________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
जैनेन्द्र-व्याकरणम्
[अ० २ पा०२ सू० १-१०
कर्मण्यण् ॥२२॥१॥ कर्मणि कारके वाचि धोरणित्ययं त्यो भवति । कुम्भकारः। शरलावः । चर्चापारः। कुम्भादिशब्दात् “कर्तृकर्मणोः कृति" [१६] इति ता। "वागमिङ" [११३८२] इति षसः । "शीलिकामिभक्ष्याचरीक्षिक्षमिभ्यो णो वक्तव्यः' [वा०] धर्मशीलः। धर्मशीला । धर्मकामः । वायुभक्षः। धर्माचारः। धर्मा पेक्षः । क्लेशक्षमः। नेदं वक्तव्यम् । घान्तेन बसे सति सिद्धम् । धर्म शीलमस्य धर्मशीलः। धर्मे कामोऽस्य धर्मकामः। धर्म शीलयतीत्येवमादिविग्रहे अनभिधानादण् न भवति यथा श्रादित्यं पश्यति हिमवन्तं शृणोतीत्येवमादौ न भवति । कुम्भकारादिष्वण घान्तेन च बस इत्युभयं भवति ।
हावामः ॥राश२॥ हा वा मा इत्येतेभ्यश्चाण् भवति कर्मणि वाचि । के प्राप्ते इदं वचनम् । स्वर्गहायः। तन्तुवायः। वातिवायत्योर्मातेश्वाकर्मकत्वादग्रहणम् । धान्यं मिमीते मयते वा धान्यमायः । मीनातिमिनोत्योः कप्राप्तेरभावात् पूर्वेणैवाए।
आतः कः ॥२२॥३॥ श्राकारान्ताद्धोः कर्मणि वाचि क इत्ययं त्यो भवति । गोदः। अर्थज्ञः । पाणित्रम् । अङ्गलित्रम् । ज्या वयोहानावित्यस्य ब्रह्म जिनातीति ब्रह्मज्यः । के कृते परत्वादातः खं पश्चाजिः । "प्रसिद्धवदनाभात्" [४।४।२१] इत्यात्वस्यासिद्ध खादिया देशो न भवति । यणादेशः सिद्धः। जुहुवतुः जुहुबरित्यत्र ह्रअ श्राखमकृत्वा जिः क्रियते इत्यात्वं नास्तीत्युवादेशः सिद्धः। श्राह्वः। प्रहः। इत्याकारान्तात् "आतो गौ' [२।३।८] इति कः । प्रागाव पश्चाजिः ।
प्रेशरा४॥ प्रपूर्वादातः को भवति कर्मणि वाचि । तत्त्वप्रज्ञः । भोक्षप्रज्ञः । नियमार्थोऽयमारम्भः । प्र एव गौ नान्यस्मिन्नातः को भवति । गोसंदायः । वडवासंदायः ।
दाशः ॥२।२।५।। अयमपि नियमः। दा शा इत्येताभ्यामेव प्रपूर्वाभ्यां फर्मणि को भवति । धर्मप्रदः । धर्मप्रज्ञः। नियमादिह न भवति । पाणिप्रत्रायः । अङ्गुलिप्रत्रायः । कथं भाष्ये प्रयोगः "अभिज्ञश्च पुनरेकत्वादीनामर्थानाम्" इति । अत्राभिधानवशात् "प्रातो गौ' [२।३।८८] इति को भविष्यति ।
संख्यः ।।२।२६॥ प्र इति नियमेन निवर्तिते के पुनरारम्भः । सम्पूर्वात् ख्या इत्येतस्मात्कर्मणि वाचि को भवति । पशून् सञ्चष्टं पशुसंख्यः । अश्वसंख्यः ।
सुपि ॥२७॥ सुबन्ते वाचि धोरातः को भवति । पादैः पिबति पादपः । कच्छेन पिबति कच्छपः। द्वाभ्यां पिबति द्वीपः। समस्थः। विषमस्थः। धर्माय प्रददाति धर्मप्रदः। शास्त्रेण प्रजानाति शास्त्रप्रज्ञः। अकर्मण्यपि वाचि यथा स्यादिति सुग्रहणम् । इह केचिदात इति नानुवर्तयन्ति । तेन मूलविभुजादिष्वभिधानवशात् कः सिद्धः । मूलान् विभुजति मूलविभुजो रथः । जलरुहम् । नखमुचानि धनूंषि । काकगुहास्तिलाः।
स्थः ॥८॥ सुपि वाचि तिष्ठतेः को भवति । करि पूर्वो योगः । अनिर्दिष्टार्थत्वात् भावेऽपि यथा स्यादित्यारम्भः । श्राखूनामुत्थानमाखूत्थः । शलमोत्थः। "स्थास्तभोः पूर्वस्योदः" [२४१३५] इति सकारस्य पूर्वस्वत्वम् ।
दुहो घश्च ॥२६॥ इतः प्रभृति कर्मणीति सुपीति च द्वयमनुवर्तते । कर्मणि वाचि दुहेः को भवति धकारश्चादेशः । कामान्दोग्धि कामदुधो धर्मः । कामदुधा धेनुः ।
तुन्दशोकयोः परिमृजापनुदोः ॥२॥२॥१०॥ तुन्द शोक इत्येतयोः कर्मणोर्वाचोः परिमृज अपनुद इत्येताभ्यां को भवति । अविशेषेण "सुपि" [२७] इत्येतेनैव के सिद्धे बालस्यसुखाहरणयोरर्थयोर्यथा स्यादित्यारम्भः । तुन्दपरिमृजः अलसश्चेत् । शोकापनुदः पुत्रो जातः । पूर्व “तिकुप्रादयः" [३८] इति षसः पश्चाद्वाक्सः । श्रालस्यसुखाहरणयोरिति किम् ? तुन्दपरिमार्ज अातुरः । शोकापनोदो धर्माचार्यः ।
१. के कृते परत्वादेस्यारभ्य प्रागात्वं पश्चाज्जिः इत्यतः पाठश्चिभ्यः ।
For Private And Personal Use Only