________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम्
[अ० २ पा० । सू० ४५-५४
वक्त्यसु
॥२॥१४५ वक्ति असु ख्याति इत्येतेभ्यो लुङि परतः अभवति । इदमेव वक्तिवचनं ज्ञापकं गेऽपि जो वचिरादेशो भवतीति । अवोचत् । अवोचत । "श्व्यस्पद्वचोऽथुक् पुमुमोऽडि" [२२।१२८ ] इत्युमागमः । अस् । उदास्थत | उदास्थेताम् । उदास्थन्त । “अगेरत्यूस्यह्योर्वचनम्" [वा०] इति दः । मविषये पुषादित्वादेवाङ् सिद्धः । ख्यातिरिति ख्या प्रकथन हत्यस्य चक्षादेशस्य च कृतयकारस्याविशेषेण ग्रहणम् । श्राख्यत् । श्राख्यताम् । श्राख्यन् ।
हालिप्सिचः ॥२१॥४६॥ ह्या लिप सिच् इत्येतेभ्यश्चाए भवति लुडि परतः । श्राह्मत् । अलिपत् । असिचत् । पृथगारम्भ उत्तरार्थः ।
देवा ॥२॥४७॥ हा लिप सिचू इत्येतेभ्यो लुष्टि दे वा अङ् भवति । आहत । श्राहास्त । अलिपत । अलिप्त । असिचत । असिक्त । "सिलिङ्दे' [ १२।५ ] इति कित्त्वादेप्प्रतिषेधः । पूर्वेण नित्ये प्राप्ते विकल्पोऽयम् ।
द्युत्पुषादिलित्सर्तिशास्त्यतैम ॥ राश४८ ॥ द्युतादिभ्यः पुषादिभ्यः लुकारेभ्यः सर्ति शास्ति अति शा इत्येतेभ्यश्च लुङि मे परतः अझ भवति । वेति नानुवर्तते । यतादयः कृषपर्यन्ताः। व्यद्यतत् । व्यलुटत् । अश्वितत् । " यो लुङि७ ] इति वा मम् | पुषादयः आ गणपरिसमाप्तः। अपुषत् । अशुषत् । क्सः प्राप्तः लुकारेद्भयः । श्रापत् । अगमत् । अशकत् । असरत् । अशिषत् । भारत् । म इति किम् । व्यद्योतिष्ट । व्यत्यपुक्षत । अर्तेरपि दविषये -मा समृघातां मा समृषत ।
वेरितः ॥२१॥४६॥ म इति वर्त्तते । इरशब्देतो धोवाऽङ भवति लुङि मे परतः । अरुधत् । अरौत्सीत् । अभिदत् । अभैत्सीत् । म इत्येव । अरुद्ध । अभित्त ।
जश्विस्तम्भुम्रचम्लुचचग्लुचः ॥२॥१॥५०॥ वेति वर्तते । जश्वि स्तम्भु मृच् म्लुच ग्रुच् ग्लुच् इत्येतेभ्यः कर्तरि लुङि वाङ् भवति । जृष् । अजरत् । आजारीत् । अङि “दृशुरेप्" [ ५२।१२६] अश्वत् । अश्वयीत् । कपि विभाषितः । अशिश्चियत् । स्तम्भुरिहैवोपदिष्टः । अस्त भत् । अस्तम्भीत् । न्य चत् । न्यम्रोचीत् । न्यम्लुचत् । न्यम्लोचीत् । अग्रुचत् । अग्रोचीत् । अग्लुचत् । अग्लोचीत् । ग्लुञ्चेर्नोडो ग्रहणमनर्थकम् । श्रङ्पक्षे विशेषाभावात् नोङ्ग्रहणसामर्थ्यान्नखं न भवति इत्यपि न युक्तं न्यग्लुअदिति लङा सिद्धयति ।
भिस्ते पदः ॥२११३५१॥ वेति निवृत्तमुत्तरत्र वाग्रहणात् । कर्त्तरीति वर्तते । पदेा ङि ते परतः जिर्भवति । उदपादि भैक्षम् | समपादि शस्यम् । त इति किम् ? उदपत्साताम् । उदपत्सत ।
दीपजनबुधपूरितायिप्यायो वा ॥२१॥५२॥ दीपादिभ्यः लुङि ते परतः वा जिर्भवति । अदीपि । श्रदीपिष्ट । अजनि । अजनिष्ट । औ "जनिवध्योः" [५/२।४० ] इत्यैप्प्रतिषेधः । साहचर्याद् बुधेरनुदात्तेतो ग्रहणम । अबोधि । अबुद्ध। अपूरि । अपूरिष्ट | अतायि । अताविष्ट । अप्यायि। अप्यायिष्ट । अयं कर्तरि विकल्पः । अन्यत्र "जि.' [ २।१।६२ ] इत्यनेन नि यो ञिः ।
कमण्यात्मनि ॥२॥१॥५३॥ श्रात्मशब्देन कर्ताऽभिप्रेतः । यदा सौकर्यात् कर्म कर्तृत्वेन विवक्ष्यते तदा कर्मणि श्रात्मनि विहिते तशब्दे परतः वा जिर्भवति । अकारि कटः स्वयमेव । अकृत कटः स्वयमेव । ":" [ १११८६] इति सेः कित्त्वम् । अलावि केदारः स्वयमेव । अलविष्ट केदारः स्वयमेव । "जिङौं' [२।१।६२] इति नित्ये जो प्राप्ते विकल्पोऽयम् । श्रात्मकर्मणीति किम् ? अकारि कटो देवदत्तेन।।
दुहश्च ॥२॥१॥५४॥ चशब्दो विकल्पानुकर्षणार्थः । दुहेर्वा जिर्भवति तशब्दे परतः कर्मण्यात्मनि । नियमोऽयं हलन्तेषु दुहेरेव विकल्पः, तेन पूर्वसूत्रेऽजन्तेषु विकल्पो द्रष्टव्यः । अदोहि गौः स्वयमेव । अदुग्ध गाः स्वयमेव । "वोप दुहदिहलिहगुहो दे दन्त्ये" [२२१७० ] इति क्सस्योप् । श्रात्मकर्मणीत्येव । अदोहि गोर्गोपालकेन।
For Private And Personal Use Only