________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-च्याकरणम्
[अ० २ पा० १ सू० ६५-७४
अस्मद्यष्मत्सज्ञाऽभावाच्च अन्यसञ्ज्ञक एक एव च भवति । प्रास्यते भवता । सुप्यते भवता । कर्मणि-क्रियते कटः । भुज्यते श्रोदनः । ऋकारस्य दीत्वे प्रासे "रिड्यग्लिशे" [२।२।१३७] इति रिङ् । कर्मसामान्यात श्रात्मकर्मण्यपि यग् भवति । क्रियते कटः स्वयमेव । भिद्यते कुशलः स्वयमेव । कथं भिद्यते कुशूलेन स्वयमेवेत्यत्र कर्तरि भा। अत्राकर्मकत्वविवक्षा । तेन भावे लकारः । लान्तस्यो (तस्यो) भयविवक्षा । व्यक्तखार्थेष्वकर्मकविवव (क्ष्यैव) । भेत्तव्यं कुशूलेन स्वयमेव । भिन्नं कुशूलेन स्वयमेव । ईषद्भदं कुशूलेन स्वयमेव ।
कर्तरि शप् ॥२॥६४॥ कर्तृवाचिनि गे परतो धोः शब्भवति । जयति । भवति । तरति । शकारः "मिशिद्गः" [२१११३] इति विशेषणार्थः । पकारः "गोऽपित्" [११७८] इति विशेषणार्थः ।
दिवादेः श्यः ॥२॥१६॥ दिव इत्येवमादिभ्यः श्यो भवति गे परतः। दीव्यति । सीव्यति । श्रीव्यति । "हल्यभकुच्छुः " [५।३।८६] इति उङो दीलम् । इमे श्यादय शपोऽपवादाः ।
वा भ्राशभ्लाशभ्रमुकमुत्रसित्रुटिलषः ॥२॥१॥६६॥ भ्राश लाश भ्रम् क्रम् त्रसि त्रुटि लष इत्येतेभ्यो धुभ्यो वा श्यो भवति । उभयत्र विभाषेयम् । भ्राशते । भ्राश्यते । भ्लाशते । म्लाश्यते । भ्रमति । भ्रम्यति । श्ये (शिति) भौवादिकस्याशमादित्वाद्दीत्वं नास्ति । देवादिकस्य दीखम् । भ्रमति । भ्राम्यति । क्रमति । काम्यति । "क्रमो मे" [१२२७४] इति दीत्वम् । त्रसति । त्रस्यति । त्रुटति । त्रुट्यति । लषति । लष्यति । क्लमिग्रहणं न कर्तव्यम् । दिवादिपाठात् श्ये सति “शमित्यामदो दी: [श२।७२] इति दीत्वं सिद्धम् । "ष्टिषुक्लम्वाच. मां शिति" [२२।७३] पुनर्दीत्ववचन ज्ञापकं शवपि भवतीति ।
यसः ॥२।१।६७॥ यसु प्रयत्न इत्यस्माद्वा श्यो भवति । यसति । यस्यति ।
समः ॥२॥श६८॥ संपूर्वाच्च यसः वा श्यो भवति । संयस्यति । संयसति । नियमोऽयं सम एव च गर्विकल्पो नान्यस्मात् । प्रायस्यति । प्रयस्यति | दिवादिपाठान्नित्यः श्यः ।
स्वादेनुः ।।२।१॥६६॥ षुञ् इत्येवमादिभ्यो धुभ्यः श्नुरित्ययं त्यो भवति । सुनोति । सिनोति । __ श्रुवः शू ॥२॥१॥७०॥ शृ इत्येतस्मात् भुर्भवति श्रृ इत्ययं चादेशः । भु इति भुवादौ स्वादौ च पठ्यते । शृणुतः। शृण्वन्ति ।
थाऽक्षः ॥२।१७१॥ अक्ष इत्येतस्माद्धोः वा भुर्भवति । अक्ष्णोति । अक्षति । भौवादिकोऽयम् ।
ततः स्वार्थे ॥२।१।७२॥ स्वार्थतनूकरणम् । तक्षु इत्यस्मात् स्वार्थे वा शुर्भवति । तक्ष्णोति काष्ठम् । तक्षति काष्ठम् । स्वार्थे इति किम् ? सन्तति वाग्भिर्दुर्जनः।
रुधितुदादिभ्यां श्नम्शो ॥२।१।७३।। रुधादिभ्यस्तुदादिभ्यः श्नम्शौ त्यौ भवतः । शफारः "इनानखम्" [ २२] इति विशेषणार्थः । मकारः "परोऽचो मित्" [१११।५५] इति विशेषणार्थः । रुणद्धि । भिनत्ति । तुदादिभ्यः शः। तुदति । क्षिपति ।
कृषतनादेरुः ॥ २२१७४ ॥ कृञ् इत्येतस्मात्तनादिभ्यश्च उरित्ययं त्यो भवति । करोति । कुरुतः। कुर्वन्ति । तनादिभ्यः-तनोति । सनोति । क्षणोति । तनादित्वादेव सिद्ध पृथक कृतो ग्रहणं किम् १ अन्यत्तनादिकार्य करोतेर्मा भूत् । "सनादिभ्यस्तथासो:" [ १८] इति विभाषया सेरुम्न भवति । अकृत । अकृथाः। न चानुप्पक्षे "प्राद् गोः' [२३४५] इति खं सम्भवति । तस्मिन् प्राप्ते उप आरम्भात्सेः भवणं असचेत।
For Private And Personal Use Only