________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० १ पा० ४ सू० ५४-६१ ]
महावृत्तिसहितम्
७३
,,
मिका वः ||१|४|५४ || मिङन्तेन पदेन एकार्थे वर्तमानान्मृदो वा विभक्तो भवति । गौश्वरति । कुमारी तिष्ठति । दनः पच्यते । खारी मीयते । एकः । द्वौ । बहवः । इत्यत्रोक्तेष्वप्येकत्वादिषु वा भवतीत्युक्तप्रायम् । च वा ह उच्चैरित्येवमादिषु अनर्थकेषु च प्रादिषु मिङन्तेनैकार्थत्वाभावेऽपि "सुपो झे:” [१|४| १५०] इति ज्ञापकाद्भवति । भावे वर्तमानेन मिङन्तेन स्वभावादन्येनैकार्थत्वं नास्ति । श्रास्यते देवदत्तेन । नन्वेकत्वादिविशिष्टेषु कर्मादिषु कर्मादिविशिष्टेषु वा एकत्वादिषु इवादिनां नियमात् परिशेषात् वृक्षः प्रक्ष इत्येवमादिषु वादिषु च “ङ चाम्मृदः " [३|१1१] इत्यनेनैव वायाः सिद्धत्वादनर्थकमिदम् १ नानर्थकम् । एकद्विबहुवचनानां व्यतिकरनिवृत्त्यर्थं वायास्तायाश्च विषयभेदार्थं चेदम् । विसर्जनोयो विभाषा सन्देहनिवृत्त्यर्थम् ।
सम्बोधने बोध्यम् ||५|४|५५|| सम्बोधनमभिमुखीकरणम् । सम्बोधने या वा तस्या बोध्यमित्येषा संज्ञा । सम्बोधनेऽपि मिङकार्थत्वमस्ति इति पूर्वेण वाविधानम् । हे देवदत्त श्रागच्छ । हे देवदत्तौ । हे देवदत्ताः । हे पचन् । हे पचमान । “सम्बोधने' [ २/२/१०३] इति शतृशानौ । बोध्यसंज्ञाप्रयोजनम् "बोध्यमसहूत्" [१।३।२४] इत्येवमादि ।
एकः क्रिः ||९|४|५६ || बोध्यसंज्ञायां वाया एकवचनं किसंज्ञं भवति । हे कन्ये । हे वटो । किप्रदेशाः “केरेङ : " [ ४ | ३ |२७ ] इत्येवमादयः ।
ता शेषे || १४|५७ ॥ कर्मादिकारकाणां विवक्षा कर्मादिभ्योऽन्यो वा मृदर्थातिरेकः स्वस्वामिसंबन्धादिः शेषः । ता विभक्तो भवति शेषे अर्थविशेषे । नटस्य शृणोति । ग्रन्थिकस्य शृणोति । स्वस्वामिसम्बन्धसमीपसमूहविकारावयवस्थानादयस्तार्थाः । राज्ञः स्वम् । मद्राणां राजा । देवदत्तस्य समीपम् । यवानां राशिः । यवानां धानाः । देवदत्तस्य हस्तः । गोः स्थानम् । शेषग्रहणं किम् ? इबादयो नियताः कर्मादयस्त्वनियतास्तेभ्यस्ता मा भूत् ।
शोsस्वार्थे करणे ॥ १४॥ ८ ॥ स्वार्थोऽवबोधनं तत्पर्युदस्यतो जाना तेरस्वार्थे वर्तमानस्य करणे ताविभक्ती भवति । सर्पिषो जानीते । पयसो जानीते । सर्पिषा करणभूतेन श्रवेक्षते प्रवर्तते वा इत्यर्थः । "ज्ञोऽपह्नवेः” [ १/२/४ ] इति दविधिः । करणस्य शेषत्वविवक्षायामविवक्षायां च तैव भवति । श्रस्वार्थ इति किम् ? स्वरेण पुत्रं जानाति ।
दशां कर्मणि ॥ १|४|५६ ॥ शेष इति वर्तते । स्मृ इत्यनेन समानार्थानां धूनां दय ईश इत्येतयोश्च कर्मणि षत्वेन विवक्षिते ता विभक्ती भवति । मातुः स्मरति । पितुरध्येति । सर्पिषो दयते । सर्पिष ईष्टे । कर्मणीति किम् ? मातुर्गुणैः स्मरति । शेष इत्येव । मातरं स्मरति । यद्येवं नार्थोऽनेन "ता शेषे " [१/४/२७ ] इत्येव सिद्धम् । लादेशे "न झि” [ १ । ४।७२ ] इति प्रतिषेधोऽपि "कर्तृकर्मणोः कृति" [१|४| ६८ ] इत्येतस्याः प्राप्तेरनन्तरत्वात् । नापि " प्रतिपदम्" इति सविधिप्रतिषेधार्थम् । नेयं प्रतिपदविधाना ता । वृत्तिरपि दृश्यते । श्रर्थानुस्मरणं धर्मानुचिन्तनम् । एवं तहिं कर्मणः शेषलेन विक्षितत्वादकर्मकत्वोपपत्तेर्लव्यक्तखार्थाः भावे सिद्धा भवन्ति । मातुः स्मर्यते । मातुः स्मर्तव्यम् । सकर्मकविवक्षायां कर्मणि भवन्ति । माता स्मयंते । माता स्मर्तव्या ।
प्रतियत्ने कृञः || १|४|६० ॥ करोतेः कर्मणि ताविभक्ती भवति प्रतियत्ने गम्यमाने । श्रसतोऽर्थस्य प्रादुर्भावाय सतो गुणान्तराधानाय समीहा प्रतियत्नः । एधो दकस्योपस्कुरुते । काण्डं गुणस्योपस्कुरुते । “गन्धनावक्षेप" [१२/२७] श्रादिना दः । प्रतियन इति किम् ? कटं करोति बुद्धया । शेष इत्येव । एधो दकमुपस्कुरते ।
रुजर्थस्य भाववाचिनोऽज्वरिसन्ताप्योः ॥ १|४|६१ ॥ रुजर्थानां धूनां भावकर्तृकाणां कर्मणि ताविभक्ती भवति ज्वरिसन्तापी वर्जयित्वा । चोरस्य रुजति रोगः । रुजर्थस्येति किम् ? एति जीवन्तमानन्दः । १. रोग: । वृषलस्यामयति रोगः । रुज - अ०, ब०, स०
१०
For Private And Personal Use Only