________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० २ पा० १ सू० १०-१५ ]
महावृत्तिसहितम्
ζε
श्रोजस्वी वाचरति श्रजायते । वृत्तिविषये मत्वर्थीयः क्योक्तः । अप्सरायते । मथितं पयायते पयस्यते । श्रस खपक्षे “नः क्ये” [१।२/१०४ ] इति नियमात् पदत्वाभावे रित्वादिविधिर्न भवति । कर्त्तुरिति सखापेक्षया तया विपरिणम्यते तेनान्त्यस्य खम् । इह न भवति । सारसायते । " श्राचारे सर्वमृद्भ्यः किन्वा भवतीत्येके" [aro] अश्व इवाचरति श्रश्वति । श्रश्वायते ।
भृशादेश्च्वौ हलो भुवि ॥ २|१|१०॥ कर्तुरिति वर्तते । भृश इत्येवमादिभ्यः व्यर्थे वर्तमा नेभ्यो भवत्यर्थे वा क्यङः भवति यद्यन्ते हल् तस्य च नित्यं खम् । च्चिर्विकल्पेन विधीयते । यत्र नोत्पद्यते तत्रायं क्यङ् । श्रभृशो भृशो भवति भृशायते । भृश शीघ्र चपल पण्डित उत्सुक । नात्र गेर्बहिर्भावः । उन्मनस् सुमनस् दुर्मनस् अभिमनस् । संग्राम युद्ध इति ज्ञापकादुदादीनामडागमादिषु बहिर्भावः । हत् वेहत् शश्वत् तृपत् वर्चस् जस् त्राएडर शुचि मन्द नील मद्र फेन हरित ।
लोहितात् क्ष् ॥२|१|११|| डाजन्ताल्लोहितशब्दाच्च व्यर्थाद्भवत्यर्थे वा क्यष् भवति । व्यर्थग्रहणं लोहितस्य विशेषणं न डाजन्तस्याव्यभिचारात् । पटपटायति । पटपटायते । यदा न क्यष् तदा पटपटाभवतीति प्रयोगः । लोहितो लोहितो भवति लोहितायति । लोहितायते । एवं हि "नः क्ये" [१।२1१०४ ] इत्यत्र सामान्यग्रहणार्थ: ककारः शोभेत यदि चर्मादिभ्योऽपि स्यात् । चर्मायति । चर्मायते । निद्रायति । निद्रायते । करुणायति । करुणायते । कृपायति । कृपायते । वृत्तिविषये मत्वर्थीयः क्यषाऽभिहितः ।
कष्टाय || २|१|१२|| क्यङ् अनुवर्तते । कष्टायेति तादर्थ्य प् । कष्टाय ये शब्दा वर्तन्ते तेभ्यः क्य भवति । कष्टार्थादिति वक्तव्यम् । चन्तनिर्देशः समर्थविभक्त्युपादानार्थः । श्रभिधानवशात् क्रमणेऽनार्जवे क्यङ् द्रष्टव्यः । यथा “नमोवरिवश्चित्रङः क्यच्" [२।१।१६ ] इत्यत्र पूजाद्यर्थनियमः । कष्टाय कर्मणे क्रामति कष्टायते । नार्जवं पापं करोतीत्यर्थः । सत्राय कर्मणे क्रामति सत्रायते । कक्षायते । गहनायते । अनार्जव इति किम् १ श्रजः कष्टं क्रामति । नात्र पापं गम्यते ।
वाष्पमादुमे ॥ २|१|१३|| इप इति वर्तते । वाष्प ऊष्मन् फेन इत्येतेभ्यः उद्धम इत्यर्थे क्य भवति । वाष्पमुद्रमति वाष्पायते । ऊष्माणमुद्व मति ऊष्मायते । फेनायते ।
रोमन्थतपःशब्दवैरकलहायक एवमेघात् कृषि ||२| १|१४|| रोमन्य तपस् शब्द वैर कलह ara मेघ इत्येतेभ्यः करोत्यर्थे क्यङ् भवति । रोमन्थं करोति रोमन्थायते गौः । अत्र करोतिः क्रियासामान्ये वर्तमानोऽपि श्रभ्यवहृतचर्वणक्रियायां गृह्यते । तेनेह न भवति । कीटको रोमन्थं वर्तयति । "तपसो
ति वक्ष्यम्" [ वा० ] तपः करोति तपस्यति । तपश्चरतीत्यर्थः । शब्दं करोति शब्दायते । वैरायते । कलहायते । श्रभ्रायते । कण्वायते । पापं करोतीत्यर्थः । मेघायते । तत्करोतीत्यस्मिन्नर्थे णिजपि भवति । शब्दयति । वैरयति । "सुदिनदुर्दिन नीहारेभ्यश्चेति वक्तव्यम्" [वा०] सुदिनायते । दुर्दिनायते । नीहारायते । “टाट्टाशीकाकोटपोटासोटाष्टाभ्योऽपीति केचित् ।" [ वा० ] टायते । श्रट्टायते । शीकायते । कोटायते । पोटायते । सोटायते । प्रुष्टायते ।
सुखादेः स्वभोगे || २|१|१५|| भोगोऽनुभवो वेदना वा । सुख इत्येवमादिभ्य इवन्तेभ्यः स्वभोगे क्यङ ू भवति । सुखमात्मनः करोति सुखायते । सुखं भुक्त अनुभवति वेदयतीत्यनर्थान्तरम् । एवं दुःखायते । सुख दुःख तृप्त कृच्छ्र अस अलीक करुण कृपण सोढ प्रतीप । स्वभोग इति किम् ? सुखं करोति प्रसाधको देवदत्तस्य ।
१. वस्य नित्यं खम् ब०, स० मु० । २. कुण्ठ अ०, ब०, स० । ३. कण्ठ अ०, ब०, स० । ४. कण्ठायते अ०, ब०, स० ।
१२
For Private And Personal Use Only