________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० २ पा० । सू० ५५-६३ ] महावृत्तिसहितम्
न रुधः ॥ २॥११५५ ॥ जिङविति प्राप्ते प्रतिषेधोऽयम् । भावे कर्मण्यात्मनि जिन भवति । अन्ववारुद्ध गौः स्वयमेव ।
तपोऽनुतापे च ॥ २॥१॥५६ ॥ तपतेरनुतापे च कर्मण्यात्मनि च जिन भवति । अनुतापः पश्चात्तापः तत्र तावत् भावकर्मणोरनुपि प्रतिषेधः । अन्ववातप्त पापेन कर्मणा । कर्मण्यात्मनि । अतप्त तपः स्वयमेव । साधुस्तावदुपवासादिलक्षणं तपस्तप्यते । तद्यदा तीव्रत्वात् कर्तृत्वेन विवक्षितं तदाऽयं प्रयोगः ।
यग् दुहः ॥ २१॥५७ ॥ नेति वर्तते । दुहेः कर्मण्यात्मनि यङ्न भवति । दुग्धे गौः स्वयमेव । लङि-अदुग्ध गौः स्वयमेव ।
नमः शप्तु ।। २।१३५८ ॥ नमः कर्मण्यात्मनि यङ् न भवति शप् तु भवति । नमते दण्डः स्वय. मेव । अनमत दण्डः स्वयमेव । कर्जाश्रयः शम्न स्यात् ।
स्नोरच भिश्च ॥२१११५९॥ स्नोश्च नमश्च कर्मण्यात्मनि जिर्यग, च न भवतः । प्रास्नोष्ट गौः स्वयमेव । प्रस्तुते गौः स्वयमेव । लङि प्रास्नुत गौः स्वयमेव । जिप्रतिषेधार्थ नमोऽनुकर्षणम् । यक् तु पूर्वेणैव प्रतिषिद्धः। अनंस्त दण्डः स्वयमेव । "जियकोः प्रतिषेधे णिश्रन्थिग्रन्थिब्रूजां दविधौ धीनां चोपसंख्यानं कर्तव्यम् वा०] णिरिति हेतुमएिणचोऽन्यस्य चाविशेषेण ग्रहणम् । अचीकरत कटः स्वयमेव । कारयते कटः स्वयमेव । अश्रन्थिष्ट मेखला स्वयमेव । श्रथ्नीते माला स्वयमेव । अग्रन्थिष्ट मेखलास्वयमेव । अनीते मेखला स्वयमेव । अवोचत वाक् स्वयमेव । ब्रूते वाक् स्वयमेव । दविधौ धीनाम् व्यकृषत सैन्धवाः स्वयमेव । व्यकुर्वत सैन्धवाः स्वयमेव । विकुर्वते सैन्धवाः स्वयमेव । भियकोः प्रतिषेधे कथं काश्रयाः कजादयः । “नमः शप्तु' [२१११] इत्यतस्तुशब्दोऽनुवर्तते तेन काश्रयविकरणसिद्धिः । अत इदमपि सिद्धम् । आरोहन्ति हस्तिनं हस्तिपकाः । श्रारोहयते हस्ती स्वयमेव । सिञ्चन्ति हस्तिनं हस्तिपकाः । सेचयते हत्ती स्वयमेव | "डौ' [॥२२७] इति दविधिः । यदान्यत्कर्म प्रति स्वातन्त्र्येण विवक्षा तदा काश्रया विधयो भवन्ति । श्रारोहयमाणे हस्ती स्थलमारोहयति मनुष्यान् । यथा भिद्यमानः कुशूलः पात्राणि भिनत्ति । इह कस्माद्दो न भवति । स्मरति वनगुल्मस्य कोकिलः । स्मरयत्येनं वनगुल्मः खयमेव । कर्मस्थभावकानां कर्मस्थक्रियाणां चात्मकर्म विवक्षा । कर्तृस्वभावकं चाऽध्यानमिति दो न भवति ।
कुषिरजेः श्यो मेवा ॥२१॥६०॥ कुषिरञ्जीत्येताभ्यां कर्मण्यात्मनि वा श्यो भवति मे परतः । कथं मविधिः वृद्धकुमारीवरवाक्यन्यायेन यथा बहुक्षीरघृतमोदनं मम पुत्रा भुङ्क्षीरन्नित्यत्र वरादिलब्धिः । कुष्यति पादः स्वयमेव । रज्यति वस्त्रं स्वयमेव । यदा श्यो न भवति तदा यग दविधी भवतः । कुष्यते पादः स्वयमेव । रज्यते वस्त्रं स्वयमेव । यगनुवर्तते तदपवादोऽयं तेन लिलिडोः स्यादिविषये च नायं विधिः ।
तपस्तपःकर्मकस्य कर्मवत् ॥ २१॥६॥ तपतेस्तपःकर्मकस्य कर्ता कर्मवद्भवति । कर्मातिदेशस्य यग्दविधी प्रयोजनम् । तप्यते तपः साधुः। अर्जयतीत्यर्थः। अतप्यत तपः साधुः। शतप्त तपः साधुः । तपःकर्मकस्येति किम् ? उत्तपति सुवर्ण सुवणकारः ।
बिझै ॥२६२ ॥ मण्डूकप्लुत्याते इति वर्तते लुङीति च । भिरित्ययं त्यो भवति ङावर्थे लुङि ते परतः । भावे-श्रासि भवता । अशायि भवता । कर्मणि-अकारि कटो भवता । अलावि केदारो भवता । पुनभिग्रहणं किम् ? जिरेव यथा स्यात् । यदन्यत्प्राप्नोति तन्मा भूत् । उपाश्लेषि कन्या। "श्लिष" [२११४५] इति क्सो न भवति ।
गे यक ॥२१॥६॥ अविति वर्तते । ङिबाचिनि गे यक् भवति । श्राख्यातवाच्यस्य भावस्पैकलात्
For Private And Personal Use Only