SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनेन्द्र-व्याकरणम् [अ० २ पा० । सू० ४५-५४ वक्त्यसु ॥२॥१४५ वक्ति असु ख्याति इत्येतेभ्यो लुङि परतः अभवति । इदमेव वक्तिवचनं ज्ञापकं गेऽपि जो वचिरादेशो भवतीति । अवोचत् । अवोचत । "श्व्यस्पद्वचोऽथुक् पुमुमोऽडि" [२२।१२८ ] इत्युमागमः । अस् । उदास्थत | उदास्थेताम् । उदास्थन्त । “अगेरत्यूस्यह्योर्वचनम्" [वा०] इति दः । मविषये पुषादित्वादेवाङ् सिद्धः । ख्यातिरिति ख्या प्रकथन हत्यस्य चक्षादेशस्य च कृतयकारस्याविशेषेण ग्रहणम् । श्राख्यत् । श्राख्यताम् । श्राख्यन् । हालिप्सिचः ॥२१॥४६॥ ह्या लिप सिच् इत्येतेभ्यश्चाए भवति लुडि परतः । श्राह्मत् । अलिपत् । असिचत् । पृथगारम्भ उत्तरार्थः । देवा ॥२॥४७॥ हा लिप सिचू इत्येतेभ्यो लुष्टि दे वा अङ् भवति । आहत । श्राहास्त । अलिपत । अलिप्त । असिचत । असिक्त । "सिलिङ्दे' [ १२।५ ] इति कित्त्वादेप्प्रतिषेधः । पूर्वेण नित्ये प्राप्ते विकल्पोऽयम् । द्युत्पुषादिलित्सर्तिशास्त्यतैम ॥ राश४८ ॥ द्युतादिभ्यः पुषादिभ्यः लुकारेभ्यः सर्ति शास्ति अति शा इत्येतेभ्यश्च लुङि मे परतः अझ भवति । वेति नानुवर्तते । यतादयः कृषपर्यन्ताः। व्यद्यतत् । व्यलुटत् । अश्वितत् । " यो लुङि७ ] इति वा मम् | पुषादयः आ गणपरिसमाप्तः। अपुषत् । अशुषत् । क्सः प्राप्तः लुकारेद्भयः । श्रापत् । अगमत् । अशकत् । असरत् । अशिषत् । भारत् । म इति किम् । व्यद्योतिष्ट । व्यत्यपुक्षत । अर्तेरपि दविषये -मा समृघातां मा समृषत । वेरितः ॥२१॥४६॥ म इति वर्त्तते । इरशब्देतो धोवाऽङ भवति लुङि मे परतः । अरुधत् । अरौत्सीत् । अभिदत् । अभैत्सीत् । म इत्येव । अरुद्ध । अभित्त । जश्विस्तम्भुम्रचम्लुचचग्लुचः ॥२॥१॥५०॥ वेति वर्तते । जश्वि स्तम्भु मृच् म्लुच ग्रुच् ग्लुच् इत्येतेभ्यः कर्तरि लुङि वाङ् भवति । जृष् । अजरत् । आजारीत् । अङि “दृशुरेप्" [ ५२।१२६] अश्वत् । अश्वयीत् । कपि विभाषितः । अशिश्चियत् । स्तम्भुरिहैवोपदिष्टः । अस्त भत् । अस्तम्भीत् । न्य चत् । न्यम्रोचीत् । न्यम्लुचत् । न्यम्लोचीत् । अग्रुचत् । अग्रोचीत् । अग्लुचत् । अग्लोचीत् । ग्लुञ्चेर्नोडो ग्रहणमनर्थकम् । श्रङ्पक्षे विशेषाभावात् नोङ्ग्रहणसामर्थ्यान्नखं न भवति इत्यपि न युक्तं न्यग्लुअदिति लङा सिद्धयति । भिस्ते पदः ॥२११३५१॥ वेति निवृत्तमुत्तरत्र वाग्रहणात् । कर्त्तरीति वर्तते । पदेा ङि ते परतः जिर्भवति । उदपादि भैक्षम् | समपादि शस्यम् । त इति किम् ? उदपत्साताम् । उदपत्सत । दीपजनबुधपूरितायिप्यायो वा ॥२१॥५२॥ दीपादिभ्यः लुङि ते परतः वा जिर्भवति । अदीपि । श्रदीपिष्ट । अजनि । अजनिष्ट । औ "जनिवध्योः" [५/२।४० ] इत्यैप्प्रतिषेधः । साहचर्याद् बुधेरनुदात्तेतो ग्रहणम । अबोधि । अबुद्ध। अपूरि । अपूरिष्ट | अतायि । अताविष्ट । अप्यायि। अप्यायिष्ट । अयं कर्तरि विकल्पः । अन्यत्र "जि.' [ २।१।६२ ] इत्यनेन नि यो ञिः । कमण्यात्मनि ॥२॥१॥५३॥ श्रात्मशब्देन कर्ताऽभिप्रेतः । यदा सौकर्यात् कर्म कर्तृत्वेन विवक्ष्यते तदा कर्मणि श्रात्मनि विहिते तशब्दे परतः वा जिर्भवति । अकारि कटः स्वयमेव । अकृत कटः स्वयमेव । ":" [ १११८६] इति सेः कित्त्वम् । अलावि केदारः स्वयमेव । अलविष्ट केदारः स्वयमेव । "जिङौं' [२।१।६२] इति नित्ये जो प्राप्ते विकल्पोऽयम् । श्रात्मकर्मणीति किम् ? अकारि कटो देवदत्तेन।। दुहश्च ॥२॥१॥५४॥ चशब्दो विकल्पानुकर्षणार्थः । दुहेर्वा जिर्भवति तशब्दे परतः कर्मण्यात्मनि । नियमोऽयं हलन्तेषु दुहेरेव विकल्पः, तेन पूर्वसूत्रेऽजन्तेषु विकल्पो द्रष्टव्यः । अदोहि गौः स्वयमेव । अदुग्ध गाः स्वयमेव । "वोप दुहदिहलिहगुहो दे दन्त्ये" [२२१७० ] इति क्सस्योप् । श्रात्मकर्मणीत्येव । अदोहि गोर्गोपालकेन। For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy