________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम्
[अ० २ पा० १ सू० १६-२१
नमोवरिवश्चित्रङः क्यच ॥२॥१११६॥ कृतीति वर्तते । नमस् वरिवस् चित्रङ इत्येतेभ्यः क्यज भवति करोत्यर्थे । पूजापरिचर्याश्चर्यविशेषे । नमः करोति नमस्यति देवान् । अत्र नमःशब्दस्यानर्थकत्वात्तद्योगे नाब् भवति । वरिवः करोति वरिवस्यति गुरून् । चित्रङ् करोति चित्रीयते । ङित्वाद्दः । पूजादिभ्योऽन्यत्र नमः करोतीति भवति ।
पुच्छभाण्डचीवराणिङ ॥२।१।१७॥ पुच्छ भाण्ड चीवर इत्येतेभ्य इबन्तेभ्यो णिङ् भवति करोत्यर्थविशेषे। कोऽसौ विशेषः । "पुच्छादुदसने पयंसने वा" [वा०] उत्पुच्छयते । परिपुच्छयते । “भाण्डासञ्जयने परिचयने वा" [वा०] संभाण्डयते परिभाण्डयते । "चीवरावर्जने परिधाने वा" [वा.] संचीवरयते भिक्षुः । णकारः "णाविष्टवस्मृदः" [१४१४४] इत्यत्र सामान्यग्रहणाविघातार्थः । अर्थविशेषादन्यत्र शिजेव भवति ।
मुण्डमिश्रलक्षणलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच् ॥२॥१॥१८॥ मुण्ड इत्येवमादिभ्य इबन्तेभ्यो णिज् भवति करोत्यर्थे । चुरादिषु "मृदो ध्वर्थ" इति णिचि सिद्धे अर्थविशेषपरिग्रहार्थमिदम् । च्च्यर्थे वायमिति केचित् । अमुण्डं मुण्डं करोति मुण्डयति । मिश्रयति । श्लक्ष्णयति । लवणयति । "व्रताशोजने तन्निवृत्तौ च [वा०] पयो व्रतयति । पयो भुते इत्यर्थः । सावधं व्रतयति । सावधं न भुङ्क्ते इत्यर्थः। 'वस्त्रात् समाच्छादने" [वा०] वस्त्रेण संच्छादयति संवस्त्रयति । हलिं गृह्णाति हलयति । कलिं गृहाति कलयति । "हलिकल्योरकारान्तता णिचा योगे निपात्यते" [वा.1 "धौ कच्यनक्खे सन्वत्" [श२११८१] इति सन्वद्भावप्रतिषेधार्थम् । कलिं गृहीतवानचकलत्। अजहलत् । अन्यथा परत्वादैपि कृते टिखं स्यात ततः सन्वद्भावः प्रसज्येत । यथा अलीलघत् अपीपटत् इति । कृतं गृह्णाति कृतयति । तस्तानि केशजटाः विहन्ति वितूस्तयति ।
धोर्य क्रियासमभिहारे ॥२।१।१६॥ पौनःपुन्यं भृशार्थी वा क्रियासमभिहारः । धोर्यङ् भवति क्रियासमभिहारे । पुनः पुनः पचति भृशं वा पापच्यते। बोभुज्यते । क्रियान्तरैरव्यवहितायाः प्रधानभूतविक्लेदनक्रियायाः पुनः पुनरारम्भः पोनःपुन्यम् । गुणभूताधिश्रयणादिक्रियाणां क्रियान्तरैरव्यवहितानां साकल्येन करणं भृशार्थता। सूचिसूत्रिमून्यट्यर्त्यशोंतीनां ग्रहणं नियमार्थ कर्त्तव्यम् । सोसूच्यते । सोसूच्यते । मोमत्र्यते । अनेकाऽभ्य एव नान्यस्मात् । अत्यर्थं जागीति । अटाट्यते । अरार्यते । “यङि" [१२।१३६] इत्येप् । अत्यर्थमश्नुते अशाश्यते । प्रोन्यते । अट्यादिग्रहणं किमर्थम् १ अन्यस्मादजादेर्मा भूत् । भृशमीक्षते । पुनः पुनरीहते। क्रियासमभिहारे सर्वस्य द्वित्वे वेति विभाषानुवर्तते । तेन यङन्तस्य द्वित्वं न भवति । तत एव क्रियासमभिहारे यो लोट् तदन्तस्य भवति । लोलूयस्व लोलूयस्व इत्येवायं लोलूयते । धोरिति किम् १ सगेरुत्पत्तिर्मा भूत् । अगसंज्ञार्थं च धुग्रहणम्। पेपीयते । "शुभिरुचिभ्यां प्रतिषेधो वक्तव्यः" [वा०] । अत्यर्थं शोभते । अत्यर्थ रोचते ।
नित्यं गतिविशेषे ।।२।१॥२०॥ नित्यं यङः भवति गतिविशेषे गम्यमाने । चक्रम्यते । दन्द्रम्यते । श्रावनीवच्यते । गतिविशेषो हि यडन्तवाच्यः । तेनास्वपदेनार्थमात्रकथनमिदं कुटिलं क्रामतीति । नित्यग्रहणं तु विषयनियमार्थम् । एतयोर्योगयोर्गतिविशेष एवं गहें 'व यङ् यथा स्यात् क्रियासमभिहारे मा भूत् । भृशं कामति । भृशं लुम्पति ।
लुपसदचरजपजभदहगृदशो गहें ॥२॥१॥२१॥ लुपादिभ्यो गहें गम्यमाने नित्यं यङ् भवति । प्रत्यासत्तेव॑र्थस्य गर्हो गृह्यते न साधनस्य । अनर्थकं लुम्पति लोलुप्यते । सासद्यते । चञ्चूर्यते । जञ्जप्यते । जजभ्यते। दन्दह्यते । निजेगिल्यते । दन्दश्यते । दशेः कृतनखस्य निर्देशाद्ययपि खं भवतीति केचित् । दंदशीति । तदयुक्तं सोत्रत्वान्निर्देशस्य । गहँ इति किम् ? सुखं सीदति स्वगृहे।
For Private And Personal Use Only