________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८२
जैनेन्द्र-व्याकरणम् [ ० १ पा० ४ सू० ११७- १२५
लुङ ्मयेत्योर्गाः ||१|४|११७ ॥ लुङि परतः एत्योर्गा इत्ययमादेशो भवति । श्रगात् । श्रगाताम् । अगुः । श्रध्यगात् । श्रध्यगाताम् । अध्यगुः । "स्थेपित्र " [ १|४|१४६ ] इत्यादिना "इण्वदिकः" इति च सेरुप्। “आत:” [२|४|६०] इति झेर्जुस् । पुनर्लुङ्ग्रहणमिय्यपि नित्यार्थम् । अगायि भवता । श्रध्यगायि भवता । गात्रमिति गायतेः ।
Acharya Shri Kailassagarsuri Gyanmandir
णौ गमज्ञाने ||१|४|११८ ॥ णौ परत एत्योर्गमित्ययमादेशो भवत्यज्ञानेऽर्थे । गमयति । गमयतः । गमयन्ति । अनेकार्थत्वादिकोऽप्यज्ञाने वृत्तिः । अधिगमयति । श्रधिगमयतः । अधिगमयन्ति । "उङोऽतः " [५/२।४] इत्यैप् । “जनीजुषक्न सुरज्जोऽमन्ताश्च" इति मित्वम् । " जिणमोर्दीर्मिताम् " [४|४|८६ ]":" [ ४/४/८७ ] इति प्रादेशः । श्रज्ञान इति किम् ? श्रर्थान् संप्रत्याययति ।
सनि ॥ १|४|११६ ॥ सनि च परत एत्योरज्ञानेऽर्थे गमित्ययमादेशो भवति । जिगमिषति । श्रधिजिगमिश्रति । “मेरिणमे ” [५/१/१०६ ] इतीट् । श्रज्ञान इत्येव । अर्थान् प्रतीविषति । श्रच इति वर्तमाने "सन्यङो:' [४|३|८] इति द्वितीयस्यैकाचो द्वित्वम् । योगविभाग उत्तरार्थः ।
इङः ||१|४|१२०॥ सनि परत इङो गमित्ययमादेशो भवति । अविजिगांसते । इङिकावधिगिं न व्यभिचरतः । “हनिङ्गम्यचा सनि" [४|४|१४ ] इति दीत्वम् ।
गाङ् लिटि ||१|४|१२१ ॥ इङो गाडित्ययमादेशो भवति लिटि परतः । श्रधिजगे । श्रधिजगाते । श्रधिजगिरे । “सेर्ह्यपिच्च” [२।४।७४] इति ज्ञापकादादेशस्य ङिले गाडी ङित्करणं किमर्थम् ? “गाङ्कुटादेरणिन्डित्” । [१।१।७५] इत्यत्र विशेषणार्थः । गायतेर्ग्रहणं मा भूत् । श्रासीद्राथकः इति ईत्वं प्रसज्येत ।
लुङ्लङोर्वा ||१|४|१२२ ॥ लुङ्लुङोः परत इङो वा गाङादेशो भवति । लुङि - श्रयगीष्ट । श्रध्यगीषाताम् । अध्यगीषत । "गाड् कुटादे::" [१1१/७५] इति ङिवं "भुमास्थागा" [ ४/४/६५ ] इत्यादिनेत्वम् । पक्षे श्रध्यैष्ट । ध्यैषाताम् | श्रध्यैषत । लुङि श्रध्यगीष्यत । श्रध्यगीष्येताम् | श्रध्यगीष्यन्त | पक्षे श्रध्येष्यत । श्रध्येष्येताम् | श्रध्यैष्यन्त ।
णौ सन्चोः ||१|४|१२३ ॥ णौ सन्परे कच्परे च परतः इङो वा गादेशो भवति । श्रध्यापयितुमिच्छति अधिनिगापयिषति । " प्रकल्ल्यापवादविषयं तत उत्सर्गोऽभिनिविशते " [प०] इति गाङादेशपक्षे “क्रीड्ज़ेर्णे” [ ४ | ३ | ४१ ] इत्यात्वं न भवति । अन्यत्र अध्यापिपविषति । “अच:" [४|३|२] इति द्वितीयस्यैकाचो द्वित्वम् । कच्परे - अध्यजीगपत् । अन्यत्र अध्यापिपत् । माङ्योगे - मा भवानध्यापिपदिति भत्रति । "णौ कच्युङ:” [२।२।११५] इति प्रादेशे कृते द्वित्वम् । कथं ज्ञायते १ श्रोणतेः ऋदित्करणं ज्ञापकं यदि द्वित्वं प्रागेव स्यात् श्रोण उकारस्यानुङ्भूतत्वात् प्रादेशप्रतिषेधार्थं ऋदित्करणमनर्थकं स्यात् ।
अस्ति भूवची ||१|४|१२४ ॥ अस्तित्रुजित्येतयोर्यथासंख्यं भूवचि इत्येतावादेशौ भवतः । भविता । भवितुम् । भवितव्यम् । श्रस्तीति तिपा निर्देशः किमर्थः ? यस्य केवलस्य श्रस्तीति रूपं तस्य यथा 'स्यात् अनुप्रयोगस्य लिट्परस्य मा भूत् । ईहामास । ब्रूञ् - वक्ला । वक्तुम् । वक्तव्यम् । वचैरिकार उच्चारणार्थः । स्थानिवद्भावाद्दः । ऊचे ।
चक्षः खशाञ ॥१॥४|१२५॥ चक्षः ख्शाञित्ययमादेशो भवति श्रगे । श्राख्शाता । श्राख्याता । "खश: शो यो वा” [५|४|१२४] इति वा यकारादेशः । पर्याख्यानमित्यत्र यकारादेशस्यासिद्धत्वात् शकारेण व्यवहितत्वात् "कृत्यचः" [ ५।४।१०८ ] इति णत्वं न भवति । स्थानिवद्भावेन "अनुदातेतो दः" [११२२६] इति नित्यं दो मा भूत् इति ञित् क्रियते ।
For Private And Personal Use Only