SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ० २ पा० । सू० ७५-८४] महावृत्तिसहितम् धिन्विकृणव्योर च॥२॥१७॥ धिवि प्रीणने', 'कृवि हिंसाकरणयोः' इत्येताभ्यां उरित्ययं त्यो भवति अकारश्चान्तादेशः। धिनोति । कृणोति । अतः खम् | "न धुखेडगे" [१1१1१८] इति प्रतिषेधात् “परेऽचः पूर्वविधौ'' [१।११५७] इति स्थानिवद्भावाद्वा (एप् ) न भवति । सनुम्कोच्चारणं ज्ञापकं त्योत्पत्तेः प्रागेव नुम्भवतीति । तेन कुण्डा हुण्डेति सिद्धम् । क्यादेः श्ना ॥२२१७६।। क्री इत्येवमादिभ्यो धुभ्यः श्ना इत्ययं त्यो भवति । क्रीणाति । प्रीणाति । स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ भ्यः श्नुश्च ॥२।१७७॥ स्तम्भ्वादिभ्यः भर्भवति भा च । स्तनोति । स्तन्नाति । स्तुभ्नोति । स्तुम्नाति । स्कनोति । स्कनाति । स्कुम्नोति । स्कुनाति । स्कुनोति । स्कुनाति । स्कु त्र्यादिषु पठ्यते । इतरेषामिहैवोपदेशः। उदित्करणादन्यत्रापि प्रयोगः । हो हलः श्नः शानः ।।२।१।७८ हल उत्तरस्य ना इत्येतस्य शान इत्ययमादेशो भवति हौ परतः । अशान । पुषाण । हाविति किम् ? अभाति । हल इति किम् ? क्रोणीहि । भ इति स्थानिनिर्देशः किमर्थः ? स्तम्भादीनां यदा भुस्तदा मा भूत् । स्तन्नुहि । त्यान्तरं वा सर्वेभ्यः सम्भाव्यते । शानस्य शित्करणं ज्ञापकम्अनित्योऽनुबन्धस्य स्थानिवद्भाव इति । तेन लङादीनां मिबादिषु स्थानिवद्भावाहित्त्वं ङित्त्वं च न भवति । पचमाना स्त्री। श्रचिनवम् । असुनवम् । ईपाऽत्र वाक् ॥२॥१॥७६।। धोरिति वर्तते । अत्र धोरधिकारे ईपा निर्दिष्टं वाक्संज्ञ भवति । गम्यमानक्रियापेक्षया ईपेत्यस्य करणलम् । वक्ष्यति "कर्मण्यण्' [२।२।१] कुम्भकारः। शरलावः । मृद्रपस्येयं वाक्संज्ञा तेन "कर्तृकर्मणोः कृति'' [१॥४।६८] इति कर्मणि ता भवति । तासाद्वाक्सः परत्वेन । अत्रग्रहणं विस्पष्टार्थम् । वागितीयमन्वर्था संज्ञा । ब्रूतेऽर्थे वागिति तेनासामर्थ्य वाक्संज्ञा नास्ति । पश्य कुम्भं करोति कटम् । मृत्पिण्डं कुम्भं करोति । महान्तं कुम्भं करोति । सविशेषणानां च न भवति । हरतेः "हतिनाथयो: पशौ' [२।२।३०] इति पशुशब्दस्य न भवति । यत्र कृमि ॥२॥१८०॥ अत्र धोरधिकारे मिवर्जितात्याः कृत्संज्ञा भवन्ति । अत ऊध्द ये वक्ष्यन्ते तेषामधिकारेणेयं सज्ञा । वक्ष्यति 'तव्यानीयौ'' [२।११८३] । कर्तव्यः । करणीयः । अत्र मृत्सज्ञाप्रयोजनम् । इत्यः । स्तुत्यः। “पिति कृति" [४।३।१६] इति तुक् । अमिङिति किम् ? चीयात् । सूयात् । अकृद्यकाराहीत्वं सिद्धम् । प्राक्तेर्वाऽसमः ||शश८१॥ स्त्रियां क्तिरिति वक्ष्यते । प्रागेतस्मादसमो यस्त्यः कृत् स वा भवतीयेषोऽधिकारी वेदितव्यः । सरूपस्त्वपवादो बाधक एवेति भावः । विक्षेपकः । विक्षप्ता । विक्षिपः । इगुडलक्षणकविषये एवुढचावपि भवतः । प्राक्टेरिति किम् ? चिकीर्षा । “अस्त्यात्" [२१३१८४] इत्यकारः क्तबर्बाधकः । व्याक्रोशी। व्याऋष्टिरित्येवमादिषु यत्नो विधेयः। असम इति किम् ? गोदः । कम्बलदः । प्रात: का" [२।२।३] इति को भवति । अणोऽपवादः । अनुबन्धापाये रूपगतं समखमत्र । ण्वोाः ॥२॥१२॥ प्रागिति वर्तते "बुतृचौ" [२।१।१०६] इति वक्ष्यति । प्रागेतस्माद्य त्यास्ते व्यसंज्ञा वेदितव्याः । देवदत्तस्य कर्तव्यम् । देवदत्तेन कर्तव्यम् । व्यप्रदेशाः "व्यस्य वा कर्तरि" [१ ७५] इत्येवमादयः । तव्यानीयो ॥२॥१॥८३॥ तव्य अनीय इत्येतो त्यौ भवतः । कर्तव्यः । करणीयः । कथं वास्तव्यः ? वास्तु क्षेत्र तस्माद्भवाद्यर्थे दिगादित्वाद्यः । एवं वस्तुनि भवो वस्तव्यः ।। योऽचोऽरासुयुवः ॥२।१८४॥ य इत्ययं त्यो भवत्यजन्ताद्धोः सुवर्णान्त श्रासु यु इत्येतान् वर्जयित्वा । देयम् । गेयम् । “ईद्य"[४।४।६४] इति ईत्वम् । “गागयो:"[श२।८१] इति पुनरेप् । “देयमृणे" [२३२२] इति निर्देशादीत्वे गुकार्ये निवृत्ते पुनरेप् । दित्स्यं धित्स्यमित्यत्र अगे ये परतोऽतः खम् । अच इति किम् ? पाक्यम् । अरासुयुव इति किम् । कार्यम् ? हार्यम् । श्रासाव्यम् । याव्यम् । For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy