________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८०
जैनेन्द्र-व्याकरणम्
भ० १ पा० ४ सू० १०१-१०८
सेनासुराच्छायाशाला निशा वा ॥ ११४॥ १०१ ॥ सेना सुरा छाया शाला निशा इत्येवमन्तः षो वा नब्भवति । देवानां सेना देवसेनम् । देवसेना | पिष्टसुरम् । पिष्टसुरा । कुव्यच्छायम् । कुड्यच्छाया । गोशालम् । गोशाला । श्वनिशम् । श्वनिशा । चोरनिशम् । चोरनिशा । इत्येव । सूरसेनो राजा । नत्र्य इत्येव । सेना । परमसेना ।
Acharya Shri Kailassagarsuri Gyanmandir
द्वन्द्वे वल्लिङ्गम् ||१|४|१०२ ॥ द्वन्द्वे सेद्योरिव लिङ्गं भवति । इतरेतरयोगद्वन्द्वस्येह ग्रहणम् । तत्र सर्वेषामवयवानां प्राधान्यात् पर्यायेण समुदायलिङ्गे प्राप्ते वचनम् । कुक्कुटमयूर्याविमे रमणीये । मयूरीकुक्कुटाविमौ । यथा "हश्च" [१|४|१४] इति नपुंसकलिङ्गातिदेशः संघातस्य भवति न चावयवस्य निवर्तकः । अधित्रि । अधिकुमारीति । एवामहापि समुदाये लिङ्गातिदेशोऽनुप्रयोगार्थ क्रियमाणो नावयवस्य स्त्रीत्यस्य निवकः । सस्य वल्लिङ्गातिदेशो न वक्तव्यः । विशेष्यवल्लिङ्गवचनानि भवन्ति विशेषणानामित्यनेन सिद्धत्वात् । वर्थस्य तु विशेष्यत्वात् प्राधान्यम् । श्रर्द्धपिप्पली । अर्द्ध कौशातकी शोभना । यत्र पूर्वपदार्थ ः प्रधानं तत्र पूर्वलिङ्गमेव । यथा “प्राप्तापन्नालम् पूर्व तिसलक्षणेषु" । प्राप्तो जीविकां प्राप्तजीविकः । श्रापन्नजीविकः । अलं जीविकायै अलञ्जीविकः । "निरादयः क्रान्ताद्यर्थं कया " [वा०] निष्क्रान्ता कौशाम्ब्या निष्कौशाम्बिः । हृदर्थे रस्य न्यपदार्थप्राधान्यादभिधेयवल्लिङ्गम् । पञ्चसु कपालेषु संस्कृतः पञ्चकपालः पुरोडासः ।
अश्ववडवी पूर्ववत् ॥ १|४|१०३ ॥ श्रश्ववडवयोरितरेतरयोगे पूर्ववल्लिङ्गं भवति । श्रश्वश्च वडवा ववव । समुदाये लिङ्गातिदशेऽनुप्रयोगार्थं पूर्ववल्लङ्गनिवृत्तिर्नास्तीत्युक्तम् । कथं टापो निवृत्तिः । श्रश्ववडव इति निपातनात् । पूर्ववदिति किमथम् ? अर्थातिदशार्थम् । श्ववडवावित्युच्यमाने वचनान्तरे न स्यात् । अश्ववडवान् पश्य । श्ववडवैः कृतम् ।
(रात्रो पुसि ||१|४|१०४ ॥ रात्र शब्दौ कृतसान्तौ निर्दिष्टो एतौ पुंसि भवतः । द्वयो रात्र्योः समाहारः द्विरात्रः । “अहः सर्वेकदेशसंख्यातपुण्याच्च रात्रेः " [ ४ २८६] इत्यः सान्तः । पूर्वमहः पूर्वाह्नः । अपराह्नः) "पूर्वापरप्रथम" [१ |३|१३] इत्यादिना प्रसः । " राजाहः सखिभ्यष्टः " [४ | २/६३] इति कृते " एभ्योऽहोऽह्नः" [४/२/६० ] इत्यादेशः । उत्तरपदप्राधान्यात् स्त्रीनपुंसके प्रास ।
अहः ||१|४|१०५|| अह इत्ययं शब्दः पुंसि भवति । द्वयोरहो समाहारः द्वयहः । त्र्यहः । “न समाहारे” [४।२।११] इत्यहादेशप्रतिषेधः । टिखम् । “अनुवाकादयश्चेति वक्तव्यम् [ वा० ] अनुवाकः । सम्प्रवाकः । सूक्लवाकः ।
पुण्यसुदिनाभ्यां नप ||१|४|१०६ ॥ पुण्यमुदिनाभ्यां परः श्रहशब्दो नब्भवति । पुण्यमहः पुण्याहम् | पुण्यग्रहणं सूत्र उपलक्षणम् । एकादमिति च भवति । विशेषणसविधिः । “पुण्यैकाभ्याम् " [४।२।१२] इति श्रह्लादेशप्रतिषेधः । सुदिन महः सुदिनाहम् ।
अपथम् ॥१४|१०७॥ अपथं शब्दो नब्भवति । न पन्थाः श्रपथम् | "पथो वा'" [ ४ २ ६८ ] इति प्रतिषेध विकल्पः । "ऋक्पूरुधू पथोऽनक्षे" [४/२/७० ] इति असान्तः । अस्मिन् पयो देशः | अपथा अटवी । "झिसंख्यादेरिति वक्तव्यम्" [ वा० ] [१३८१] इति सः । त्रिपथञ्चतुःपथमिति तासः ।
For Private And Personal Use Only
इत्येव । न विद्यते पन्था उत्पथम् । 'तिकुप्रादयः ”
पुंसि चर्चाः ||१|४|१०८ ॥ अर्धर्चादयः शब्दाः पुंसि नपि च वेदितव्याः । श्रर्ध च तत् ऋक् च सार्द्धर्चः । श्रद्ध चम् । गोमय कषाय कार्षापण कुतपकवाट शङ्खादिपाठादवगमः कर्त्तव्यः ।
" शब्दरूपाश्रया चेयं प्रणीतोभयलिङ्गता । क्वचिदप्यर्थभेदेन शब्देष व्यवतिष्ठते ॥ "
पद्मशब्दौ निधिवचनौ पुंल्लिङ्गौ । जलजे द्विलिङ्गौ । भूतशब्दः प्राणिति द्विलिङ्गः । क्रियाशब्दस्याभिधेयवल्लिङ्गम् । सैन्धवशब्दो लवणे द्विलिङ्गोऽन्यत्रामिधेयवल्लिङ्गः । सारशब्दोऽन्याय्येऽर्थे नपुंसक - लिङ्गः । उत्कर्षेऽर्थे पुंल्लिङ्गः । धर्मशब्दोऽपूर्वे पुल्लिङ्गः । तत्साधने नपुंसकलिङ्गः ।