________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम्
[अ० २ पा० २ सू० ४२-१२
क्षेमप्रियमद्ऽ ण च ॥२।२।४२॥ क्षेम प्रिय मद्र इत्येतेषु कर्मसु करोतेरणित्ययं त्यो भवति खच्च । वेति सिद्धे को हेत्वादिष्वपि टप्रतिषेधार्थमणग्रहणम् । क्षेमकारः । क्षेमङ्करः । प्रियकारः। प्रियङ्करः । मद्रकारः । मद्रङ्करः।
पाशितम्भवः ॥२॥२॥४३॥ श्राशितम्भव इति निपात्यते । श्राशितशब्दे सुबन्ते वाचि भवतेर्भावकरणयोः खा निपात्यते । आसित इति कर्तरि क्लो दीत्वं चात एव निपातनात् । अाशितस्य भवनमाशितम्भवो वर्तते । आशितो भवत्यनेनालमयमाशितम्भव श्रोदनः। प्रकरणान्तरविहितो युडपि भवति । भावे घनः समत्वादयं बाधकः।
भृतवृजिधारिसहितपिदमः खौ ॥२२४४॥ भृ तृ वृ जि धारि सहि तपि दमि इत्येतेभ्यः खुविषये खज् भवति । कर्मणि सुपि वाचि यथासम्भवमयं विधिः। विश्वम्भरा । वसुन्धरा । रथन्तरो नाम राजा । वृद्धावृक्षोः-पतिवरा कन्या । अरिञ्जयः । युगं धारयति इति युगन्धरः । “खचि[१॥४॥८८] इत्युङः प्रादेशः । शत्रुसहः । शत्रुन्तपः । दमिरन्तर्गतण्यर्थः । अरिन्दमः। खाविति किम् ? कुटुम्बभारः।
गमः ॥२२॥४५॥ खाविति वर्तते। सुबन्तवाचि गमेोः खज भवति । सुतङ्गमो नाम पश्चित । क्वचिदखावपीष्यते। मितंगमोऽश्वः। अमितङ्गमा हस्तिनी । “विहायसो विहादेशः खच्च वा डिद्वक्तव्यः" [वा०] विहायसा गच्छति विहङ्गः । विहङ्गमः। "तुरभुजयोश्च [ वा०] तुरङ्गः । तुरङ्गमः । भुजङ्गः । भुजङ्गमः।
डः ॥२॥४६॥ खाविति निवृत्तं गम इति वर्तते । गमेझै भवति सुबन्ते वाचि । अन्तादिषु वाच प्रायेणाभिधानम् । अन्तगः । अत्यन्तगः । अध्वगः। दूरगः । पारगः । अनन्तगः । गुरुतल्पग; । स्त्रयागारगः । ग्रामगः । सर्वत्र गच्छति सर्वत्रगः । पन्नं गच्छति पन्नगः । 'उरसः सखञ्चति वक्तव्यम्" [वा०] "विहायसो विहं च" [वा०] उरसा गच्छति उरगः । विहायमा गच्छति विहगः । “सुदुरोरधिकरणे डो वक्तव्यः' [वा०] सुखेन गच्छति अस्मिन् सुगः । दुर्गः । "निसो देशे' [वा०] निर्गो देशः । डित्यभस्यापि डिस्करणसामर्थ्याह: खम् ।
____ आशिषि हनः ॥२।२।४७॥ आशिष्यर्थे हन्ते? भवति कर्मणि वाचि । तिमि हन्ति तिमिहः । शापहः।
अपे क्लेशतमसोः ॥२॥२॥४८॥ अप इति कास्थाने ईप । अपपूर्वात् हन्तेः क्लेशतमसोः कर्मणोर्वाचो? भवति । अनाशोरर्थोऽयमारम्भः । क्लेशापहः । तमोपहः ।
कुमारशोषयोर्णिन् ॥२।२।४९॥ कुमार शीर्ष इत्येतयोः कर्मणोहन्तेणिन् भवति । अशीलार्थोsयमारम्भः । कुमारघाती । शीर्षधाती। शीर्षशब्दोऽकारान्तः शिरःर्यायोऽस्ति ।
टगमनुष्ये ॥२२॥५॥ हन इति वर्तते । हन्तेः कर्मणि वाचि रंग भवति अमनुष्ये कर्तरि । पित्तं हन्ति पित्तघ्नं धृतम् । श्लेष्मनमौषधम् । जायाघ्नस्तिलकः । पतिघ्नी रेखा। अमनुष्य इति किम् ? पापघात. स्तपस्वी । चौरघातो हस्तीत्यत्र "युव्या बहुलम्' [२।३।६४] इति बहुलवचनादण् ।
जायापत्योर्लक्षणे ॥२२॥५१॥ लक्षणं चिह्न तदस्यास्तोति लक्षणः । अर्शश्रादिपाठादः । जाया पति इत्येतयोः कर्मणान्तर्ल वणवति कर्तरि टग्भवति । जायानो ब्राह्मणः। लक्षणमस्य तद्विधमस्ति । पतिप्नी कन्या ।
शकि हस्तिकवाटे ॥२॥२॥५२॥ शकनं शक् शक्तिरित्यर्थः । हस्ति कवाट इति एतयोः कर्मणोः हन्तेष्टग् भवति शकि गम्यमानायाम् । अयं पूर्वश्च गनुष्यक कार्य प्रारम्भः । हस्तिनं हन्ति हस्तिथ्नो मनुष्यः । इस्तिनं हन्तुं शक्त इत्यर्थः । कवाटप्नो मनुष्यः। शकीति किम् ? हस्तिघातो व्याधः उपायेन ।
For Private And Personal Use Only