________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म. पा० ४ सू० १२६-१३२]
महावृत्तिसहितम्
न वर्जने ॥१२४१२६॥ वजनेऽर्थे चक्षः ख्शाआदेशो न भवति । गां संचक्ष्य । वर्जयित्वेत्यर्थः । कण्टकाः संचक्ष्याः। नेति योगविभागादसि युचि च प्रतिषेधः। नृचक्षाः राक्षसः। विचक्षणः।
वालिटि ॥१४।१२७॥ लिटि परतो वा चक्षः ख्शात्रादेशो भवति । श्राचख्यो । श्राचख्ये । श्राचचक्षे । पूर्वेण निये प्राप्त ऽयमारम्भः ।
व्यजोऽघनचोः ॥१४॥१२८॥ अजे|ः वी इत्ययमादेशो भवति अघाचोः परतः । अनुदात्तोऽ यमादेशः। प्रवेता । प्रवायकः। अवनचोरिति किम् ? समाजः । उदाजः । समजः । उदजः । “पशुष्वजः समुदो:" [२।३।५६] इति पशुविषयेऽच । अन्यत्र घञ्। अजिति सामान्यग्रहणं तेन पचादिलक्षणेऽप्यचि प्रतिषेधः । अजतीत्यजः ।
बहुलं खौ ॥१।४।१२६॥ खुविषये बहुलमजेर्वीभावः । प्रवयणो दण्डः (प्राजनः ।) बहुलग्रहणाधवलादौ च विकल्पः। प्रवेता । प्राजिता। प्रवेतुम् । प्राजितुम् । प्रवयणम् । प्राजनम् । अजिरमित्यौणादिकः शब्दः । समस्या । “समजनिषद" [२।३।८३] इत्यादिना क्यप् । अत्र बहुलवचनान्न भवत्येव ।
त्रिण्यराजार्षाद्यन्युवणिजोः ॥१२॥१३०॥ भिदन्तात् ण्यन्तात् राजविशेषवाचिवृद्धात् ऋष्यणन्ताच परयोरणिोः यूनि उब. भवति । जितः-तिकस्यापत्वं वृद्धं तैकायनिः । तैकायनेरपत्यं प्राग्दोरण उपितैकायनिः पिता तैकायनिः पुत्रः । विदस्यापत्यं वैदः । वैदस्यापत्यं युवा इञ उपि वैदः पिता वैदः पुत्रः । एयः। कुरोरपत्य कौरव्यः । “कुर्वादेयः' [३।१।१३६] इति ण्यः । कौरव्यस्यापत्यं इत्र उपि कौरव्यः पुत्रोऽपि । इहोवचनसामर्थ्यात् कौरव्पराब्दादिन, । तिकादौ पाठात् फिजपि भवति । कौरव्यायरिणरिति । राज्ञः स्वफलकस्यापत्यं स्वाकल्कः । “कुर्वन्यन्धवृष्णे''[३।१।१०३] इत्यण् । तदन्तादिन उपि स्वाफल्कः पिता। स्वाफल्कः पुत्रः । एवं कलिङ्गत्यापत्यं कालिङ्गः । यजमगधकलिङ्गपूरमलादण' [३।१११५२] इत्यण् । तदन्तादिञ उपि कालिङ्गो युवाऽपि । इह पाञ्चालः पिता पाञ्चालः पुत्रः इति । "जितः" इति वा “राज्ञः' इति वा उप । आर्षात् । वशिष्ठत्यापत्यं "कुर्वृष्यन्धकवृष्णे:'" [३११।१०३] इत्यण् । वाशिष्ठः । तदन्तादिन उपि वाशिष्ठः पुत्रोऽपि । भिएण्यराजार्षादिति किम् ? कुहस्थापत्यं कौहडः। "शिवादिभ्योऽण" [१११०१] इत्यण। तस्याप्यात्यं को डिः । यूनीति किम् ? वामरयत्यापत्यं वामरथ्यः । “कुर्वादेर्यः" [३।१।१३६] । तस्य शिष्या वामस्थाः । वामरथ्यस्य "शकलादिवत्" इत्यतिदेशात् “शकलादिभ्यो वृद्ध" [१२।८७] हति
शैषिकोऽण "क्यरच्यना' [४।४।१४१] इत्यादिना यखम् । अणिोरिति किम् ? दक्षस्यापत्यं दाक्षिः । दारपत्यं दाक्षायणः।
पैलादेः ॥२४१३२॥ पैलादेः परस्य युक्त्यस्योब् भवति । पीलाया अपत्यं पैजः । "पीलाया वा' [३।१।१०७] इत्यण् । पैलस्थापत्यं 'द्वयवोऽणः'' [३।१।१४३] इति फिन । तस्योप् । पैलः पुत्रोऽपि । अन्य इअन्ताभ्यः परस्य फणः "प्राचामिजोऽतौल्वलिभ्यः'' [१।४।१३२] इति प्राप्ते उपि अप्रागर्थमिदम् । पैलः। सालङ्किः । सात्यकिः पिता | सात्यकिः पुत्रः । सात्य कामिः । औदञ्चिः। बाह्वादिबु उद शब्दः सनकारः पठ्यते । औदमज्जिः । श्रौदद्वाजः । औदमेधिः । औदशुद्धिः। देवस्थानिः । पैङ्गलायनिः। राणायनिः। रोहक्षितिः । भौलिङ्गिः । राजाऽयं शाल्वावयवः । सौमिनिः । श्रौद्वाहमानिः । श्रौज्जिहानिः। औज्जहायिनिः। द्रिसंज्ञाचाणः परस्य युवत्यस्योप। श्राङ्गः । “यचोऽणः" इति फित्र । तस्योप् । प्राकृतिगणोड यम् । तेन वौविजावालि प्रौदन्बरि एतेभ्यः साल्वावयवत्वादि । भाडीजधिः इत्यादि द्रष्टव्यम् ।
प्राचामिञोऽतौल्वलिभ्यः ॥१।४।१३२॥ प्राचां वृद्धे य इञ् तदन्तायुक्त्यस्योब् भवति तौल्वलि• प्रभूतीन वर्जयित्वा । पानागारिः पिता । पान्नागारिः पुत्रः। मान्थरेषणिः पिता । मान्थरेषणिः पुत्रः ।
१. "मौदगोहमानिः' म०, स०।
For Private And Personal Use Only