________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०६
जैनेन्द्र-व्याकरणम्
[अ० २ पा० २ सू० ६०-६६
द्विषा सहचरितः श्रादादिकः । प्रसूते प्रसूः । अण्डं सूते अण्डसूः । शतसूः । गर्भसूः । विद्वेष्टीति विद्विट् । मित्रद्विट । प्रद्र ह्यतीति प्रध्रुक् । मित्राय द्रुह्यति मित्रध्रुक् । प्रदोग्धि प्रधुक् । युजिर् योगे युज समाधाविति चाविशेषेण ग्रहणम् । प्रयुनक्ति प्रयुक् । अश्वयुक् । युजेय॑न्तस्याऽपि युज इति निपातनात् णेरुप् । प्रयोजयतीति प्रयुक् । अश्वान् योजयति-अश्वयुक् । विदेरविशेषेण ग्रहणम् । प्रवित् । धर्मवित् । प्रभित् । बलभित् । प्रच्छित् । रजुच्छित् । प्रजित् । कर्मजित् । प्रणीः। ग्रामणीः। विराजते विराट् । सम्राट् । 'मन्वन्वनिविचः क्वचित् [२।२।६२] "किपा [२२२२६३] इति क्विपि सिद्ध नियोगार्थमिदम् । सुपीति वर्तमाने गिग्रहणं किमर्थम् ? अन्यत्र सुग्रहणे गिग्रहणं नास्तीति ज्ञापनार्थम् । तेन "वदः सुपि क्यप च'' [२।१।१] इति गे क्यम्न भवति । प्रवाद्यमनुवाद्यम् ।
__ अदोऽनन्ने ॥२॥२॥६०॥ अदेोः किन्भवति अनन्ने सुबन्ते वाचि । श्राममत्ति प्रामात् । वृक्षात् । अनन्न इति किम् ? अन्नादः ।
क्रव्ये ॥२।२।६१॥ क्रव्यमाममासम् । क्रव्यशब्दे वाचि अदेः किन्भवति । क्रव्यमत्ति क्रव्यात् । पूर्वगव सिद्ध पुनरारम्भः असरूपस्याणो बाधकः । कथं तर्हि क्रव्यादः ? पृषोदरादिषु कृत्तविकृतादः क्रव्याद इति द्रष्टव्यम् ।
मन्वन्क्वनिविचः क्वचित् ॥२।२।६२॥ मन् वन् कनिप विच् इत्येते त्याः कचिद् दृश्यन्ते। गावपीत्यनुवर्तते । सुशर्मा । सुवर्मा । कचिदिति वचनात् केवलादपि । दामा । पामा । वामा। हेमा । वन् । विजावा । अग्रेगावा । "वन्या:" [१४/४२] इत्यात्वम् । क्वनिप् । प्रातरित्वा । प्रातरिवानौ । केवलादपि । कत्वा । कृखानौ । धीवा । पोवा । विन् । विशतीति वेट् । रेट् । वकारः कृत्कार्यार्थः। इकार उच्चारणार्थः। चकारः एबर्थः । जागर्ति जागः। विरित्युच्यमाने "जागुरविमिणल्ङिति" [५।२।२] इति एप्रतिषेधः शङ्ख्येत ।
विप् ॥२।०६३॥ क्विप् धोः क्वचिद् दृश्यते गावपि । उखेन ( उखायाः) सौंसते 'उखाशत् । वाहात् भ्रश्यति वाहाभ्रट् । “अन्यस्यापि' [।३।२३२] इति दीत्वम् । कचिदधिकारात्केवलादपि । याति याः। वाति वाः।
स्थः कः ॥२२२।६४॥ गावपीति वर्तते । तिष्ठतेः को भवति । शन्तिष्ठति शंस्थः। सुस्थः । ननु "सुपि" [२॥२॥७] "स्थ:'' [२२ ] इत्यनेनैव कः सिद्ध: । न सिध्यति । “शमि धो: खौ'' [२।२।१६] इत्यत्र धुग्रहणस्य प्रयोजनमुक्तं समत्वेन पूर्वस्य कस्य बाधनमिति । यथा शङ्करा परिवाजिकत्यत्र हेवादिलक्षणस्य टस्य बाधात्कस्याकारस्य बाधनार्थ पुनः कविधानं किपोऽसमवादस्त्यो न बाधक इति पूर्वेण विप्सिद्धः । शंस्थाः।
भजो ण्विः ॥२।६५॥ भजतेरिवर्भवति सुपि गावपि । अर्द्ध भाक् । प्रभाक् । णकार ऐबर्थः । वकारः सति साम्ये बाधार्थः । इकारः उच्चारणार्थः । समत्वेन किंविचोर्बाधकोऽस्ति शिवः ।
सुपि शीलेऽजातौ णिन् ॥२।२।६६॥ चतुष्टयी शब्दानां प्रवृत्तिरित्यस्मिन् दर्शने जातिप्रतिषेधोऽयम् । अजातिवाचिनि सुबन्ते वाचि शीले गम्यमाने घोणिन्भवति । सुपीति वर्तमाने पुनः सुग्रहणं सुम्मात्रार्थम् । अन्यथा अजाताविति सत्त्ववाचिनः प्रतिषेधादन्यस्यापि सत्त्ववाचिनो ग्रहणं न स्यात् । उष्ण भुक्त
१. "पिठरस्थाल्युखाकुण्डम्" इत्यमरादिप्रामाण्यादुखाशब्दस्य नित्यस्त्रीत्वात् "उखायाः अंसते" इति वक्तुमुचितम् । मूले "खेन श्रंसते" इति करणतृतीयाऽस्त्रीस्वं च चिस्यम् । २' वहादू अ०, ब. । ३. बहाभट्-म०,०।
For Private And Personal Use Only