________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पद
जैनेन्द्र-व्याकरणम्
जुगुप्सा । तितिक्षा | चिकित्सा । सनोऽकारोपदेशः प्रतीषिषतीत्यादौ श्रवणार्थः ।
Acharya Shri Kailassagarsuri Gyanmandir
[अ० २ पा० १ सू० ४-६
"एक देशकृतं किङ्ग समुदायविशेषणम् । अनुदात्तेत्वमाद्याभ्यां तेनायं दो विधीयते ।”
मान्बधदानशानभ्यो दीश्वस्य || २|१|४|| मान् वध दान शान् इत्येतेभ्यः सन् भवति दीश्च चस्येकारस्य । मीमांसते । बीभत्सते । दीदांसते । शीशांसति । शीशांसते । श्राद्यावनुदात्तेतौ । परौ स्वरितैतौ । "वविकारेष्वपवादा उत्सर्गान्न बाधन्ते " [१०] इति कृतेकारस्य चस्य दीत्वम् । अत्रापि "जिज्ञासावैरूप्यार्जवनिशानेषु यथाक्रमं सन्निष्यते” [वा०] । पूजाबधनावखण्डनतेजनेषु न भवति । मानयति । बाधयति । दानयति । निशानयति । दान उत्तरत्र वेति व्यवस्थितविभाषा । तदवलोकनादयं विभागः ।
तुमच्छायां धोर्वो || २|१|५|| इच्छायां तुमि यो धुस्तस्मात् सन् वा भवति तुमश्चोन्भवति यदा सन् । कर्तुमिच्छति चिकीर्षति । बुभुक्षते । श्रयं 'हीच्छायां तुम् विहितः । हेतुफलयोरित्यधिकृत्य “इच्छार्थे लिलोटौ ” [२/३/१३३] "तुमेककर्तृके” [२।३।१३४] इति वचनात् । इहापि सामान्यविशेषभावेन हेतुफलभावोऽस्ति । एषितुमिच्छति एषिविषति । तुमिति किम् ? इच्छायामित्युच्यमाने इच्छार्थानामिषिवाञ्छ्यादीनां ग्रहणं स्यात् । तुम्ग्रहणे सति इच्छायामित्येतत्तुमो विशेषणम् । इच्छायामुपलक्षिते तुमीति । तेन यत्र तुमो निमित्तं हेतुफलभावो नास्ति तत्र न भवति । इच्छति कटं करोति चैनम् । भिन्नकर्तृ कत्वे च न भवति । इच्छति देवदत्तः कटं कुर्याजिनदत्तः । यत्र तुम् नास्ति तत्र च न भवति । इच्छायामिति किम् ? कत्तु गच्छति । अत्र "तुम क्रियायां तदर्थायाम्" [२३८] इति तुम् । धोरिति किम् १ प्रकर्तुमैच्छत् प्राचिकीर्षत् । सगेरुत्पतिर्मा भूत् । श्रगसंज्ञार्थं च धुग्रहणम् । वाग्रहणाद्वाक्यस्यापि साधुत्वम् । इहोपचारात् सिद्धम् । पिपतिषतीव पिपतिषति कूलम् । मुमूर्षतीव मुमूर्षति श्वा । वेति व्यवस्थितविभाषा । तैनेच्छासन्नन्तात् सन्न भवति । चिकीर्षितुमिच्छति । अनिच्छासन्नन्ताद्भवति । जुजुगुप्सिषते ।
"Haversary मत्वर्थः शैषिकस्तथा । सरूपत्यविर्धिष्टः सन्नन्तान सनिष्यते ॥"
स्वेपः कयच् ||२||६|| स्वस्य यदिवन्तं तस्मादिच्छायां वा क्यज् भवति । श्रात्मनः पुत्रमिच्छति पुत्रीयति । पटीयति । ककारो "नः क्ये ' ' [ १|२|१०४ ] इत्यत्र सामान्यग्रहणार्थः । चकारः सामान्यग्रहणाविघातार्थः । तेन 'एकानुबन्धग्रहणे न द्वचनुबन्धकस्य'' [१०] इत्ययं विधातो नास्ति । स्वग्रहणं किम् ९ पुत्रमिच्छति ब्रह्मचारी मरणमिच्छति दुर्जनः । अत्र परस्येति गम्यते । इविति किम् ? पुत्र इच्छति । पुत्राय इच्छति । वाक्यात् कस्मान्न भवति । महान्तं पुत्रमिच्छति वाक्यस्यानिबन्तत्वात् । श्रवयवाद सामर्थ्यान्न भवति । कर्मोक्लमत्र क्यचा तेन कर्त्तरि भावे च प्रयोगः । पुत्रीयति । पुत्रीयते श्रनेन । वेत्यनुवृत्तेर्भमन्तेभ्यो न भवति । उच्चैरिच्छति । इदमिच्छति । किमिच्छति ।
|| २|१|७|| स्वस्य यदिवन्तं तस्माद्वा काम्यो भवतीच्छायाम् । पुत्रमिच्छत्यात्मनः पुत्रकाम्यति । पटकाम्यति । ककारस्य प्रयोगार्हत्वादित्संज्ञा नास्ति । योगविभागादुत्तरत्र क्यच एवानुवृत्तिर्न काम्यस्य ।
गौणादाचारे ॥२|१|८|| गौणममुख्यमाचरण क्रियायामुपमानमित्यर्थः । गौणादिबन्तादाचारेऽर्थे वा क्यज् भवति । पुत्रमिवाचरति पुत्रीयति छात्रम् । प्रावारयति कम्बलम् । व्यवस्थितविभाषाधिकारादीप्यपि भवति । प्रासादीयति कुट्ये |
कर्तुः काङ सखं विभाषा ॥ २१६ ॥ कत्तु गौणादाचारेऽर्थे वा क्यङ् भवति यद्यन्ते सकारस्तस्य च खं विभाषया । इह कर्तृग्रहणादिम्न सम्भवति सुबन्तात् क्यङ । श्येन इव श्राचरति काकः श्येनायते । कुमुदं पुष्करायते । व्यवस्थितविभाषेयम् । “ओजोऽप्सरसोर्नित्यं पयसस्तु विभाषया सखम् " [ वा० ] |
For Private And Personal Use Only
१. यदीच्छा - ० । २. पा० भाष्ये "शैषिकान्मतुवर्थीयाच्छेषिको मतुबर्थिकः । सरूपः प्रत्ययो नेष्टः सन्नन्ताच्च सनिष्यते ॥" इत्येवंरूपः ।