________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म.पा. सू० १०३-११६] महावृत्तिसहितम् अगे ॥
११०६॥ अगे इत्ययमधिकारो वक्ष्यते। "हनो वध लिङि" [ १४] इति । वध्यात् । वध्यास्ताम् । वध्यासुः । "प्रतः खम्" [ ५०] इत्यकारस्य खम् । अग इति किम् ? हन्यात् । अग इति विषयनिर्देशः । श्रादेशे कृतै यो यतः प्राप्नोति स ततो यथा स्यादित्येवमर्थः । श्राख्ये. यम् । भव्यम् । प्रवेयम् । परनिर्देशे हि ण्यः प्रसज्येत ।
तिकित्येऽदो जन्धिः ॥१४॥११०॥ तकारादौ किति प्ये चागे परतोऽदेर्जग्धिरादेशो भवति । जग्ध्वा । जग्धिः। जग्धवान् । इकार उच्चारणार्थः । "तथोधोऽधः" [२०५६] इति तकारस्य धत्वम् । "झलां जश् झशि [ १२] इति धकारस्य दत्वम् । "झरो झरि स्वे' [शा१३६] इति दखम् । कथमन्नम् ? "प्रदोऽनन्ने" [२।२।६०] इति निपातनात् । प्ये-प्रजग्ध्य । “अनल्विधौ' [00१६] इति स्थानिवद्भावो नास्ति । इदमेव ज्ञापकम् “एकपदाप्रयत्वेनान्तरङ्गानपि जग्ध्यादिविधीन् बहिरङ्गः प्यादेशो बाधते" [१०] तेन प्रधायेत्यत्र हित्वं न भवति । प्रखन्येति "जनसनखनाम्" [१३] इति नित्यमात्वं न भवति । प्रदायेति "दो दोः " [२२११४८] इति दत्त्वं नास्ति । प्रस्थायेति यतिस्यतिमास्था"श२११४४] इत्यादिनेत्वं नास्ति । प्रशम्येति "स्य क्विझलो" [ १३] इति दीत्वं नास्ति । प्रपृच्छय प्रदीव्येति शूठो न भवतः । प्रपठ्येति इडभावः ।
घस्ल लुङ्घसनच ॥१४।१११॥ अदेघस्ल इत्ययमादेशो भवति लुङि घनि सनि अचि च परतः। लुङि-अघसत् । अघसताम् । अघसन् । घजि-घासः। सनि । जिघत्सति । अजिति पचायचः [२।३।१०६] "गावदः" [२२३६५३] इत्यस्य च सामान्येन ग्रहणम् । प्रात्तिः पावन वा प्रघसः ।
लिटि वा ॥२४११२॥ लिटि परतः अदेर्घस्लादेशो भवति वा । जघास । जक्षतुः । जक्षुः । श्राद । श्रादतुः। श्रादुः ।
वेञो वयिः ॥१४॥११३॥ वेञो वयिरादेशो लिटि वा भवति । इकार उच्चारणार्थः । उवाय । जयतुः। ऊयुः। णलि "चस्यैषां लिटि" [१॥३॥१३] इति वकारस्य जिः । “लिटि वेजो यः'' [३।३२] इति यकारस्य जिप्रतिषेधे "हलोऽनादेः" [५।२।१६३] इति खम् । अतुसि उसि च “वचिस्वपियजादीनां किलि" [ ] इति जिः प्राप्तः। 'प्ये च" [१।३।२५] इति प्रतिषिद्धिः। “वो वा किति" [॥३॥३३] इति विभाषया प्राप्तः । "अहिज्यावयि' [३।१२] इति नित्यो जिर्भवति । यदा न वयिस्तदा "प्ये च" [ ३४] इति जिप्रतिषेधे-ववौ। द्विबहोः “वो वा किति'' [ ३३] इति जिपक्षेऊवतुः । अवुः । जौ कृते द्वित्वे च "वार्णाद्गावं बलीयः" [प०] इति उवादेशे कृते "स्वेऽको" [२] दीत्वम् । अजिपने-ववतुः । ववुः ।
हनो वध लिङि ॥१।४।११४॥ हन्तर्वध इत्ययमादेशो भवति लिङ्यगे परतः । वध इत्यदन्तः उदात्तश्चादेशः। वध्यात् । वध्यास्ताम् । वध्यासुः। श्रखस्य स्थानिवद्भावादवधीरित्यत्र हलन्तलक्षणः "अतोऽनादे:" [२१॥८३] इत्यैप् न भवति । इह वेति न स्मर्यंते । वधक इति प्रकृत्यन्तरस्य ।
लुङि ॥१४१११५॥ जुङि परतो हन्तेर्वध इत्ययमादेशो भवति । अवधीत् । अवधिष्टाम् । अवधिषुः। उत्तरत्र वानिर्देशादिह नित्यो विधिः ।
वेजि ॥१।४।११६॥ इङि लुङि परतो हन्तेर्वधादेशो वा भवति । श्रावधिष्ट । श्रावधिषाताम् । श्रावधिषत । श्राहत । अाहसाताम् । श्राहसत । "आङो यमहन:' [ २३] इति दविधिः । "हन: सि" [१८] इति सेः कित्त्वम् । कर्मणि-अवधि । अवधिषाताम् । अवधिषत । भिवावे अघानि । अघानिषाताम् । अधानिषत।
र
For Private And Personal Use Only