________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भ० २१० २ सू० ११ - २१]
महावृत्तिसहितम्
१०३
||२२|११|| गा इत्येतस्माद्वोः कर्मणि वाचि टगित्ययं त्यो भवति । वक्त्रगः । वक्त्रगी । "प्रे" [२४] "दाज्ञ:" [२२] इति नियमादगिपूर्वादातः कर्मणि को विहितस्तस्मिन्नेव विषये टक् । अन्यत्राणेव भवति । वक्त्रसंगायः ।
सुराशीध्वोः पिबः || २|२|१२|| सुरा शीधु इत्येतयोः कर्मणोः पितेः टग्भवति । सुरापः । सुरापी । शीपः । शीधुपी । श्रयमपि कापवादः । सुराशीध्वोरिति किम् ? क्षीरं पिवतीति क्षीरपा कन्या । पिइति विकृत निर्देशः किम् ? सुरां पातीति सुरापा ।
ग्रहेरः ॥२|२|१३॥ ग्रहेर्धोः कर्मणि वाचि इत्ययं त्यो भवति । शक्तिलाङ्गत्ताङ्कुशयष्टितो मरघटघटी धनुःषु वाक्षु प्रायेणाभिधानम् । शक्तिग्रहः । लाङ्गलग्रहः । श्रङ्कुशग्रहः । यष्टिग्रहः । तोमरग्रहः । घटग्रहः । घरग्रहः । धनुर्ग्रहः । सूत्रग्रहो भवति धारयति चेत् । सूत्रग्राहोऽन्यः ।
visनुत्सेधे ||२२|१४|| उत्सेध उत्क्षेपणम् । हृञोऽनुत्सेधे वर्तमानात् कर्मणि वाचि त्यौ भवति । श्रंशं हरति श्रंशहरः । भागहरः । रिक्थहरः । श्रनुत्सेधे इति किम् ? भारहारः । न केवलमुच्छ्राये उत्क्षेपणेऽप्युत्सेध इति शब्दो वर्तते तद्यथा नानाजातीया अनियता ( तवृत्तयः ) उत्सेधजीविन इति ।
वयसि ||२|२|१५|| शरीरिणां कालकृतावस्था वयः, तत्र त्यो भवति वयसि गये । श्रयमुत्सेधार्थ प्रारम्भः । कवचहरः क्षत्रियकुमारः । अस्थिरः श्वशिशुः । शोर ( दृश्यमानेन ) संभाव्यमानेन वा भारोक्षेपणेन वयो गम्यते ।
श्राङि शीले || २|२|१६|| शीलं स्वाभाविकी प्रवृत्तिः । श्रङि च वाचि हृञोऽत्यो भवति शीले गम्यमाने । पुष्पाहरः । फलाहरः । सुखाहरः । उत्सेधानुत्सेधयोरयं विधिरिष्यते । अनुत्सेधे पूर्वेण कस्मान्न भवति ? शीले परत्वान् स्यात् । शील इति किम् ? भारमाहरति भाराहारः ।
I
श्रहः ॥ २२॥१७॥ श्रतेः कर्मणि वाचि त्यो भवति । पूजा प्रतिमा ।
स्तम्बेरमकर्णेपौ ||२||१८ ॥ स्तम्बेरम कर्णेज इत्येतौ शब्दौ हस्ति सूचकयोरर्थयोर्निपात्येते । स्तम्बेरमो हस्ती । कर्णेजयः सूचकः । स्तम्बकर्णयो रमिजपोरिति सूत्रं कर्त्तव्यं सुपीति वर्तते ।" वे कृति बहुलम् " [४।३।१३२ ] इत्यनुपा सिद्धम् । श्रर्थविशेषपरिग्रहार्थं निपातनम् । इह मा भूत् । स्तम्बे तृणस्तवके रन्ता गौः । कर्णे जपिता वैद्यः ।
शमि धोः खौ || २|२| १९ ॥ शमि वाचि धोः खुविषये त्यो भवति । शम्भवः । शंवदः । शङ्करः । ग्रहणेऽनुवर्तमाने पुनधु ग्रहणं बाधकबाधनार्थम् । शङ्करा नाम परिव्राजिका । खुविषये कृओ हेत्वादिषु परत्वाट्टो मा भूत् । खाविति किम् ? शङ्करी जिनविद्या ।
I
शोङोऽधिकरणे ॥२|२|२०|| शेतैरधिकरणे सुत्रन्ते वाचि त्यो भवति । खे शेते खशयः । खेशयः । गर्तशयः । गर्तेशयः । " कृति बहुलम् ” [४।३।१३२] इति पक्षेऽनुप् । शीङ इति योगविभागात् पार्श्वादिषु सुबन्तेषु वा त्यो भवति । पार्श्वाभ्यां शेते पार्श्वशयः । पृष्ठशयः । उदरशयः । "उत्तानाविषु च कर्तृषु'' [वा०] उत्तानः शेते उत्तानशयः । श्रवमूर्द्ध शयः । "दिग्वसह पूर्वाच्च त्यो भवति" [वा०] दिग्धेन सह शेते दिग्धसदृशयः । कथं गिरिशः लोमादिपाठान्मत्वर्थीयः शः । यो हि गिरौ शेते गिरिस्तस्यास्ति ।
चरेष्टः || २|२|२१|| चरेर्घोरधिकरणे वाचि ये भवति । कुरुषु चरति कुरुचरः । मद्रचरः । मद्रचरी । अधिक इत्येव । कुरूंश्चरति कुरुचारा ।
१. वक्त्रं छन्दोविशेषः । २ शो सम्भा - अ०, स० । ३. प्रकृति: ब०, स०, मु० 1
For Private And Personal Use Only