________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० २ पा० २ सू० ५३-५९]
महावृत्तिसहितम्
१०७
पाणिघताड घराजघाः ॥२२॥५३॥ एते शब्दा निपात्यन्ते । पाणिघताडवो शिल्पिनि निपात्यते । अन्यत्र पाणिघातः। ताडघातः । राजब इत्यविशेषेण । रग्यत्वं टिखं च निपात्यम् ।
सुभगाब्यस्थूलपलितनग्नान्धप्रियेऽन्वो स्नुख्खुको भुवः ॥२॥५४॥ अच्वाविति व्यन्तप्रतिषेधात् नजिवयुक्तन्यायेन च्यर्थविज्ञानम् । अच्च्यन्तेषु च्च्यर्थे वर्तमानेषु सुभगादिषु वातु भवतेः स्नुख् खुक इत्येतौ त्यो भवतः । असुभगः सुभगो भवति सुभगम्भविष्णुः । सुभगम्भावुकः । श्राढ्यम्भविष्णुः । श्राढ्यम्भाधुकः । स्थूलम्भविष्णुः । स्थूलम्भावुकः । पलितम्भविष्णुः । पलितम्भावुकः । नग्नम्भविष्णुः । नग्नम्भावुकः । अन्धम्भविष्णुः । श्रन्धम्भावुकः। प्रियम्भविष्णुः । त्रियम्भावुकः । अत्र तदनविधिरिष्टः । श्रीसुभगम्भविष्णुः । श्रीसुभगम्भावुकः। श्रच्चाविति पिम् ? सुभगीभविता । श्राव्यीभविता। ननिर्दिष्टे सदृशसंप्रत्ययादिह न भवति-सुभगो भविता ।
कृतः करणे ख्युट ॥२॥२॥५५॥ कृजः करणे कारके ख्युट भवति अच्च्यन्तेषु च्व्यर्थे वर्तमानेषु सुभगादिषु वाच । असुभगं सुभगं कुर्वन्त्यनेन सुभगङ्करणम् । श्राव्यङ्करणम् । स्थूलङ्करणम् । पलितङ्करणम् । नग्नङ्करणम् । अन्धङ्करणम् । प्रियङ्करणम् । सुभगङ्करणी विद्या । अच्च्यन्तेषु इत्येव । सुभगीकुर्वन्त्यनेन । नन्वत्र ख्युटि युटि वा नास्ति विशेषः । सत्यम् । अव्यन्तानुवृत्तेस्तु युटोऽयंत्रार्थः प्रतिषेधः । च्च्यर्थे वर्तमानेवित्येव । प्राय कुर्वन्ति तैलेन । अभ्यञ्जयन्तीत्यर्थः ।
स्पृशोऽनुदके क्विः ॥२२॥५६॥ उदकवर्जिते सुपि वाचि स्पृशे|ः किर्भवति । ककारः कित्कार्यार्थः । वकारः सति साम्ये किपो बाधनार्थः । मन्त्रेण स्मृशति मन्त्रस्पृक् । दलं स्पृशति दलस्पृक् । 'प्रश्च" [५।३।५३] आदि सूत्रेण षत्वं जश्त्वं “कित्यस्य कुः'' [५।३।७५] इति कुत्वम् । अनुदक इति किम् ? उदकं स्पृशति उदकस्पर्शः।
ऋत्विग्दधृगस्रग्दिगुष्णिगञ्चुयुजिकञ्चः ॥२।२१५७॥ ऋत्विक् दधृक स्रक् दिक् उष्णिक् इत्येते कव्यन्ता निपात्यन्ते । अञ्चु युजि कुञ्चि इत्येतेभ्यस्तु विर्भवति । भृतौ यजते ऋतुप्रयोजनो वा यजते ऋत्विक् । ऋतुशब्दे वाचि यः क्विर्निपात्यते । धृष्णोतोति दधृक् । धृषेः विर्द्वित्वं च निपात्यते । सृजन्ति तामिति सक् । सृजेः कर्मणि किरमागमश्च निपात्यः । दिशन्ति तामिति दिक् । दिशेः कर्मणि क्विः। उत्स्निह्यतीति उष्णिक् । उत्पूर्वा स्निहः ग्यन्त षत्वं च । उष्णीषेण नह्यतीति वा उष्णिक् । पनखं प्रश्च । अञ्चु । प्राङ् । दध्यङ् । सुबन्तमात्रे विभवति । युजेः केवलादेव किः । युङ् । युञ्जौ । युञ्जः । क्र छ । कुचौ । कुञ्चः । क्रुञ्चेरपि केवलात् क्विः । नखं न भवति । स एष विशेषो निपातनैः सह निर्देशाल्लभ्यते ।
त्यदादी दृशोऽनालोके टक् च ॥२।२।५८॥ त्यदादिषु वाच दृशेरिनालोकेऽर्थे टग् भवति विश्च । आलोकश्चतुर्विषयः पर्युदस्यो । त्यादृक् । त्यादृशः । “दृशदृग्दृक्षवती'' [५।३।१६५] इति निर्देशात्कोऽपि भवति । त्यादृक्षः। "अासर्वनाम्नः" [४।३।१९७] इत्यात्वम् । एवं तादृक् । तादृशः । ताक्षः । याहक । यादृशः । यादृक्षः। रुढिशब्दा एते तेन नैतेष्ववयवार्थोऽस्ति । तमिव पश्यति अथवा स इव दृश्यते इति यथा कथञ्चिद्वाक्यम् । 'समानान्ययोश्चेति वक्तव्यम्'' [वा० ] सदृशः । सदृक् । सदृक्षः । अन्यादृक् । अन्यादृशः । अन्यादृक्षः। "दृशहरहमवतौ'' [।३।१९५] इति समानस्य सभावः । अनालोक इति किम् ? यं पश्यति यद्दशः। तदर्शः।
सत्सूद्विपदुहद्र हयुजविदभिदच्छिदजिनीराजो गावपि विप ॥२॥२॥५६॥ सदादिभ्यो धुभ्य किब भवति गौ वाचि अपिशब्दात् सुबन्तेऽपि । प्रसत् । दिवि सीदतीति शुषत् । अन्तरिक्षसत् । सू इति
१. युटोऽप्यन्त्रार्थतः प्रति-अ.
For Private And Personal Use Only