________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अ० २ पा० २ सू० ३२-४१ ]
महावृत्तिसहितम्
१०५
एजेः खश् || २|२|३२|| एजतेपर्यन्तात्खशित्ययं त्यो भवति कर्मणि वाचि । खकारः “ खित्यझेः " [४/३/१७६ ] इति विशेषणार्थः । शकारो गसंज्ञार्थः । श्रङ्गान्येजयति श्रङ्गमेजयः । जनमेजयः । “वाततिलसार्धेषु अजतुदजहातिभ्यः खश्वक्तव्यः " [ वा० ] वातमजाः मृगाः । तिलन्तुदः काकः । सार्धं अहा मृगाः ।
Acharya Shri Kailassagarsuri Gyanmandir
नासिकादधेः ||२|२|३३|| नासिकादिषु कर्मसु धेट् ध्मा इत्येताभ्यां खश् भवति । नासि - कान्धयति नासिकन्धयः । नासिकान्धमः । स्वरिन्धयः । स्वरिन्धमः । नाडिन्धयः । नाडिन्धमः । मुष्टिन्धयः । मुष्टिन्धमः । घटिन्धयः । घटिन्धमः । वातन्धयः । वातन्धमः । शुनीस्तनयोर्भेट एव । शुनिन्धयः । स्तनन्धयः । श्रादिशब्दः प्रकारवाची ।
उदि कूले रुजिवहोः || २|२|३४|| उदीति कास्थाने ईपू । उत्पूर्वाभ्यां रुजि वहि इत्येताभ्यां कुले कर्मणि ख | कूलमुद्रजः । कूलमुद्रद्दः ।
वहाभ्रे लिहः ||२|२|३५|| वह अभ्र इत्येतयोः कर्मणोः लिहेर्धोः खश् भवति । वहं लेटि वह लिहो गौः । श्रभ्रं लिहः प्रासादः
मितनखपरिमाणे पचः ॥२२२|३६|| मितशब्दस्य पृथग्निर्देशात् परिमाणं प्रस्थादि गृह्यते । मित नख परिमाण इत्येतेषु कर्मसु पचेर्धोः खश् भवति । मितं पचते मितम्पचा कन्या । नखम्पचा यवागूः । प्रस्थम्पचा । श्राढकम्पचा । द्रोणम्पचा ।
विध्वरुषोस्तुदः सखम् ||२|२|३७|| विधु अरुष इत्येतयोः कर्मणोः तुदेधः खशू भवति । सकारस्य च खम् । विधुन्तुदः । श्ररुन्तुदः ।
वाचंयमासूर्य पश्योग्रम्पश्य ललाटन्तपपरन्तपद्विषन्तपेरम्मदपुरन्दर सर्व सहाः || २|२|३८|| एते शब्दा निपात्यन्ते । वाक्छब्दे कर्मणि यमेधः खो निपात्यते व्रते । वाचं यच्छति वाचंयमस्तपस्वी । वाग्यामोऽन्यः । सूर्ये न पश्यति श्रसूर्यपश्यं मुखम् । सूर्य पश्या राजदाराः । निपातनादसामर्थ्येऽपि नञ्सः दृशेः खश् । उम्र पश्यति उग्रम्पश्यः । उग्रे कर्मणि दृशेः खश् निपात्यते । ललाटन्तपति ललाटन्तपो भास्वान् । खशु निपात्यः । परास्तापयति परन्तपः । द्विषतस्तापयति द्विषंस्तपः । परद्विषतोः कर्मणोस्तापेः खनिपात्यते । तकारस्य च खम् । "खचि" [ ४|४|८८ ] इति प्रादेशः । स्त्रियामनभिधानम् । द्विषतीतापः । इरया माद्यति इरम्मदम् । खन्निपात्यः । पुरो दारयति पुरन्दरः । खच् वाचो मन्तता च निपात्यते । सर्वं सहते इति सर्वं सहः । खश् निपात्यः । कथं पाणयो ध्यायन्ते एषु पाणिन्धमा पन्थान इति ? नासिकादौ पाणिशब्दः; तत्र पाणिन्धमाः पथिकाः तात्स्थ्यात्पन्थानोऽपीत्यधिकरणे खश् न वक्तव्यः ।
प्रियवशे वदः खच् ॥२२२|३६|| प्रिय वश् इत्येतयोः कर्मणोः वदतेः खजित्ययं त्यो भवति । प्रियंवदः । वशंवदः । खकारो वागर्थ : ( मुमर्थः ) । चकारः "खचि" [ ४|४|८८ ] इति विशेषणार्थः । त्यान्तरकरणं किमर्थम् ? खशि सति उत्तरत्र करोतेर्जिभर्तेश्च विकरणः स्यात् । धोरिहोङः प्रादेशश्च न स्यात् । सर्वकूला भ्रकरीषेषु कषः || २|२|४०|| सर्व कूल अभ्र करीष इत्येतेषु वातु कषतेः खज् भवति । सर्वंकष विप्रः । कूलङ्कषा नदी । श्रभ्रषो वायुः । करीषङ्कषा वात्या । “भगे दारेः खजू वक्तव्य:" [ वा० ]
भगन्दरः ।
मेघर्तिभयेषु कृञः ||२/२/४१ || मेघ ऋति भय ऋतिङ्करा । भयङ्करः । “अभयाच्चेति वक्तव्यम्' [ वा० ] पोऽपवादोऽयम् | परत्वेन हेत्वादिटस्य च बाधकः ।
१४
इत्येतेषु कर्मसु करोतेः खज् भवति । मेघङ्करः । अभयङ्करो जिनः । नञ से श्रन्योऽर्थः प्रतीयते ।
For Private And Personal Use Only