________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८
जैनेन्द्र-व्याकरणम् [अ० १ पा० ४ सू संप्रदानेऽप ॥१४२३॥ संप्रदाने कारके अब्विभक्ती भवति । त्रिपृष्ठाय स्वयंप्रभामदात् । क्रिययाऽपि कर्मभूतया यदाप्यते तदपि संप्रदानमुक्तम् । देवदत्ताय रोचते । पत्ये शेते। श्वभ्यो वर्षति । भित्तुकेभ्यो वर्षति । तदर्थेन सविधिवचनं ज्ञापकं तादर्थेऽबू भवतीति। रथाय दारु । रन्धनाय स्थाली । अवहननायोलूखलम् ।
ध्वर्थवाचः कर्मणि स्थानिनः ॥१४॥२४॥ ध्वर्थः क्रिया । ध्वों वागस्य स ध्वर्थवाक् । तस्य स्थानिनोऽप्रयुज्यमानस्य धोः कर्मणि कारके अविभक्ती भवति । यत्र यस्यार्थः प्रयोगमन्तरेण प्रतीयते स तत्र स्थानी। एधेभ्यो व्रजति । अत्र अाहत्तु मित्येतत्तु मन्तं पदं स्थानि । तदेव च ध्वर्थवाक । कर्मणीपोऽपवादोऽयम् । तादयेन सिद्धमिति चेत् स्थानिनो यथा स्यात् प्रयुज्यमानस्य मा भूत् इत्येवमर्थमिदम् । ध्वर्थवाच इति किम् ? प्रविश पिण्डीम् । प्रविश तर्पणम् । अस्त्यत्र भक्षय सिञ्चेति च स्थानी न तु ध्वर्थवाक । कर्मणीति किम् ? एधेभ्यो व्रजति शकटेन । स्थानिन इति किम् ? एधानाहर्तुं व्रजति ।
तुमर्थाद्भावे ॥१४॥२५॥ तुमा समानाऽर्थस्तुमर्थः। तुमर्था भावे वर्तमानो यस्त्यस्तदन्तान्मृदोऽब् भवति । "वुण्तुमौ कियायाँ तदर्धायाम्" [२।३।८] इति वर्तमाने भावे "भाववाचिनः" [२।३।१] इति वक्ष्यति तेषां घनादीनामिह ग्रहणम् । पाकाय व्रजति । मतये व्रजति । पुष्टये व्रजति । अत्र तदर्थायां क्रियायां त्यस्य विधानात् तादर्थं तेनैवोक्तमिति तादर्थे अबू न प्राप्नोति । तुमर्थादिति किम् ? पाकः । त्यागः । भाव इति किम् ? कारको व्रजति ।
नमःस्वस्तिस्वाहास्वधालंवषड्योगे ॥१४॥२६॥ नमस् स्वस्ति स्वाहा स्वधा अलं वषट् इत्येतैयोंगे अविभक्ती भवति । नमो देवेभ्यः। स्वस्ति प्रजाभ्यः । श्राशीविवक्षायां कुशलाथै योगे ताडपो प्राप्त ताभ्यां पूर्वनिर्णयेनायमेव नित्यो विधिः । स्वस्त्यस्तु गोभ्यः। स्वरित प्रजाभ्यो भूयात् । स्वाहा इन्द्राय । स्वाहा अग्नये। स्वधा पितृभ्यः । अलं मल्लो मल्लाय । अलमिति पर्याप्त्यर्थानां ग्रहणम् । “तस्मै प्रभवति" [ ३ ५] इति निर्देशात् । प्रभुर्मल्लो मल्लाय । समर्थो मल्लो मल्लाय। अन्यत्राऽपि कस्मान्न भवतीति ? कन्यामलङ्क रुते । अलं रोदनेन । "वाग्विभक्नेः कारकविभक्ती' बलीयसी" इति कर्मणीप् | करणे च भा भवति । वषडग्नये। वडिन्द्राय । योगग्रहणं किम् ? नमो जिनानामायतनेभ्यः । ननु ड्याम्मृदः स्वादयो विदिताः। तदन्तविषयोऽयं नियमः पदविधिः। ततोऽसामर्थ्यादेव जिनशब्दान्न भविष्यति योगग्रहणमनर्थकम । अन्यैरपि योगे यथा स्यात् इत्येवमर्थम् । “हितशब्दयोगे उपसंख्यानम्" [वा०] अरोचकिने हितम् । "क्लुप्त्यर्थंधुप्रयोगेऽवक्तव्या" [वा०] मूत्राय प्रकल्पते यवागूः। भूत्राय संपद्यते । मूत्राय जायते । भिन्नविकारापत्तौ चेदं वक्तव्यम् । अभेदे मूत्र संपद्यते यवागूरिति वैव भवति । विकारग्रहणं किम् ? देवदत्तस्य संपद्यते यवागूः । मूत्र संपद्यते यवाग्वाः । “उत्पातेन ज्ञाप्यमानेऽवक्तव्या' [वा०] ।
(“वाताय कपिला विद्युदातपायातिलोहिनी । पीता वर्षाय विज्ञेया दुर्भिक्षाय भवेत्सिता ॥
तेनैतत् सर्व लब्धम् । प्रकृष्यगहें मन्यकर्मण्यजीवे वा ॥१॥४॥२७॥ प्रकृष्यगहोंऽतिशयतिरस्कारः। प्रकृष्यगहें गभ्ये मन्यतेः कर्मणि जीववर्जिते वा अविभक्ती भवति । न त्वा तृणं मन्ये । न त्वा तृणाय मन्ये । न त्वा बुसं मन्ये । न त्वा बुसाय मन्ये । प्रकृध्येति किम् ? काष्ठं त्वां मन्ये। लोष्ठं त्वा मन्ये । न त्वा नावं मन्ये । यावत्तीर्ण नाव्यम् । न त्वा अन्नं मन्ये । यावद भुक्तं श्राद्धम् । गह इति किम ? इन्द्रनीलात पद्मरागम
1.-क्तिबली-प्र०, ब., स.। .
For Private And Personal Use Only