________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० १ पा० ४ सू० ४०-४६]
महावृत्तिसहितम्
७१
इबेनेन॥४॥४०॥ इब्विभक्ती भवति एनेन योगे। दक्षिणेन विजया वसति । "दक्षिणोत्तरा धरादात्" [१८] इत्यधिकृत्य । "नोऽदरेऽकायाः" [1१1१६] इति अस्तादर्थे एन इत्ययं त्यः । पूर्वसूत्रे नेति योगविभागादनेन योगे तापि भवति इति केचित् । दक्षिणेन ग्रामस्य । उत्तरेण ग्रामस्य ।
पृथग्विनानानाभिर्भा वा ॥ १।४।४१ ॥ पृथग्विना नाना इत्येतैर्युक्त वा भाविभक्ती भवति । प्रथग्देवदत्तेन । पृथग्देवदत्तात् । विना देवदत्तेन । विना देवदत्तात् । नाना देवदत्तेन । नाना देवदत्तात । पने अन्यार्थलात कापि भवति । अथ पृथगादयोऽसहायार्थे वर्तन्ते नान्यार्थे । एवं तहधिकारात का एष्टव्या । त्रयाणां ग्रहणं पर्यायनिवृत्त्यर्थम् । हिरुग्देवदत्तस्य । "करणे स्तोकाल्पकृच्छकतिपयेभ्योऽसत्ववचनेभ्यो भाके वकव्ये" [वा.1स्तोकेन मुक्तः। स्तोकान्मुक्तः । अल्पेन मुक्तः। अल्पान्मुक्तः । कृच्छेण मुक्तः । कृच्छान्मुक्तः। कतिपयन मुक्तः। कतिपयान्मुक्तः । असत्त्ववचनेभ्य इति किम् ? स्तोकेन विषेण हतः । नेदं चक्रव्यम । विवक्षातः कारकाणि भवन्ति इत्युभयं सिद्धम् । "क्रियाविशेषणविवक्षायां भाके न भवतःवा . स्तो चलति । अल्पं जल्पति ।
दूरान्तिकार्थस्ता च ॥१॥४२॥ केति वर्तते। दूराथै रन्तिकार्थश्च युक्त ताविभक्ती भवति का च । दूरं ग्रामस्य । दूरं ग्रामात् । विप्रकृष्टं ग्रामस्य । विप्रकृष्टेन ग्रामात् । अन्तिकं ग्रामस्य । अन्तिक ग्रामात् । अभ्यास ग्रामस्य । अभ्यासं ग्रामात् ।
तेभ्य इप् च ॥१४॥४३॥ तेभ्यो दूरान्तिकार्थेभ्य इब्विभक्ती भवति का च । दूरं ग्रामस्य । दाद ग्रामस्य । विप्रकृष्ट ग्रामस्य । विप्रकृष्टाद् ग्रामस्य । अन्तिकं ग्रामस्य । अन्तिकाद् ग्रामस्य । समीपं ग्रामस्य । समीपाद् ग्रामस्य । काऽनुवर्तनादेव सिद्धा। चकारोऽनुक्लसमुच्चयार्थः । तेन भापि भवति । दुरेण ग्रामस्य । अन्तिकेन ग्रामस्य । असत्त्ववचनेभ्य इति वक्तव्यम् । इह मा भूत् । दूरात् पथ अागतः । दूरस्य पथः शम्बलम् । अन्तिका ग्रामाः। यद्यसत्त्ववचनेभ्य इत्युच्यते इविधानमनर्थकम् । लिङ्गमशिष्यं लोकाश्रयत्वात् । नपुंसके सोरम्भावेन सिद्धम् । इदं प्रयोजनं "सपूर्वाया वायाः' [५।३।२३] इत्येष विकल्पो मा भूत् । ग्रामो दूरं त्वा पश्यति । ग्रामो दूरं मा पश्यति ।
ईबधिकरणे च ॥१॥४४४॥ ईविभक्ती भवति अधिकरणे कारके दूरान्तिकार्थभ्यश्च । कटे प्रास्ते । शयने शेते। दूरान्तिकार्थेभ्यः । दूरे ग्रामस्य । विप्रकृष्टे ग्रामस्य । अन्ति के ग्रामस्य | समीपे ग्रामस्य । "क्तस्येविषयस्य कर्मणीब वक्तव्या" [वा० ] अधीती व्याकरणे। अघीतमनेन व्याकरणमित्यस्मिन्नर्थ "इष्टादेः" [ २२], इत्तीन् । एवमाम्नाती छन्दसि । परिगणितो ज्योतिषि । “निमित्तात् कर्मसंयोगे ईब वक्तव्या" [वा०] 'चर्मणि दीपिनं हन्ति दन्तयोहन्ति कुञ्जरम् । केशेषु चमरी हन्ति सीम्नि पुष्कलको हतः ॥" नेदं बहु वक्तव्यम् । ईबिति योगविभागात् सिद्धम् ।
यद्भावाद्भावगतिः ॥२४॥४५॥ भावः क्रिया । ईबिति वर्तते । यस्य भावाद्भावान्तरगतिर्भवति तत्र ईबू भवति । गोषु दुह्यमानासु गतः। दुग्धास्वागतः । अत्र प्रसिद्धन गोदोहनभावन गमनक्रिया लक्ष्यते । एवं देवाचनायां क्रियमाणायां गतः। कृतायामागतः । इदं बदरमात्रेष्वाम्रषु गतः पक्केष्वागतः। सामर्थ्याजातेष्विति प्रतीयते । यद्भावादिति किम् ? यो जटाभिः स भुङ्क्ते । जटा द्रव्यम् । पुनर्भावग्रहणं किम् ? यो भुक्तवान् स देवदत्तः ।
ता चाऽनादरे ॥१॥४॥४६॥ अनादरोऽवज्ञा। यद्भावाद् भावान्तरगतिर्भवति तत्र ताविभक्तौ भवति ईप चानादरे गम्यमाने । देवदत्तस्य क्रोशतः प्राबाजीत् । देवदत्ते क्रोशति प्राबाजीत् । रुदतः प्राबाजीत् । रुदति प्राब्राजीत् । अत्रावज्ञानेन क्रोशनेन प्रव्रजनभावो लक्ष्यते ।
१. द्रष्टयाम २."प्रामो दुरं मा पश्यति" इति ब. पुस्तके मास्ति ।
For Private And Personal Use Only