________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४
जैनेन्द्र-व्याकरणम्
[अ० २ पा० २ सू० २२-३१
भिक्षासेनादाये ॥२२२२२॥ अनधिकरणार्थमेतत् । भिक्षा सेना श्रादाय इत्येतेषु वाच चरेष्टो भवति । भिक्षाचरः । सेनाचरः । श्रादायशब्दः प्यान्तः । श्रादाय चरति श्रादायचरः।
पुरोऽग्रतोऽग्रेषु सुः ॥२।२।२३।। पुरस अग्रवस् अग्रे इत्येतेषु सुबन्तेषु वाक्षु सरतेष्टो भवति । पुरःसरः । “अग्रतस आधादिभ्य उपसंख्यानम्" [वा०] इत्येचन्तात्तसिः । अग्रतःसरः। अग्रेसरः । अग्रेसरी। अनीबन्तत्वेऽप्येकारो निपातनात् ।
पूर्व कर्तरि ॥२२२४॥ कर्तृग्रहणं कर्मनिवृत्यर्थं पूर्वशब्दे कर्तृवाचिनि सुबन्ते वाचि सरतेष्टो भवति । पूर्वः सरति पूर्वसरः। क्रियाया विशेषणेऽपीष्यते । पूर्व प्रथमं सरति पूर्वसरः । कर्तरीति किम् ? पूर्व देशं सरति पूर्वसारः।
कृमो हेतुशीलानुलोम्येऽशब्दश्लोककलहगाथावरचाटुसूत्रमन्त्रपदे ॥२॥२॥२५॥ शब्दश्लोकादिवर्जिते कर्मणि वाचि कृतःट इत्ययं त्यो भवति हेतौ शीले भानुलोम्ये च गम्यमाने । हेतुशब्दोपादानात् इह हेतुः प्रकृष्ट कारणम् । विद्या यशस्करी। धनं कुलकरम् । शीलं स्वभावः। समासकरः । अर्थकरः । श्रानुलोम्यमनुकूलता । प्रेषकरः । वचनकरः। एतेष्विति किम् ? कुम्भकारः। अशब्दादिष्विति किम् ? शब्दकारः । श्लोककारः। कलहकारः । गाथाकारः । वैरकारः । चाटुकारः। सूत्रकारः । मन्धकारः । पदकारः ।
दिवाविभानिशाप्रभाभास्करान्तानन्तादिनान्दीलिपिलिविवलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वद्धनुररुःषु ॥२।२।२६॥ अहेत्वाद्यर्थ प्रारम्भः । दिवाशब्दे सुबन्ते वाचि विभादिषु कर्मसु वाक्षु करोतेष्ट इत्ययं त्यो भवति । दिवेति मिसंज्ञ पदम् । दिवा करोतीति दिवाकरः। विभां करोतीति विभाकरः । निशाकरः । प्रभाकरः । भासनं भाः। भासं करोति भास्करः। सूत्रे भास्करान्तेति सकारस्य निपातनात् जिह्वामूलीयविसर्जनीयौ न भवतः । कारं करोतीति कारकरः । अन्तकरः। अनन्तकरः । अन्तकरस्य नसे अन्योऽर्थः प्रतीयते इत्यनन्तग्रहणम् । श्रादिकरः । नान्दीकरः । लिपिकरः। लिविकरः । बलिकरः । भक्तिकरः । कर्तृकरः। चित्रकरः । क्षेत्रकरः । संख्या एकत्वद्वित्वादिका । एककरः । बहुशब्दोऽपि नानाधिकरणवाची संख्याशब्दः । बहकरः । जंघाकरः। बाहुकरः। अहस्करः । "रोऽसुपि" [१३।७८] इति रेफः। तस्य "कृकमि" [१।३४ ] आदि सूत्रेण सत्वम् । धनुष्करः । अरुष्करः । “सस्सेऽद्य स्थस्य" [२४॥३३ ] इति सत्वम् । "इणः षः" [ २७] इति षत्वम् ।
२।२७॥ कर्मशब्दे वाचि कृअष्टो भवति भृतो गम्यमानायाम् । भृतिनियतं कर्ममूल्यम् । कर्म करोति कर्मकरः । भृताविति किम् ? कर्मकारः।
किंयत्तद्वहुवः ॥२।२।२८॥ किम् यद् तद् बहु इत्येतेषु वाच कृतः श्र इत्ययं त्यो भवति । किङ्करः किङ्करा । यत्करः । यत्करा । तत्करः । तत्करा । चौर्ये तत्करः । बहुकरा । इह बहुशब्दो वैपुल्यवाची । हेत्वादिषु ट एव भवति । किङ्करणशीला किङ्करी।
सकृत्स्तम्बे वत्सवीह्योरिः ॥२।२।२६॥ सकृत् स्तम्ब इत्येतयोः कर्मणोः का इरित्वयं त्यो भवति वत्सत्रीह्योः कत्रोंः । सकृत्करिवत्सः । स्तम्बकरिः ब्रोहिः । वत्सबीह्योरिति किम् ? सकृत्कारः । सम्बकारः ।
तिनाथयोः पशौ हजः ॥२२॥३०॥ दृति नाथ इत्येतयोर्वाचोः पशौ कर्तरि हुम इरित्ययं त्यो भवति । दृतिहरिः । नाथहरिः पशुः। पशाविति किम् ? दृतिहारः। नाथहारः।
फलेग्रह्यात्मम्भरिकुतिम्भरयः ॥२॥२॥३१॥ फलेग्रहि श्रात्मम्भरि कुक्षिम्भरि इत्येते शब्दा निपात्यन्ते । फलानि गृहाति फलेग्रहिः । वाच एत्वमिश्च निपात्यते। आत्मानं बिभर्ति श्रात्मम्भरिः । कुक्षिम्भरिः । वाचो मन्तत्वमिश्च निपात्यते ।
For Private And Personal Use Only