________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम्
[अ० २ पा० । सू० २८-३६
कमृत्योर्णिङोयङ् ॥२१॥२८॥ सूत्रत्वात्कायाः स्थाने ता कृता । कम् ऋति इत्येताभ्यां णिङ् ईयङ् इत्येतो त्यौ भवतः। कामयते । णकारः ऐबर्थः। "न कम्यभिचमाम्" इत्यत्र कमेर्मित्संज्ञाप्रतिषेधः किमर्थः ? "अिणमोर्दीमिताम्'' [४।८६] इति वा प्रादेशो मा भूदित्येवमर्थः । अकामि । कामं कामम् । “वाऽगे" [२१२७] इति णिडोऽनुत्पत्तौ णिज्निमित्तस्यैपः प्रादेशनिवृत्यर्थश्च । डकारो दविध्यर्थः । क्तिीत्येप्रतिषेधार्थ न भवति इकस्तत्रानुवृत्तेः। ऋतिरिहैव घृणार्थमुपदिश्यते ऋतीयते । वाऽग इति च वर्तते । तेन कमिता। कामयिता । अर्तिता। ऋतीयिता।
तदन्ता घवः ॥ २६|| येऽनुकान्ताः सनादयस्ते अन्ता येषां ते धुसम्शका भवन्ति । तथा चैवीदाहृतम् । पदसंज्ञायामन्तग्रहणं नियमार्थमुक्तम् । अन्यत्र "संज्ञाविधौ त्यग्रहणे तदन्तविधिर्नास्ति' [१०] इति एष प्रतिषेधो मा भूदित्यन्तग्रहणम् ।
स्यतासी ललुटोः ॥२॥१॥३०॥ न इति लुङ्लटोः सामान्येन ग्रहणम् । धोः स्यतासी इत्येतौ मध्ये त्यौ भवतः लुलुटोः परतः । शब्दापेक्षमत्र यथासंख्यम् । धोरधिकारात् पूर्वभवतानिवृत्तिः । अगा संज्ञा च । भावकर्मकर्तृषु लो विहितः । तत्र यशपावुत्सर्गौ स्यादयस्तदपवादाः । करिष्यति । अकरिष्यत् । कर्ता । तासेरिदित्करणं किम् ? "हलुङ : क्छित्यनिदितः'' [४।४।२३] इति नखप्रतिषेधार्थम् । हन्ता । मन्ता।
कास्यनेकाच्याल्लिट्याम् ॥२॥१॥३१॥ कासेरनेकाचस्त्यान्ताच लिटि परतः श्राम्भवति । कासाञ्चक्रे । अनेकाभ्यः-चकासाञ्चकार । पुलुम्प इति सौत्रो धुः । चुलुम्पाञ्चकार । दरिद्राञ्चकार । त्यान्तात्-लोलूयाञ्चके । कारयाञ्चके । गवाञ्चकार । “आचारार्थं सर्वमृद्भ्यः" इति विप् । अनेकान्ग्रहणमत्यान्तार्थम् । श्रामिति नायमागमः। कासेर्विधानात् ।
सरोरिजादेः ॥२॥१॥३२॥ सह रुणा वर्तते इति सरुः । सरोरिजादेोः लिट्याम्भवति । ईहाञ्चक्ने । इन्दाञ्चकार । उपदेशावस्थायां नुम् । ऊ हाञ्चक्रे । उञ्छाञ्चकार । उदम्भाञ्चकार । सरोरिति किम् ? इयेष । अनोखा एपि कते सरुरिति चेत: "सन्निपातलक्षणो विधिरनिमिरी तद्विधातस्य [10] इति न भवति । इजादेरिति किम् ? ततक्ष । “ऋच्छत्यताम्" [५।२।२३] इति लिट्ये वचनं ज्ञापकं ऋच्छेराग्न भवति । श्रानर्छ ।
आनछुतुः । श्रानच्छुः । कथं प्रोणुनाव १ "वाच्य अर्णोर्णवद्भावो यङ्प्रसिद्धि प्रयोजनम् । आमश्च प्रति. षेधार्थमेकाचश्चेनिवृत्तये" । प्रोणुनूषति । “सनिग्रहश्चा' [शा११८] इतीट्पतिषेधः।
__ दयायासः ॥२॥१॥३३॥ दय अय आस इत्येतेभ्यश्च लिटि आम्भवति । दवाञ्चके । पलायाञ्चक्रे । "गेरयतौ' [२३।३०] इति लखम् । अासाञ्चक्रे ।
वोषजागृविदात् ॥२॥१॥३४॥ उघ जाय विद् इत्येतेभ्यश्च लिटि परतो वा आम् भवति । श्रोषाञ्चकार । उवोष । जागराञ्चकार । जजागार । विदाञ्चकार । विवेद । विदेराम्यकारान्तत्वनिपातनात् एम्न भवति । जागृसाहचर्यादादादिकस्य ग्रहणम् ।
__ भोहो¥हुवामुज्वत् ॥२॥१॥३५॥ भी ह्री भृ हु इत्येतेभ्यो लिटि पाम् भवति उचीव कार्य भवत्येषाम् ,उचि कार्य द्वित्वमित्येव । तदतिदिश्यते । लिडपेक्षं द्वित्वमामा व्यवधानान प्राप्नोति । बिभयाञ्चकार । बिभाय । जिह्रयाञ्चकार । जिह्राय । बिभराञ्चकार। बभार । “भृतां त्रयाणाम्" [५।२।१७५] इति चस्ये. त्वम् । जुहवाञ्चकार । जुहाव ।
लिड्वत् कृमि ॥२१॥३६॥ कृत्रिति प्रत्याहारेण कृभ्वस्तीनां त्रयाणां ग्रहणम् । मण्डूकप्लुत्या वेति विभाषाऽपेक्षणीया । तेन सम्पदो बहिर्भावः । य उक्त अाम् स लिवकृषि प्रयुक्त साधुर्भवति । लिड्वत् कृत्रीतीनिर्देशात् अामन्तस्याव्यवहितस्य पूर्व प्रयोगः । ईहाञ्चक्रे । “अाम्वत् तत्कृषः" [२॥१६] इति दः। इहाम्बभूव । ईहामास । 'अस्तिो <वची'' [१/१२४] इत्यत्रोक्तमस्तेरनुप्रयोगस्य भूभावो न भवति । कृषि प्रत्याहारग्रहणसामर्थ्याद्वा ।
For Private And Personal Use Only