________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६
जैनेन्द्र च्याकरणम्
[अ० १ पा० ४ सू०७५-८०
%Dance
भवति । शतं दायी । सहस्र दायी। “आवश्यकाधमर्ययोर्णिन" [२।३।१४६] इति णिन् । वर्त्यति । गमी ग्रामम् । आगामी नगरम् । “गम्यादिवस्य॑ति'' [२।३।१] इति वर्त्यतिकाले साधुत्वम् । श्राधमण्र्ये चेन इति किम् ? अवश्यंकारी कटस्य । अावश्यकेऽर्थे कालसामान्ये णिन् । व्यस्य
४७॥ व्यसंशस्य प्रयोगे कर्तरि वा ता विभक्ती भवति । भवतः कटः कर्तव्यः । भवता कटः कर्तव्यः । कर्तकर्मणोः कृतीति ता प्राप्ता विभाष्यते । कर्तरीति किम् ? गेयो माणवको गाथानाम् । "भव्यगेय." [२॥४॥५३] श्रादि सूत्रे कर्तरि गेयशब्दो निपातितः । अत्र कर्मणि नित्यं ता भवति । इह कस्माता न भवति क्रष्टव्या ग्राम शाखा देवदत्तेन । नेतव्या ग्राममजा देवदत्तेन । वेति व्यवस्थितविभाषा । तेन "द्विप्राप्तौ परे'' [१/४/६६] इत्यस्यास्ताया व्यप्रयोगे प्रतिषेध एव ।
__ भाऽतुलोपमाभ्यां तुल्यार्थैः ॥११४७६॥ वेति वर्तते । तुलोपमाशब्दाभ्यामन्यैस्तुल्यार्थैः शब्दैयुंक्त वा भाविभक्ती भवति । तुल्यो देवदत्ते न । तुल्यो देवदत्तस्य । पक्षे शेषलक्षणा ता । अतुलोपमाभ्यामिति किम् ? नास्ति तुला देवदत्तस्य । उपमा नास्ति सनत्कुमारस्य ।
__ अप चाशिष्यायुष्यमद्भद्रकुशलसुखहितार्थः ॥१:४७७॥ वेति वर्तते । वा अविभक्ती भवतिश्राशिषि गम्यमानायाम् | आयुषो निमित्तं संयोगः । "निमित्तं संयागोत्पादौ" [३।४।३७] "योऽसंख्या परिमाणाश्वादेः' [३।४।३८] इति यः । श्रायुष्य मद्र भद्र कुशल सुख हित इत्यवमथैर्युक्त । श्रायुष्यमिदमस्तु देवदत्ताय देवदत्तत्य वा। चिरमस्तु जोवितं देवदत्ताय देवदत्तस्य वा । मद्रं भवतु जिनशासनाय जिनशासनस्य वा । भद्र देवदत्ताय देवदत्तस्य वा । कुशलं साधुभ्यः । कुशलं साधूनाम् । निरामयं साधुभ्यः। निरामयं साधूनाम् । सुखं साधुभ्यः। सुखं साधूनाम् । शमस्तु साधुभ्यः। शमस्तु साधूनाम् । हितं देवदत्ताय । हितं देवदत्तस्य । पथ्यं देवदत्ताय । पथ्यं देवदत्तस्य । पक्षे शेषलक्षणा ता । चकारः किमर्थः ? अर्थाथैरपि योगे यथा स्यात् । अथों देवदत्ताय । अर्थो देवदत्तस्य । प्रयोजनं देवदत्ताय । प्रयोजनं देवदत्तस्य । तापक्षे वृत्तिर्न भवति अगमक वात् । न हि वृत्त्याऽऽयोगम्यते । आशिषीति किम् ? अायुष्यं देवदत्तस्य । अत्र नाप।
प्राणितूर्य सेनाङ्गानां द्वन्द्व एकवत् ॥१४॥८॥ प्राण्यङ्गानां तूर्याङ्गानां सेनाङ्गानां च द्वन्द्व एकवद्भवति । एकार्थवद्वतीति अर्थनिर्देशाद्विशेषणानामपि तद्वत्ता। पाणी च पादौ च पाणिपादम् । दन्तौठम् । शिरोग्रीवम् । यदि प्राण्यङ्गं प्राणिग्रहणेन गृह्यते "अप्राणिजाते. [
१ २] इति प्रतिषेधे प्राप्ते अथ न गृह्यते तदा 'अप्राणिजातेः" इत्येव सिद्ध व्यतिकरनिवृत्यर्थं वचनं प्राण्यङ्गानामन्येन द्वन्द्रो मा भूत् । तूर्यम्-मार्दनिकाश्च पाणविकाश्च मार्दङ्गिकपाणविकम् । सेना-रथिकाश्च अश्वारोहाश्च रथिकाश्वारोहमा । रथिकपादातम् । "सेनाङ्गेषु बहुत्वे" वा०] इति तेन रथिकाश्वारोहो । हस्त्यश्वादिषु परत्वात पशु विभाषा | यद्यप्यभिधानवशादिह समाहारे द्वन्द्वः, दधिपयादिषु इतरेतरयोगे, तरमृगादिषु उभयत्र, तथापि तद्विषयविभागज्ञापनार्थमिदं प्रकरणम् ।
. चरणानामनूक्तौ ॥१॥४७॥ चरणं कठादिप्रोक्तोऽध्ययनविशेषः। तद्यदा पुरुषेष्वध्यतृषु वर्तते तदेह गृह्यते । अनूक्तिरनुवादः। चरणानां द्वन्द्व एकवद्भवति अनूक्तौ। स्थेणोलुंङन्तयोः प्रयोगे चेदमिष्यते। उदगात् कठकालापम् । प्रत्यष्ठात् कठकोथुमम् । अनूक्ताविति किम् ? उदगुः कठकालापाः । प्रथमोपदेशोऽयम् । कठेन प्रोक्तमधीयते कठाः। प्रोक्कार्थे “शौनकादिभ्यश्छन्दसि णिन् [२३/७७] इति णिन् । तस्य “कठचरणा का दुप्' इत्युप् । अध्येतृविषयस्याणः “उप प्रोक्तात्" [३।२।१४] इत्युप्। कलापिना प्रोतमधीयते कालापाः । प्रोक्लार्थे “कलापिनोऽण्"। टिखम् । परस्याणः "उप्प्रोकात्" [३।२।१४] इत्युप् । “छन्दो ब्राह्मणानि चात्रैव" [३।२।१६] इत्यध्येतृविषयता।
- अध्वर्युक्रतुरनप् ॥२४८०॥ अध्वरमिच्छन्ति अध्वर्यवो यजुर्वेदविदः । अतएव निपातनात् क्यच्य
For Private And Personal Use Only