________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
० २ ० १ सू० २२-२७ ]
महावृत्तिसहितम्
पाशरूपवीणातूल श्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादेर्णिच ||२||२२|| पाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यश्च णिज् भवति । चुरादौ "मृदो ध्वर्थ" इति सिद्धेऽपि अर्थ विशेषपरिग्रहार्थं पाशादेः पृथग्ग्रहणम् । “पाशाद्विमोचने" ( वा०] पाशं विमोचयति विपाशयति । "रूपाद्दर्शने [बा०] रूपं दर्शयति रूपयति । वीणया उपगायति उपवीणयति । तूलैरनुकुष्णाति अनुतृलयति । श्लोकै: रुपस्तौति उपश्लोकयति । सेनया अभियाति श्रभिषेणयति । लोमान्यनुमार्ष्टि अनुलोमयति । त्वचं गृह्णाति त्वचयति । त्वच इति अकारान्तनिपातनात् परेऽचः पूर्वविधौ " [1111२७ ] इत्यखस्य स्थानिवद्भावात् “उङोऽतः” [५।२।४] इत्यैन्न भवति । वर्मणा सन्नह्यति संवर्मयति । वर्णान् गृह्णाति वर्णयति । चूर्णैरवकिरति श्रवध्वंसयति वा श्रवचूर्णयति । चुरादिभ्यः चोरयति । मन्त्रयते ।
६१
श्रचार्थवेदसत्यानाम् |||२१|२३|| अर्थ वेद सत्य इत्येतेषां श्राकारश्चान्तादेशो भवति णिच्च । अर्थमा अर्थापयति । वेदापयति । सत्यापयति ।
तुम ||२||२४|| हेतुस्तद्योजकः । हेतुमति ध्वर्थेऽभिधेये णिज् भवति ग्रन्येषां दर्शनं प्रयोजकव्यापारः प्रेषणाध्येषणरूपों हेतुमान् तस्मिन्नभिधेये णिज् भवति । कटं कारयति । श्रोदनं पाचयति । वाग्विसों हेतुव्यापारः । क्वचित् समर्थाचरणम् । यथा भिक्षा वासयति । कारीषोऽग्निरध्यापयति । "माख्यानात् कृतस्तदाचष्ट इति कृदुपप्रत्यापत्तिः प्रकृतिवच्च कारकमिति" [वा०] श्राख्यायते यत्तदाख्यातं तस्मात् कृदन्तात् श्राचष्ट इत्यस्मिन्नर्थे णिज् वक्तव्यः कृदुष्प्रकृतिप्रत्यः पत्तिः, प्रकृतिवच्च कारकं भवतीति वक्त. व्यम् | कंसवधमाचष्टे कंसं घातयति । वलिबन्धमाचष्टे बलिं बन्धयति । राजागममाचष्टे राजानमागमयति । “श्याख्यानशहदात्प्रतिषेधो वक्तव्य:" [वा०] श्राख्यानमाचष्टे इति वाक्यमेव भवति । मृगरमणमाचष्टे मृगान् रमयति । यदा ग्रामे मृगरमणमाचष्टे तदा नेष्यते । "श्रानिवृत्तिश्च कालात्यन्तसंयोगे मर्यादायाम्" [वा०] कृदन्तात् णिच् तदाचष्टे इति कृदुप्प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकमिति वर्तते । श्रारात्रिविवासमाचष्टे रात्रिं विवासयति । "चित्रीकरणे च प्राप्त्यर्थे णिच् वक्तव्यः " [वा०] (उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्योद्र मनं सम्भावयति सूर्यमुद्रमयति । "नक्षत्रयोगे ज्ञार्थे” [वा०] पुष्येण योग जानाति पुष्येण योजयति । चन्द्रमसा मघाभियोगं जानाति मानिर्योजयति । नेदं बहु वक्तव्यमत्रापि कथञ्चिद्धेतुव्यापारोऽस्ति बहुलग्रहणाद्वा सिद्धम् ।
कण्डवादेर्यक् ॥२|१|२५|| कण्डूञ् इत्येवमादिभ्यो यक् भवति । यकः कित्करणं प्रतिषेधार्थ ज्ञापकमिह कण्डवादयो धवो गृह्यन्ते न मृद्रूपाणि (मृद्रूपाः) । कण्डूञहणी अदिषु दीत्वोच्चारणं ज्ञापकं विकल्पेन धुरूपतैषामन्यथा "दोरकृद् गे" [११२११३४ ] इति दीत्वेनाप्येतत्सिद्धयेत । तेन मृत्पदे कण्डुः मन्तुः वल्गुः इत्यादिप्रयोगा ज्ञातव्याः कण्डूयति । कण्डूयते । कण्डूतिः । मन्तूयति । कण्डूञ् मन्तु वल्गु असङ हरणीङ महीङ् वेटलीङ् । ङकारो दविध्यर्थः । इयस् इरस् तिरस् मगधस् पम्पस् कुषुभ उपस् तन्तस् सुख दुःख भिषज् भिष्णुज् श्ररर चुरण तुरण तरण सरण (चरण) सपर इषुध इषुभ गद्गद एला वेला केला खेला लेट् लोट् उरस् । अकारान्तानाम् श्रतः खम् ।
गुपूधूपविच्छिणिपनेयः ||२| १|२६|| गुपू धूप विच्छि परिण पनि इत्येतेभ्यो धुभ्य ग्रायो भवति । गोपायति । धूपायति । विछेरन्तरङ्गत्वात्तुकि कृते श्रायः । विच्छायति । अनुदात्तेत्त्वं केवले चरितार्थमिति दो न भवति । गुपादिभिर्भीवादिकैः साहचर्यात्पणेभवादिकस्य ग्रहणं न तौदादिकस्य । शतस्य पणते । "व्यवह्नपणोः सामथ्र्यै'' [१।४।६४ ] इति कर्मणि ता । पनिरिहैव पणिना समानार्थः उपदिश्यते । पनयति ।
For Private And Personal Use Only
वागे || २|१|२७|| गविषये गुपादिभ्यो वा श्रायेो भवति । गोपायिता । गोप्ता । गोपायांचकार । जुगोप । गोपाया । गुप्तिः । इत्येवमादि योज्यम् ।