________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम्
[अ० १ पा० ४ सू० ४७-५३
स्वामोश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च ॥१॥४॥४७॥ खामिन् ईश्वर अधिपति दायाद साक्षिन् प्रतिभू प्रसूत इत्येतैर्युक्ते तेपौ विभक्त्यौ भवतः । गवां स्वामी । गोषु स्वामी। गवामीश्वरः । गोष्वीश्वरः । गवामधिपतिः । गोष्वधिपतिः । दायमादत्ते दायादः । “प्रे" [२।२।४] इति नियमादन्यस्मिन् गावप्राप्ते के अत एव निपातनात् कः । गवां दायादः । गोषु दायादः । गवां सादी। गोषु साक्षी। गवां प्रतिभूः ।
प्रतिभूः । गवां प्रसूतः । गोबु प्रसूतः। चकारः किमर्थः ? तेपोरनु वर्तनाथः। अन्यथा पूर्वत्र चानुकृष्टाया ईपोऽनुवृत्तिर्न स्यात् । उत्तरसूत्रयोरपि चकारस्येदमेव फलम् । प्रसूतयोगे ईवेव प्राप्ता इतरोगे ता प्राप्ता ।
कुशलायुक्त न चासेवायाम् ॥२४॥४८॥ श्रासेवा मुहुर्मुहुः सेवा तात्पर्य च' । कुशल श्रायुक्त इत्येताभ्यां युक्त श्रासेवायां गम्यमानायां तेपो विभत्त्यौ भवतः । कुशलो विद्याग्रहणस्य । कुशलो विद्याग्रहणे । अायुक्तस्तपश्चरणस्य श्रायुक्तस्तपश्चरणे। अासेवायामिति किम् ? अायुक्तो गौः शकटे। अाकृष्य यु इत्यर्थः। अधिकरणलक्षणेयमीप् ।
यतश्च निर्धारणम् ॥११॥४६॥ जातिगुणक्रियाभिः समुदायादेकदेशस्य पृथक्करणं निर्धारणम् । यतश्च निर्धारणं ततस्तेपी विभक्त यो भवतः । मनुष्याणां क्षत्रियः शूरतमः । मनुष्येषु क्षत्रियः शूरतमः । नारीणां श्यामा दर्शनीयतमा । नारीषु श्यामा दर्शनीयतमा । अध्वगानां धावन्तः शीघ्रतमाः । अध्वगेषु धावन्तः शीघ्रतमाः। प्रपञ्चार्थमिदं समुदाये अवयवोऽन्तर्भूतः । अधिकरणविवक्षायामीप सिद्धा अवयवसम्बन्धविवक्षायां तापि सिद्धा अत एवापादाने कापि भवति । गोभ्यः कृष्णा निर्धार्यते इति ।
विभक्त का ॥१४॥५०॥ यतश्च निर्धारणमिति वर्तते । भिन्नजातीयात् समुदायाद्गणादिना पृथक्करणं विभक्रनिर्धारणं तत्र का विभक्ती भवति । पूर्वेण तेपोः प्राप्तयोरयमपवादः। माथराः पाटलिपत्रकेभ्य शाट्यतराः । दर्शनीयतराः। अयमस्मादधिकः । अयममाद्विलक्षणः । इदमपि प्रपञ्चार्थम् | पाटलिपुत्रकाणामवधिभावेन बुद्धि प्राप्तानामपादानत्वमस्ति ।
साधुनिपुणेनाचार्यामीवप्रतेः ॥१४॥५१॥ साधु निपुण इत्येताभ्यां युक्त अर्चायां गम्यमानायामीविभक्री भवति प्रतिशब्दस्याप्रयोगे । मातरि साधुः । पितरि साधुः । भ्रातरि निपुणः । पितरि निपुणः । तापवादोऽयम । अचीयामिति किम् ? साधुनिपुणो वाऽमात्यो राज्ञः। अप्रतेरिति किम् ? साधुर्देवदत्तो मातरं प्रति । प्रतिग्रहणमगितिसंज्ञानामभिपयन्तानामुपलक्षणम्। मातरमभि। मातरं परि। मातरमनु । कथमसाधुः पितरि । अनिपुणो मातरि । पूजापयुक्तसाधुनिपुणप्रतिषेधोऽयम् । असमर्थस्यापि नत्रः सविधिरस्ति ।
प्रसितोत्सुकाभ्यां भा च ॥१४॥५२॥ प्रसित उत्सुक इत्येताभ्यां युक्त भाविभक्ती भवति । ईप च । केशैः प्रसितः । केशेषु प्रसितः। प्रसक्त इत्यर्थः । केशैरुत्सुकः । केशेषूत्सुकः । पक्षे भार्थमिदम् । ईबधि त्वादेव सिद्धा।
उसि भे ।।१।४।५३॥ ईबनुवर्तते भा च । उस्विषये भवाचिनि भेपो विभक्त्यौ भवतः। "भायु क्तः कालः', [३।२।४] इत्यागतस्याणः “उसभेदे" [ ३।२।५ ] इत्युसि कृते यदा भवाची शब्दः काले वर्तते तदा तस्माद्भा च ईप् च भवत इत्यर्थः । पुष्येण पायसमश्नीयात् । पुष्ये पायसमश्नीयात् । मघाभिः पललौदनम् । मघासु पललौदनम् । इसीति किम् ? मघासु ग्रहः । नात्र मघाशब्दः काले वर्तते । भ इति किम्? पञ्चालेषु वसति । पञ्चालस्यापत्यानि पञ्चालाः तेषां निवासः पञ्चालः। निवासार्थे आगतस्याणः "जनपद उस्" [शश६१ ] इत्युस् । इह कस्मान भवति १ अद्य पुष्यः । मिडेकार्थत्वात् । चानुकृष्टाया ईपः कथमनुवृत्तिः ।
अत्राधिकरणत्वादीप सिद्धा पक्षे भार्थं वचनम् । यद्यधिकरणस्यापि करणविवक्षा यथा स्थाल्या पचति तदेदं प्रपञ्चार्थम् ।
.. वा अ०, ब०, स०।२, निर्धायन्ते म०, ब०, स.।
बधिकारे सूत्रारम्भसाम
For Private And Personal Use Only