________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७८
जैनेन्द्र-व्याकरणम्
[अ० १ पा० ४ सू० ८६-१२
वाईद्र पायोग्यानाम् || १ |४| ८६ ॥ वर्णेनार्हद्र पस्यायोग्यास्तेषां द्वन्द्व एकवद्भवति । येन रूपे - गार्हन्त्यमवाप्यते, तदिह नैन्ध्यमद्र पमभिप्रतम् । अतिशयोपेतस्यार्हद्र पस्य प्रातिहार्यसमन्वितस्य बहुतरमयोग्यमिति • नेह तद् गृह्यते । तक्षायस्कारम् । कुलालवरुढम् । रजकतन्तुवायम् । नन्वेतॆष्वप्येकवद्भावः प्राप्नोति । चण्डालमृतपाः । न दधिपय श्रादिष्वन्तर्भूतो द्वन्द्वो द्रष्टव्यः । वर्णेनेति किम् ? मूकवधिराः । एते करणदोषेणायोग्याः । श्रर्हद्र पायोग्यानामिति किम् ? ब्राह्मणक्षत्रियौ ।
Acharya Shri Kailassagarsuri Gyanmandir
गवाश्वादीनि च ॥ १।४।६७॥ गवाश्वादीनि च गणपाठे द्वन्द्वरूपाणि च एकवद्भवन्ति । गवाश्वम् । गवैडकम् । गवाविकम् । श्रजाविकम् । पशुविभाषा प्राप्ता । कुब्जवामनम् । कुब्जकै कतम् । पुत्रपौत्रम् । श्वचाण्डालम् । द्वेषे - स्त्रीकुमारम् । दासीमाणवकम् । शाटीपिच्छिकम् । इदं जात्यविवक्षायाम् | उष्ट्रखरम् | उष्ट्रशशम् । पशु विभाषा प्राप्ता । मूत्रशकृत् । मूत्रपुरीषम् | यकृन्मेदः । मांसशोणितम् । इमानि जात्यविवक्षायाम् । दर्भशरम् । दर्भपूतीकम् । अर्जुनपुरुषम् । तृणोपलम् । एतैषां तृणविकल्पः प्राप्तः । दासीदासम् । कुटीकुटम् । भागवती भागवतम् । एषां सरूपाणां लिङ्गमात्रकृतविशेषाणां निपातनाद् द्वन्द्वः । चकारोऽवधारणार्थः । गवाश्वादीनि पठितान्येवैकवद्भवन्ति नान्यथा । गोऽवौ । गोऽश्वम् ।
वा तरुमृगतृणधान्यव्यञ्जनपश्वश्ववडव पूर्वापराधरोत्तरपक्षिणः || १ |४| ८८ ॥ तरु-मृग-तृणधान्य व्यञ्जन पशु बेवानामश्व वडव पूर्वापर श्रधरोत्तर इत्यषां पक्षिविशेषाणां च द्वन्द्वो वा एकवद्भवति । प्लक्षन्यग्रोधम् | 'लक्षन्यग्रोधाः । श्रारण्या मृगाः । रुरुपृषतम् । रुरुपृषताः । कुशकाशम् । कुशकाशाः । त्रीहियवम् । व्रीहियवाः । दधिघृतम् । दधिघृते । ग्राम्याः पशवः । वृष्णिस्तभम् । वृष्णिस्तभाः । श्रश्ववडवम् । अश्ववडवौ । पर्यायनिवृत्त्यर्थं च अश्ववडवग्रहणम् । पूर्वापरम् । पूर्वापरे । अधरोत्तरम् । अधरोत्तरे । तित्तिरिकापिञ्जलम् | तित्तिरिकापिञ्जलाः | अत्रेष्टिः । "सेनाङ्गफलक्षुद्र जीवतरुमृगतृणधान्यपक्षिणां प्रकृत्यर्थ बहुत्वे एकवद्भावः " [aro ] तेन रथिकाश्वारोहौ । बदरामलके । इदमेव ज्ञापकम् 'प्राणिजाते: " [91४1८२ ] इत्यत्र
बहुवचनान्त एवं विप्रहोऽभिप्रेतः । यूकालिक्षे । तदन्यग्रोधौ । रुरुपृषतो । कुशकासौ । त्रीहियवौ । हंसचक्रवाकौ । वेति योगविभागोऽयम् । द्वन्द्वमात्रे कृतो भवेत् । पूर्वो विधिस्तु नित्यार्थः तुल्यजात्यर्थ उत्तरः । इह मा भूत् -- लक्षयवाः । हंसपृषताः ।
1
विरोधि चानाश्रये ॥ ११४॥ ८६ ॥ वेति वर्तते । श्राश्रयो द्रव्यं विरोधो येषामस्ति तद्वाचिनामनाश्रयाभिधायिनां द्वन्द्व एकवद् भवति । विरोधीत्यामः खे कृते सौत्रो निर्देशः । सुखदुःखम् । सुखदुःखे । जननमर यम् । जननमरणे । शीतोष्णम् । शीतोष्णे । विरोधीति किम् ? कामक्रोधौ । अनाश्रय इति किम् ? सुखदुःखौ ग्रामौ । शीतोष्णें उदके । चकारादविरोधेऽपि । वधूवरम् । वधूवरौ । स्थावरजङ्गमम् । स्थावरजङ्गमे ।
न दधिपयदीति ॥ ९ ४ ९० ॥ दधिपत्रादीनि द्वन्द्वरूपाणि नैकवद्भवन्ति । येन केनचित् प्राप्ते प्रतिषेधोऽयम् । दधिपयसी । सर्पिर्मधुनी । मधुसर्पिषी । व्यञ्जनत्वात् प्राप्तिः । ब्रह्मप्रजापती । शिववैश्रवणौ । स्कन्दविशाखौ । परिवाजक कौशिकौ । प्रक्र्योपसदौ । वेतिप्राप्तिः । शुक्लकृष्णौ । इध्माबर्हिषी । निपातनात् पूर्वस्य दीत्वम् । योगानुव के । दीक्षातपसी । श्रद्धातपसी । अध्ययनतपसी । उलूखलमूसले । श्रावसाने । श्रद्धामेधे । ऋक्सामे । वाङ मनसे । वेति योगविभागात् प्राप्तिः । चण्डालमृतपादयश्च ।
तव च || १ |४| ६१ ॥ एतावत्वमियत्ता । वृत्त्यवयवार्थानामेतावत्त्वे च द्वन्द्वो नैकवद्भवति । द्वादश में मार्दङ्गिकपण विकाः । चकारः प्रतिषेधानुकर्षणार्थः ।
वा समीपे ॥११४॥ ६२ ॥ नेति निवृत्तम् | अर्थानामेतावत्त्वस्य समीपे वा द्वन्द्व एकवद्भवति । उपदर्श दन्तोष्ठम् । उपदशा दन्तोष्ठाः । एकवद्भावपक्षे हसोऽनुप्रयुज्यते अन्यत्र वसः । हसे “अनः " [४ |२| ११० ] इति श्रः सान्तः । असे तु ङः ।
१. अजुन शिरीषम् इति काशिका । २. शुक्लकृष्णे अ०, ब०, स० ।
For Private And Personal Use Only