________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प० । पा० ४ सू० ८१-८५] महावृत्तिसहितम् कारस्य खम् । क्यजन्तस्य उश्च त्यः । अध्वर्युक्रतुरनपुंसकलिङ्गो द्वन्द्व मेकवद्भवति । येषां ऋतूनां यजुर्वेदशाखासु लक्षणं प्रयोगश्च शिष्यते प्राधान्येन तेषामध्वयु कनूनामनपुंसकलिङ्गानां द्वन्द्व एकवद्भवति इत्यर्थः। अर्कश्च अश्वमेधश्च अर्काश्वमेधम् । सायाह्नातिरात्रम् । पौण्डरीकातिरात्रम् । अध्वर्युक्रतुरिति किम् ? पञ्चौदनदशोदनाः। इषुवज्रौ। उद्भिदलभिदौ । एते सामवेदविहिताः । अनबिति किम् ? राजसूर्य च वाजपेयं च राजसूयवाजपेये । इह कस्मान्न भवति दर्शपौर्णमासौ। दधिपयादिषु द्रष्टव्यः। .
अधीत्याऽदूराख्यानाम् ॥१४॥ श्राख्या नामधेयम् । अधीत्या निमित्तभूतया अदूराख्यानां द्वन्द्व एकवद्भवति । पदमधीते पदकः । क्रममधीते क्रमकः । पदकक्रमकम् । क्रमकवात्तिकम् । पदाध्ययनस्यासन्नं क्रमाध्ययनम् । अधीत्येति किम् ? आढ्यदरिद्रौ। अदूराख्यानामिति किम् ! याज्ञिकवैयाकरणो। यशमधीते याज्ञिकः ।
अप्राणिजातेः ॥१४॥२|| अप्राणिजातिवाचिनो द्वन्द्व एकवद्भवति । पाराशस्त्रि । धानाशष्कलि । युगवरत्रम् | अप्राणिग्रहणं किम् ? गौपालिशालङ्कायनाः । गोत्रं चरणैः सहेति जातिः । जातेरिति किम् ? हिमवद्विन्ध्यौ। नन्दकपाञ्चजन्यौ। संशाशब्दा एते । नसदृशसम्प्रत्ययहेतुः। तेन द्रव्यजातीनामेकवदावादिह न भवति । रूपरसगन्धस्पर्शाः। गमनागमने। जातेरविवक्षायां न भवति । बदरामलकानि तिष्ठन्ति ।
भिन्नलिङ्गो नदीदेशोऽग्रामोऽपुरम् ॥२८॥ भिन्नलिङ्गानां नदीदेशवाचिनामग्रामाणामपुराणां द्वन्द्र एकवद्भवति । नदी-उद्धयश्चरावती च उद्धथे रावति । विपाट्चक्रभिदम् । गङ्गाशोणम् । देशा:-कुरवश्च कुरुक्षेत्रं च कुरुकुरुक्षेत्रम् । कुरुकुरुजाङ्गलम् । दार्वाश्च अभिसारं च दाभिसारम। काश्मीराभिसारम् । भिन्नलिङ्ग इति किम् ? गङ्गायमुने । मद्रकेकयाः। नदीदेश इति किम् ? कुक्कुटमयूयौं । अग्राम इति किम् ? जाम्बवश्च शालूकिनी च जाम्बवशालूकिन्यो । ननु नद्यपि देश इति पृथग्ग्रहणं किमर्थम् ? ज्ञापकार्थ जनपदो देशोऽभिप्रतो न नदीपर्वतादिः। तेनेह नैकवद्भावः । कैलासश्च गन्धमादनं च कैलासगन्धमादने । अपुरमिति किम् ? लोके ग्रामग्रहणेन पुरमपि गृह्यते ततोऽपुरमिति प्रतिषेधः। मथुरापाटलिपुत्रम् । अग्राम इति प्रसज्यप्रतिषेधः । तेन यत्र पुरग्रामयोर्द्वन्द्वस्तत्रापि नैकत्वम् । नासौर्यकैतवौ
पुरग्रामौ ।
क्षुद्रजीवाः ॥१४ाच्४॥ इहाल्पशरीरः क्षुद्रः । क्षद्रजीवानां द्वन्द्व एकवद्भवति । क्षुद्रजीवाश्रयो द्वन्द्र उपचारात् क्षुद्रजीवा इति निर्देशः । यूकालिक्षम् । शतस्वश्च उत्पादकाश्च शतसूत्पादकम् । दंशमशकम् ।.. "इंद्रजीवा अकङ्काला येषां स्वं नास्ति शोणितम् । नाञ्जलिर्यत्सहस्रण केचिदानकुलादपि ॥")
केचित् शब्दः प्रत्येकमभिसंचध्यते । क्षुद्र जीवा इति बहुवचननिर्देशात् द्वित्वविषये नेदमिति यूकालिदौ । दंशमशको ।
येषाञ्च द्वेषः शाश्वतिकः ॥शा॥ द्वेषोऽप्रीतिः। येषां च द्वेषः शाश्वतिकस्तद्वाचिनो द्वन्द्व एकवद्भवति । शश्वद्भवः शाश्वतिकः । “काला?" [३।२।१३] इति ठञ् । निपातनादिकादेशः । "झे माने टिखम्" इति खं च न भवति । अहिनकलम । श्ववराहम । “अन्यस्यापि' [॥३॥२३२] इति दीत्वम् । शाश्वतिक इति किम ? गौपालिशालङ्कायनाः। केनचिन्निमित्तेन कलहायन्ते । चकारोऽवधारणार्थः। अयमेव नित्य एकवद्भावो यथा स्यात् पश्वादिविभाषा मा भूत् । अश्वमहिषम् । काकोलूकम् ।
१.पा० महाभाष्ये-"क्षुदजन्तुरनस्थि: स्यादथ वा क्षुद्र एव यः । नाञ्जलियंसहखण केचिदानकुलादपि ।” शाम । २. श्ववाराहम् अ.।
For Private And Personal Use Only