________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० २ प ० १ सू० १३ - १०३ ]
महावृत्तिसहितम्
भृगोऽखौ ||२||६३॥ भृञः क्यग्भवति श्रखुविषये । भृत्याः कर्मकराः । भृत्याः शिशवः । भर्तव्या इत्यर्थः । श्रखाविति किम् ? भार्या नाम क्षत्रियाः केचित् । देवदत्तस्य भार्या । स्त्रियां "समजनिषद', [१] इत्यादिना भावे क्यप् । कर्मणि चायं भार्याशब्दः । 'संपूर्वाह्न ेति वक्तव्यम्" [वा०] सम्भृत्या सम्भार्याः कर्मकराः ।
६६
खेराजसूय सूर्यमृषोद्यरुच्य कुप्यकृष्टपच्यान्यथ्याः || २|१|६४ ॥ खेयादयः शब्दा निपात्यन्ते । खेयमिति खनतेर्यो निपात्यते इकारश्चान्तादेशः । श्रादेप् । 'ये बा' [४|४|४५] इत्यात्वं नाशङ्कनीयं निपातनादेव । राजसूयभिति राजशब्दे वान्ते भान्ते सुनोतेः क्यपू दीत्वं च निपात्यते । राज्ञा सूयते राजा वा अस्मिन् सूयते इति राजसूयम् । सरति कर्माणि सुवतीति वा सूर्यः । सत्र्त्तेयत्वं सूवतेर्वा रुडागमः क्यप्च निपात्यते । मृत्रापूर्वस्य वदतेनित्यं क्यम्निपात्यते । मृषोद्यम् । रुच्यमिति कर्त्तरि क्यप् निपात्यते । कुप्यमिति संज्ञायां गुपेरादौ कत्वं क्यप्च निपात्यते । कुप्यं फल्गु भाण्डमित्यर्थः । गोप्यमन्यत् । कृष्ठे पच्यन्ते स्वयमेव कृष्टपच्या ब्रीहयः । ग्रात्मकर्मणि क्यप् । न व्यथतेऽसावव्यथ्यः । नञ्पूर्वाद्व्यथतेः कर्त्तरि क्यप् निपात्यते ।
1
भिद्योद्ध्यो नदे || २|१| ६५॥ भिद्य उद्धय इत्येतौ निपात्येते नदेऽभिधेये । भिनत्ति कुलानि भिद्यः । उज्झत्युदकमिति उद्धयः । कर्तरि कारके क्यप् उज्र्धत्वं च निपात्यते । नद इति किम् ? भिदः । उज्झः । इगुङलक्षणः कः पचाद्यच्च यथाक्रमम् ।
पुष्यसिद्ध्यो मे ||२||६६ ॥ पुष्य सिध्य इत्येतौ निपात्येते ऽभिधेये । पुष्यन्यस्मिन्नर्थं श्रारभमाणानामिति पुष्यः । सिध्यन्त्यस्मिन्नर्था इति सिद्धयः । श्रधिकरणे क्यनिपात्यते नक्षत्रे वाच्ये । अन्यत्र पोषणः सेधन इति च भवति ।
विपूयविनीय जित्या मुञ्जकल्कहलिषु ॥ २१२६७ ॥ विपूय विनीय जित्या इत्येते शब्दा निपात्यन्ते यथासंख्यं मुञ्ज कल्क हलि इत्येतेषु वाच्येषु । विधूयते इति विपूयो मुञ्जः । पवतेः क्यनिपात्यते । विपव्यमन्यत् । विनीयतेऽसौ घृतादिना विनीयः । त्रिफलादिकल्कः । विनेयमन्यत् । जित्यो हलिः । जेयमन्यत् ।
पदास्वैरिबाह्यापच्येषु ग्रहः ॥ २१६८ ॥ पदे स्वैरिणि बाह्यायां पये चार्थे ग्रहेधः क्यमवति । प्रगृह्यते इति प्रगृह्यं पदम् । अवगृह्यं पदम् । श्रस्वैरी परवशः । गृह्यका इमे । अनुकम्पायां कः । परतन्त्रा इत्यर्थः । aftar बाह्या । गृह्यते इति गृह्या; ग्रामस्य गृह्या ग्रामगृह्या नगरगृह्या सेना । ताभ्यां बहिर्भूता इत्यर्थः । स्त्रीलिङ्गादन्यत्र न भवति । पक्षे भवः पयः । भरतगृह्यः । भुजबलिगृह्यः । तत्पक्ष्य इत्यर्थः ।
वृषां यशोभद्रस्य ॥२२२२६६॥ कार्थे ता । कृ वृषि मृज् इत्येतेभ्यः क्यच् भवति यशो - भद्राचार्य कृत्यम् | कार्यम् । नित्यं एयः प्राप्तः । वृष्यम् । वर्ण्यम् । परिमृज्यम् । परिमार्ग्यम् । "ऋदुङ:" [ २ ] इति नित्यं क्यप् प्राप्तः |
युग्यं पत्रे ||२||१००॥ पतति श्रनेनेति पत्रं वाहनम् ; तस्मिन्नर्थं युग्यमिति निपात्यते । युज्यते इति युग्योऽश्वः । युग्यो गौः । क्यप् कुत्वं च निपात्यते । पत्रादन्यत्र योग्यमिति ।
ण्यः ॥२|१|१०१|| ण्य इत्ययं त्यो भवति घोः । श्रयमुत्सर्गः । श्रजन्ताद्यः क्यप् चास्यापवादो । कार्यम् | हार्यम् । पाक्यम् । पाठ्यम् ।
For Private And Personal Use Only
ओरावश्यके || २|१|१०२ || उवार्णान्ताद्ध एयों भवत्यावश्यके द्योत्ये । श्रवश्यमित्यस्य भावः श्रवश्यकम् । मनोज्ञादित्वाद् वुञ । लाव्यम् । पाव्यम् । यद्यावश्यकेऽर्थेऽवश्यलाव्यमिति कथं सविधिः ? मयूर - व्यंसकादित्वाद्विभाषया । श्रावश्यक इति किम् १ लव्यम् | पव्यम् ।
अमावस्या वा || २|१|१०३ ॥ अमावस्य इति वा प्रादेशो निपात्यते । श्रमा वसतः सूर्याचन्द्रमसावस्या