________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४
जैनेन्द्र-व्याकरणम् [भ० । पा० ४ सू० ६२-६८ गत्यर्थोऽसौ। भाववाचिन इति किम् ? श्लेष्मा मधुराशिनं रुजति । प्रज्वरिसन्ताप्योरिति किम् १ श्राद्यूनं ज्वरयति ज्वरः । घटादित्वात् प्रादेशः। अत्याशिनं सन्तापयति ज्वरः। शेष इत्येव । चोरं रु जति रोगः।
आशिषि नाथः ॥१४॥६२॥ श्राशी:क्रियस्य नाथः कर्मणि ता विभक्ती भवति । सर्षिषो नाथते । पयसो नाथते । सर्पिमें भूयात् इत्यर्थः। 'आशिषि नाथः" इत्युपसंख्यानेन दविधिः। आशिषीति किम् ? माणवकमुपनाथति अङ्ग पुत्राधीष्वेति । शेष इत्येव । सर्पि थते ।
जासनिग्रहणनाटकाथपिषां हिंसायाम् ॥१४६३॥ जास निप्रहण नाट काथ पिष इत्येतेषां हिंसाक्रियाणां कर्मणि ता विभक्ती भवति । “जस ताडने" इति चौरादिकः । चोरस्योज्जासयति । वृषलस्योज्जासयति । 'जसु मोक्षण' इत्येतस्य देवादिकस्याहिंसार्थत्वादग्रहणम् | जास इति कृतदीत्वोच्चारणं किम् ? प्रादेशे मा भूत् । दस्युमजीजसम् । निप्रहण इति निप्रयोः समुदितयोः व्यस्तयोविपर्यस्तयोर्ग्रहणम् । चोरस्य निपहन्ति'। चोरस्य निहन्ति । चोरस्य प्रहन्ति | चोरस्य प्रणिहन्ति । नट अवस्यन्दने चुरादिः । चोरस्योन्नाटयति । दीत्योचारणं किम् ? दस्युमनोनयत् । “नथ क्रथ क्लथ हिंसार्धा:" "हेतुमति" २१/२५] इति णिच । चोरस्योत्क्राथयति । दीत्वं हि किम् ? दस्युमचिक्रथत् । घटादित्वेऽपि निपातनादुडः प्रादेशबाधनार्थं च । चोरस्य पिनष्टि | वृषलस्य पिनष्टि । हिंसायामिति किम् ? धानाः पिनष्टि । शेष इत्येव । चौरं निहन्ति । रुजर्थत्वादेतेषामपीति चेदभावकर्तृकार्थ वचनम् । चोरस्योजासयति राजा ।
व्यवहपणोः सामर्थ्य ॥११४.६४॥ सामर्थ्य समानार्थत्वं व्यवह "ण इत्येतयोः सामर्थे स्तुतिकर्मणि ता भवति क्रयविक्रये द्यूते च सामर्थ्यम् । शतस्य व्यवहरते । सहस्रस्य व्यवहरते । सहस्रत्य पणते । प्रायः कस्मान्न भवति गुपादिभिः साहचर्यात् भौवादिकस्य स्तुत्यर्थस्य तत्र ग्रहणम् । इह तु तोदादिकस्यानुदात्तेतः । सामर्थ्य इति किम ? शलाकां व्यवहरति । गण्यतीत्यर्थः । देवान् पणयति । शेष इत्येव । शतं व्यवहरति । सहस्र पणते।
दियश्च ॥१४॥६५।। "व्यवहपणोः साम' [१४६४] इति वर्तते । दिवश्व व्यवहपणिसमानार्थस्य कर्मणि ता भवति । शतस्य दीव्याते । सहस्रस्य दीव्यति । चकारः किमर्थः ? सामर्थ्यानुकर्षणार्थः । ननु विकारादेव सामर्थ्यग्रहणमनुवर्ततेऽन्यथा चानुकृष्टमुत्तरत्र च नानुवर्तते "वा गौ" इत्यत्र सामर्थ्यानुवृत्तिन स्यात्, अनुक्तसमुच्चयार्थस्तहि क्वचिदन्यस्यापि प्रयोगे यथा स्यात् । सक्तूनां पूर्णः । श्रोदनस्य तृप्तः । सामर्थ्य इत्येव । साधून् दीव्यति ।
वा गौ ॥१४॥६६॥ सामर्थ्य इति वर्तते । गिपूर्वस्य दिवः कर्मणि वा ता विभक्ती भवति । शतस्य प्रदी' व्यति । शतं प्रदी व्यति । सहस्रस्य प्रदी व्यति । सहस्र प्रदीव्यति । इयं पूर्वण प्राप्ते विभाषा । ननु शेषविवनया तापि भविष्यति इति व्यर्थमिदम् । एवं तहिं इदमेव ज्ञापकमगिपूर्वस्य शेषविवक्षा नास्ति इति । शतस्य दीव्यति । सामर्थ्य इत्येव । शलाका प्रतिदीव्यति ।
कालेऽधिकरणे सुजणे ॥१।४।६७॥ कालेऽधिकरणे ता विभक्ती भवति सुजथे त्ये प्रयुक्ते । द्विरहोऽधीते । त्रिरह्नोऽधीते । पञ्चकृत्वोऽह्नो भुङ्क्ते । “संख्याया ध्वभ्यावृत्तौ कृत्वस्' २४ा इति कृत्वस् । द्वित्रिचतुभ्यः सुच्" [२।२५] इति सुच् । काल इति किम् ? द्विः कांसपात्र्यां भुंक्ते । अधिकरण इति किम् ? द्विरह्नो भुङ्क्ते । सुजर्थ इति किम ? अहनि भुङ्क्ते । रात्रौ भुङ्क्ते । नन्यत्रापि द्विः त्रिवेति सुजों गम्यते ? प्रयुक्तग्रहणं दूरादनुवर्तते तेन गम्यमाने सुजथे न भवति । शेष इत्येव । द्विरयधीते ।
कर्तृकर्मणोः कृति ॥१४॥६८॥ कृति प्रयुक्ते कर्तरि कर्मणि च ता विभक्ती भवति । अनुक्त इति वर्तते । भवत श्रासिका । भवतः शायिका । स्त्रीलिङ्गे भावे "पर्यायाहत्पत्तौ चुण्" [२।३।१२] इति वुण ।
१. चोरस्य निप्रहन्ति इति व. पुस्तके नास्ति । २. व्यवहपणेः समा-श्र० । ३.-प्रतिदीन्यति ब० । १. .।
For Private And Personal Use Only