत्साविशेष इति वक्तव्यमिह मा भूत् । देवदत्तं हतवान् देवदत्तघातः ।
ब्रह्मभ्रूणवृत्रेषु विप् ॥ २१२|७५ ॥ ब्रह्म भ्रूण वृत्र इत्येतेषु कर्मसु हन्तेः किन्भवति । ब्रह्माणं हतवान् । ब्रह्महा । भ्रूणहा । वृत्रहा । सामान्येन किपि सिद्धे नियमार्थमिदम् । ब्रह्मादिष्वेव कर्मसु हन्तेः विम्नान्यस्मिन् । मित्रं हतवान् मित्रघातः । उभयथा नियमश्चायम् । ब्रह्मादिषु कर्मसु भूते विबेव नान्यस्त्यः । उभयथा शिष्यैः प्रतिपन्नत्वात् उभयथा नियमो लभ्यते । कथं मधुहा ? चिन्त्यमेतत् । हन इत्येव । ब्रह्माणं कृतवान् । भूत इत्येव । ब्रह्माणं हन्ति हनिष्यति वा ।
सुकर्मपापमन्त्रपुण्ये कृञः ||२||७६ ॥ क्विचिति वर्तते । सुशब्दे वाचि कर्मादिषु च करोतेः विभवति भूते । सुष्टु कृतवान् सुकृत् । कर्मकृत् । पापकृत् । मन्त्रकृत् । पुण्यकृत् । एषोऽप्युभयथा नियमः |
1. ATRET: STO
For Private And Personal Use Only