________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० १ पा० ४ सू० ६३-१०.]
महावृत्तिसहितम्
सानप ॥१४॥३३॥ यस्यायमुक्त एकवद्भावः स नन्भवति । तथा चैवोदाहृतम् । समाहारे रसोनप भवतीति वक्तव्यम् । पञ्चाग्नि । पञ्चवायु। अकारान्तप्रकरणे "रात्" [३।१।२५] इति डीविधानं ज्ञापकम् । अकारान्तोत्तरपदो रः स्त्रियां वर्तत इति । पञ्चपूली । षण्णगरी । 'वाबन्त इति वक्तव्यम् [व] पञ्चखट्वी । पञ्चखट्वम् । “स्त्रीगोर्नीच:' [१।१।८] इति प्रादेशः। "अन्नन्तस्य नखं स्त्रियां वा वृत्तिः" [ वा० ] पञ्चतक्षम् । पञ्चतक्षी । “पात्रादिभ्यश्च प्रतिषेधः'' [ वा०] पञ्चपात्रम् । त्रिभुवनम्। चतुर्युगम् । पञ्चगवम् । दशगवम् । 'गोरहृदुपि' [।२।१५] इति टः सान्तः।
हश्च ॥१॥४॥६४॥ हसंज्ञश्च नम्भवति । अधिस्त्रि । उन्मत्तगङ्गम् । द्विमुनीदम् । "प्रो नपि" [१७] हति प्रादेशार्थमन्प्रयोगार्थ च वचनम् । पूर्वपदार्थप्रधानस्यालिङ्गत्वं प्राप्तम्। अन्यत्राभिधेयवल्लिई प्रासम । चकारोऽनुक्समुच्चयार्थः । तेन क्रियाविशेषणानां नपुंसकत्वं सिद्धम्। शोभनं पचति'।
षोऽनत्र यः॥१।४।६।। नञ्तं यसञ्च वर्जयित्वा न भवतीत्येतदधिकृतं वेदितव्यम् । ष इति पुंल्लिङ्गन निर्देशः सौत्रः। वाच्यप्रकरणादन्यत्र कामचारो वा वक्ष्यति । सेनासुराञ्छायाशालानिशा वेति । क्षत्रियसेना । क्षत्रियसेनम् । ष इति किम् ? महती सेनाऽस्य महासेनः । अनअिति किम् ? असेना । अय इति किम् ? परमसेना ।
खो कन्थोशीनरेषु ॥१॥४॥६६॥ खुविषये कन्थान्तः षसो नब्भवति उशीनगेषु चेत् सा कन्था । सौसमीना कन्था सौसमिकन्यम् । श्राहरकन्थम् । आसमिकन्थम् । चर्मकन्थम् । एते उशीनरेषु ग्रामाः। विग्रहवाक्य सादृश्यमात्रण | खाविति किम् ? वीरणकन्था। उशीनरेष्विति किम् ? दक्षिकन्था । अन्यत्र ग्रामसज्ञ यम्।
उपचापक्रम तदाधुक्तो ॥१४६७।। हपज्ञायत इति उपज्ञा उपदेशः। उपक्रभ्यत इति उपक्रमः प्रारम्भः । उपज्ञोपक्रम इत्येवमन्तः षसो नन्भवति तयोरुपज्ञापक्रमयोगयुक्तो गम्यमानायाम् । स्वायम्भुवस्योपज्ञा स्वायम्भुवोपज्ञमाकालिकाचारध्ययनम् । देवोपज्ञमनकशेषव्याकरणम् | कुरुराजस्योपक्रमः झुम्सजोपक्रम दानम् । कम्पनापक्रमं स्वयंवरविधानम्। उपज्ञापक्रममिति किम् ? आदिदेवतपस्या तीवा । तदायकाविति किम् ? देवदत्तापज्ञा । देवदत्तोपक्रमो गणितम् । उत्तरपदस्य प्राधान्यल्लिङ्गम् । ष इत्येव । सम्यगुपज्ञो भगवान् स्वायम्भुवो यस्येदमाकालकाचाराध्ययनम् । वाक्येन तदायु क्तो गम्यमानायामिदं प्रत्युदाहरणम् ।
छाया बहूनाम् ॥१४८॥ बहूनां या छाया तदन्तः षसो नब्भवति । इक्षणां छाया इतुच्छायम् । सलभच्छायम्। बहूनामिति किम् ? कुड्यस्य छाया कुड्यच्छायम् । कुख्यच्छाया । "सेनासुराः"[१११०१] इत्यादिना विकल्पः । ष इत्येव । बवश्छाया अस्मिन्बहुच्छायो वनखण्डः ।
सभाऽराजामनुष्यात् ॥१।४।६६॥ अराज्ञः अमनुष्याच्च परा या सभा तदन्तः षो न भवति । अराज्ञः। इनस्य सभा इनसभम् । ईश्वरसभम् । इन्द्रसभम् । पार्थिवसभम् । राजशब्दपर्युदासात् तत्पर्यायाणामत्र ग्रहणं न विशेषाणाम्। तेनेह न भवतिसातवाहनसभा । चन्द्रगुप्तसभा। अमनुष्यात्-रक्षसां सभा रक्षःसभम्। पिशाचसभम् । अमनुष्यशब्दस्य चरक्षःप्रभृतिष्वेव रूढत्वादिह न भवति । काष्ठसभा... पाषाणसभा । पक्केष्टकासभा । यद्येवं "टगमनुष्ये' [२।२।१०] इत्यत्र कथम् । जायाघ्नस्तिलकः । पित्तन) घृतम्। "युव्या बहुलम् [२।३।१५] इति बहुलवचनात्तत्रान्यस्यापि ग्रहणम् । "राजामनुष्यात्' इति किम् ? राजसभा । देवदत्तसभा। ष इत्येव । ईश्वरा सभाऽस्य ईश्वरसभः ।
अशाला ॥१।४।१००।। अशाला च या सभा तदन्तः षो नन्भवति । गोपालसभम् । दासीसभम् । स्त्रीसमम् । अत्र समुदाये सभाशब्दः। अशालेति किम् १ देशिकसभा ।
१.-ति । मृदु पचति । १०।
For Private And Personal Use Only