________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० २ पा० । सू० १-३ ]
महावृत्तिसहितम्
हादकारान्तात् परस्य सुप उम्न भवति । अमादेशस्तु भवति सुपः कां विभक्ती वर्जयित्वा । उपकुम्भं तिष्ठति । उपकुम्भ पश्य । उपकुम्भं देहि । श्रत इति किम् ? उपाग्नि । अकाया इति किम् । उपकुम्भादानय ।
ईभयोर्विभाषा ॥२४॥१५३।। ईप भा इत्येतयोर्विभाषा अमादेशो भवति । उपकुम्भं कृतम् । उपकुम्मेन कृतम् । उपकुम्भं कृतम् । उपकुम्भाभ्यां कृतम् । उपकुम्भं निधेहि । उपकुम्मे निधेहि । व्यवस्थितविभाषेयम् । तेन ऋद्धिनदीससंख्यावयवेभ्यो नित्यममादेशः । ऋद्धौ। सुमद्र कृतम् । सुमगधं कृतम् । नदीसे"नदीभिश्च" [१३१७] इति हसः । उन्मत्तगङ्गम् । द्वियमुनम् । संख्यावयवः-"संख्या वंश्येन" [१॥३॥१६] इति हसः । द्विकौशलम् । त्रिकौशलम् । एकविंशति भारद्वाजम् ।
लुटोऽन्यस्य डारोरसः ॥१।४।१५४॥ लुटयेऽन्यसंज्ञस्य त्रिकस्य डा रौ रस् इत्येते श्रादेशा भवन्ति । अर्थद्वारकमत्र यथासंख्यम् । शेता। श्रोतारौ । श्रोतारः । अध्येता । अध्येतारौ। अध्येतारः । डा इत्यन्तादेशः। डा या इति प्रश्लेषनिर्देशाद्वानकाल सर्वादेशः। डित्यभस्यापि डिस्करणसामर्थ्याट्टिखम् । रौरसोः परतः "रि" [५।२।१५३] इति सखम् । इत्यभयनन्दिमुनिविरचितायां जैनेन्द्रव्याकरणमहावृत्तौ प्रथमाध्यायस्य चतुर्थः पादः ॥४॥
अध्यायश्च समाप्तः।
द्वितीयोऽध्यायः त्यः ॥२१॥ अधिकारेण संज्ञयमा कपः । यदित ऊचमनुक्रमिष्यामः अपूर्व शब्दोपजननं प्रकृतिवाग्विशेषणविकारागमवर्ज यत् त्यसंज्ञ तद वेदितव्यम् । प्रकृतिपादिः। वाक् “कर्मण्यण् २१२१] इत्येवमादावीपा निर्दिष्टम् । विशेषणं "दृतिनाथयोः पशौ हुनः" [२।२।३०] इत्येवमादौ पश्वादि । विकारः सतो भावान्तरावाप्तिः। “दुही घश्च'' [२।२।१] इत्येवमादिषु धकारादिः । आगमः परतन्त्रः । "त्रपुजतुनोः पुक ३।३।१०६] इत्येवमादिः। युक्तिरुच्यते निमित्त कार्यन निमित्तिस्येति प्रकृतिवागुपाधीनामग्रहणम् । अथवा भाव्यमानविभक्तीनिर्दिष्टं सन्नादि प्रधानं भूतविभक्तीनिर्दिष्टं प्रकृत्याद्यप्रधानं प्रधाने च कार्यसम्प्रत्ययः । विकारागमयोस्तु “पर:"[१२] इत्यनेन निरासः; नहि तयोः परत्वसम्भवः । वक्ष्यति तव्यानीयौ । कर्तव्यः । करणीयः । प्रतियन्ति तेनार्थमिति प्रत्ययः। “पुखौघः प्रायेण" [२।३।१००] इति घः । एवं यद्यन्वर्था संज्ञा क्रियेत तदा प्रकृतेः सविभक्तिकस्य वा पदस्य त्यसंज्ञा स्यात् । त्यप्रदेशाः “यत्ये तदादि गुः" [ १०] इत्येवमादयः।
परः ॥२॥२२॥ परिभाषेयं नियमार्था । पर एव भवति धोम दो वा यस्त्यसंज्ञः । कर्तव्यः । करणीयः । औपगवः । धोरित्येवमादौ दिग्योगलक्षणकानिर्देशेऽपि पूर्वशब्दस्याध्याहारः स्यादिति परत्वं न लभ्यते इप्केत्यव्यवाये पूर्वपरयोः'' [१।११६०] इत्यत्र यदि कार्य परमुच्यते तत्तानिर्दिष्टस्येति । न च सनादयस्तानिर्दिष्टाः। अथासतः प्रादुर्भावः पर उच्यते एवं सति नियमार्थमिदं त्यपरैव प्रकृतिः प्रयोक्लव्या न केवला।
गुप्तिजकिदभ्यः सन् ॥२॥१॥३॥ त्य इति वर्तते । गुप् तिज् कित् इत्येतेभ्यः परः सन् भवति । जगप्सते । तितिक्षते । चिकित्सति । धुसंशब्दनेनाविधानात् अगसंज्ञा नास्ति । तेन नेडागमः । "निन्दाक्षमारोगापनयेष यथाक्रम सन्निष्यते"वा.]। गोपननिशाननिवासादिषु न भवति । गोपनं गोपायति । तेजनं तेजयति । निकेतनं निकेतयति । भुवादिषु पाठः किमर्थः ? "अस्त्यात्' [२।३।८५] इत्यकारो यथा स्यात् ।
१. न्दिविर-म०, ब०, स० । २.-स्तीति ने-अ० । ३. जुगुप्स तितिक्ष चिकित्सेत्यादीनां भ्वादिषु पृथक् पाठाकरणम् अस्यादित्यर्थमित्याशयः कश्चिदुग्नेयः ।
For Private And Personal Use Only