________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ..पा. १ सू० २८-३४]
महावृत्तिसहितम्
६१
धिकगुणं मन्ये । प्रशंसेयम् । उभयग्रहणं किम् ? अश्मानं दृषदं मन्ये । स्वरूपकथनमेतत् । मन्यग्रहणं किम् ? न त्वा तणं चिन्तयामि। विकरणनिर्देशः किम ? न त्वा तणं मन्ये । अजीव इति किम ? न त्वा श्वानं मन्ये । न त्वा शृगालं मन्ये। अगहवाचित्वाद युष्मदस्मदादेरविभक्ती न भवति ।
__ संज्ञो भा ॥१४॥२८॥ कर्मणीति वर्तते । संपूर्वस्य जानातेः कर्मणि भा भवति । मात्रा संजानीते। मातरं संजानीते । पित्रा संजानीते । पितरं संजानीते । “संप्रतेरस्मृतौ
इति दः। वेति व्यवस्थितविभाषाऽनुवर्तते । तेन दविषये भाविकल्पः। स्मृत्यर्थे मविधिः। तत्र मातुः संजानाति । मातरं संजानाति । "स्म्रदर्थदयेशा कर्मणि" [
१ ६] इत्यत्र ताविकल्पं वक्ष्यति । कृत्प्रयोगे परत्यात् "कतृ कर्मणोः कृति" [॥४॥६८] इति तैव भवति । मातुः संज्ञाता ।
ककरणे भा ॥१४ा२६॥ कर्तरि करणे च कारके भाविभक्ती भवति । देवदत्तेन भुक्तम् । जिनदत्तेन भुक्तम् । करणे-दात्रेण लुनाति । भेति वर्तमाने पुनर्भाग्रहणं किम् ? प्रकृत्यादिभ्यो यथा स्यात् । प्रकृत्याऽभिरूपः । प्रकृत्या दर्शनीयः। प्रायेण वैयाकरणः। काश्यपोऽस्ति गोत्रण | समेन धावति । विषमेण धावति । द्विद्रोणेन धान्यं क्रोणाति । पञ्चकेन पशून् क्रोणाति । सहस्रण अश्वान् क्रोणाति ।
सहार्थेन ॥१॥४॥३०॥ योग इति मण्डूकप्लुत्याऽनुवर्तते । सहशब्दार्थेन योगे भाविभक्ती भवति । प्रधानस्य मृदातिरेकाभावादप्रधाने भवति । पुत्रेण सहागतः । पुत्रेण सह पिङ्गलः । पुत्रेण सह धनवान् । अत्र प्रधानाप्रधानयोः क्रियागुणद्रव्यसम्बन्धे सति सहयोगः । अर्थग्रहणं किम् ? पुत्रेण सार्द्धमागतः । पुत्रेण समम् । पुत्रेण साकम् । पुत्रेणामा । "तस्य द्रोणस्य संग्रामः सारणेन गदेन च । युगपत् कोपकामाभ्यां मनीषिरण इवाभवत्" । विनाऽपि सहशब्देन तदर्थसंप्रत्ययमात्रे च भवति । “अन्त्येनेताऽदिः" [२॥११७३] अन्त्येन सह आदिरित्यर्थः । योग इत्येव । शिष्येण सहोपाध्यायस्य गोः। पुत्रेण सह स्थूलो ग्रामे । उपाध्यायशब्दस्य ग्रामशब्दस्य च नास्ति सहशब्देन योगः।
येनाङ्गिविकारत्थम्भावो ॥१।४।३१॥ अङ्गिविकारः शरीरविकृतत्वम् । अनेन प्रकारेण भवनमित्यंभावः । क्वचिदेव छात्रादौ प्रकारे वृत्तिरित्यर्थः । येनाङ्गिनो विकार इत्थम्भावश्च लक्ष्यते ततो भाविभक्ती भवति । अक्षणा काणः। पाणिना कुणिः। पादेन खञ्जः । इत्थम्भावेऽपि-भवान् कमण्डलुना छात्रमद्राक्षीत् । चलया परिव्राजकमद्राक्षीत् । सहार्थनेत्यस्याविवक्षायामिदं द्रष्टव्यम् । अङ्गिविकारेत्थम्भावाविति किम ? अति काणमस्य । वृक्ष प्रति विद्योतते ।
हतौ ॥१४॥३२॥ हेतावित्यर्थनिर्देशः। हेतावर्थे भा [च ] भवति तद्वाचिनः। अन्नेन वसति । धनेन कुलम् । विद्यया यशः । इह लौकिकफलसाधनयोग्यः पदार्थों हेतु ह्यते । "तद्योजको हेतुः'' [१।२।१२६] इत्यस्य पारिभाषिकस्य प्रयोगे सिद्धव भा। उत्तरसूत्रे लविशेषेण हेतोहणं द्रष्टव्यम् ।।
कर्णेऽकर्तरि ॥१॥४।३३।। हेताविति वर्तते । कर्तृवर्जिते ऋणे हेतौ काविभक्ती भवति । भापवादोऽयम् । शतादद्धः। सहसावद्धः। उत्तमोऽत्र कर्ता । अकर्तरीति किम् ? बदस्त्वया देवदत्तः। नाऽहं बध्नामि । शतं मे धारयति । शतेन बद्धः । बन्धितस्त्वया देवदत्तः । नाऽहं बन्धयामि । शतं मे धारयति । रातेन बन्धितः । कथं देवदत्तेन शतेन बन्धितः। एकस्य हेतुकर्तृत्वमपरस्य प्रयोज्यकर्तृत्वमित्य दोषः। केति योगविभागः । तेन हेतौ काऽपि भवति । कृतकखादनित्यः । अनुपलब्धेर्नास्तीति ।
( गुणे श्रीदत्तस्याऽस्त्रियाम् ।।१।४।३४॥ हेताविति वर्तते । अस्त्रीलिङ्ग गुणे हेतौ श्रीदत्तस्याचायस्य मतन काविभक्ती भवति । अन्येषां मतेन हेताविति भा। जाड्याद्वद्धः । जाड्येन बद्धः । पारिख्यात्यान्मुक्तः ।
१. स्वां मु०। २. त्वा मु०। ३. कृतम् अ०, ब०, स०। ४. -मन्यस्य अ०, ब०, स० । ५."-मिति न दोषः" अ०स०।
For Private And Personal Use Only