________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम्
[अ० १ पा० ४ सू० ३५-३६
पारिख्यात्य न मुक्तः । गुण इति किम् ? धनेन कुलम् । अस्त्रियामिति किम् ? बुद्धया मुक्तः ।
ता हेतौ ॥१४॥३५॥ हेताविति शब्दनिर्देशोऽयं हेत्वर्थस्य तु प्रकृतत्वात् । हेतुशब्दे प्रयुक्त हेव ता भवति । अन्नस्य हेतोर्वसति । अध्ययनस्य हेतोर्वसति । भिक्षाया हेतोसति । हेतुशब्दोऽपि हेलर्थे वर्तते । तस्मादपि ता । सामानाधिकरण्याद्वा ।
सर्वनाम्नो भा च ॥१॥४॥३६॥ हेतुशब्दे प्रयुक्त सर्वनाम्नो भाविभक्ती ता च । केन हेतुना वसति । कस्य हेतोर्वसति । येन हेतुना वसति । यस्य हेतोर्वसति । पूर्वेण तायामेव प्राप्तायामयमारम्भः। अथवा चकारोऽनुक्तसमुच्चयार्थः । तेन निमित्तकारणप्रयोजनहेतु प्रयुक्तेषु सर्वासां प्रायो दर्शनमित्येतल्लन्धम् । किं निमित्त वसति । केन निमित्तेन वसति | कस्मै निमित्ताय वसति। कस्मानिमित्तात् । कस्य निमित्तस्य । कस्मिन्निमित्ते वसति । एवं कारण प्रयोजनहेतुपूदाहार्यम् । प्रायोग्रहणादिम्न भवति ।
काऽपादाने ॥रा४३७॥ अपादाने कारके काविभक्ती भवति । ग्रामादागच्छति। प्राचार्यादधीते । रथात् पतितः । केति योगविभागादन्यत्राऽपि भवतीति । तेनेदं बह वक्तव्यं न भवति । "प्यखे कर्मणि कावक्तव्या" [वा०] प्रासादमारुह्य प्रेक्षते । प्रासादात् प्रेक्षते । प्रासादाच्छृणोति। "अधिकरणे प्यखे का वक्तव्या" [वा-श्रासने उपविश्य प्रक्षने । अासनात प्रेक्षते । शयनात प्रेक्षते । "प्रश्नाख्यानयोश्च का वक्तव्या"
.] कि देवदत्तो व्याकरणात् कथयति ? आख्याने-व्याकरणात् कथयति । "यतश्चाध्यकालपरिच्छेदस्ततः का वक्तव्या' [वा.] गवेधुमतः साङ्कास्यं चत्वारि योजनानि । कार्तिक्या प्राग्रहायणी मासे । "कायुक्तात परादध्वनो वा वेप् च वक्तधे' [ वा० ] गवेवुमतः साकाश्यं चत्वारि योजनानि, चतुर्पु योजनेषु । )
दिक्छब्दाऽन्यारादितरतश्चध्वाहियुक्त ॥१४॥३८॥ दिक्छब्द अन्य पारात् इतर ऋते अञ्च धुश्रा आहि इत्येतैर्युक्त काविभक्ती भवति । दिक्छब्द-इयमस्याः पूर्वा । इयमस्या उत्तरा । शब्दग्रहणं किम् ? दिशि दृष्टो यः शब्दो देशकाल वृत्तिनाऽपि तेन योगे यथा स्यात् । पूर्वो प्रामात् । उत्तरों ग्रामात् । पूर्वो ग्रीष्माद्वसन्तः । अन्यदित्यर्थग्रहणम् । अन्यो देवदत्तात् । व्यतिरिक्तो देवदत्तात् । भिन्नो देवदत्तात् । अर्थान्तरं देवदत्तात् जिनदत्तः । देवदत्ते मृदातिरेकात् तायां प्राप्तायां का विधीयते । श्राराचशब्दो झिसंज्ञको दूरेऽन्तिके च वर्तते तद्योगे "दूरान्तिकार्थस्ता च १६४।४२] इति अस्मिन् प्राप्ते काविधिः । श्राराद् गृहात् क्षेत्रम् । श्रारादेवदत्तात् पीठम् | इतरो निर्दिश्यमानप्रतियोग्यर्थः । इतरो देवदत्तात् । ते इति झिसञ्ज्ञ पदम् । ऋते धर्मात् कुतः सुखम् । अञ्च द्य। प्राग्ग्रामात् । प्राची दिग्रमणीया। इत्येवमाद्यर्थे आगतस्य अस्तातः "अञ्चेरुप" [४।१।६६] इत्युप् । अस्य दिक्छब्दत्वेऽपि "ताऽतसर्थ त्येन"[१॥४॥३६] इति ता प्राप्ता तदपवादोऽयम् । श्रा दक्षिणा ग्रामात् । उत्तरा ग्रामात् । आहि । दक्षिणाहि ग्रामात् । उत्तराहि ग्रामात् । अस्तादर्थे “दक्षिणादा [।१।१०.] 'प्राहि च दूरे" [४।१।१०१] "उत्तराच्च [॥१॥१०२] इति अाभा.ित्यौ । अत्रापि "ताs तसर्थे त्येन [१४३६] इति ता प्राप्ता। "अवयवयोगे प्रतिषेधो वक्तव्यः' [ वा० ] पूर्वाञ्छात्राणामामन्त्रयस्व ।
ताऽतसर्थे त्येन ॥रा॥३६ ॥ वक्ष्यति दक्षिणोत्तराभ्यामतत् । तत्समानार्थेन त्येन युक्त ता विभक्ती भवति । दक्षिणतो ग्रामस्य । उत्तरतो ग्रामस्य । उपरि ग्रामस्य । उपरिष्टाद ग्रामस्य । उपर्युपरिष्टात्पश्चादिति अतसर्थे निपातितौ। पुरो ग्रामस्य । पुरस्ताद् ग्रामस्य । “पूर्वावराधराणां पुरवधोऽसि" [ ४।१।१०३] "अस्ताति' [ ४११।१०४ ] इति च पुरादेशः।
१. “गवेधुमतः' इत्यारभ्य "गवेधुमतः' इत्यतःपूर्घम् प० पुस्तके नास्ति । २. पूर्वे ग्रामात् 4.। ३. उत्तरे ग्रामात् प० ।
For Private And Personal Use Only