________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० १ पा० ४ सू० १३-२२ ]
महावृत्तिसहितम्
नुस्थितः मातरं प्रति मातरं परि । लक्षणे-वृक्षमनुसिञ्चति प्रतिसिञ्चति परिसिञ्चति । वृतं प्रति विद्योतते। एतेष्विति किम् ? अोदनं परिषिञ्चति । अनुप्रतिपरिणति किम् ? यदत्र मामभिष्यात् । श्रभेर्भागे गितिसंज्ञा भवत्येव सगित्वात् सकर्मकत्व कर्मणीप षत्वं च भवति ।
हेतावनुना ॥१४॥१३॥ हेतावर्थे अनुना योगे इविभक्ती भवति गितिसंज्ञाप्रतिषेधश्च । जिनस्य ज्ञानोत्पत्तिमन्वागमन्सुराः । सुराणामागमनस्य जिनज्ञानोत्पत्तिहेतुः । एवं शान्ति चरितपट्टकप्रसारणमनु प्रावपन् पर्जन्यः ।) यदपि इत्थम्भूते लक्षणे वार्थेऽनुना योगे सिद्ध वेप तथापि येन नाप्राप्तन्यायेन शेषलक्षणायास्तायाः सोऽपवादः । हेत्वर्थे तु परत्वाद्भा प्रसज्येत तद्वाधनार्थमिदम् ।
भार्थे ॥१॥४॥१४|| भार्थः सहशब्दस्यार्थः। भार्थेऽनुना योगे इब् भवति गितिसंज्ञा प्रतिषेधश्च । नदीमन्ववसिता सेना । नदीमन्ववसिता नगरी । नद्या सह सम्बद्धेत्यर्थः । एवं पर्वतमन्व. वसिता सेना ।
___ हीने ॥१३॥१५॥ अनुनेति वर्तते। हीनार्थे द्योत्ये अनुना योगे इब् भवति गितिसंज्ञाप्रतिषेधश्च । उत्कृष्टापेक्षया हीनो भवतीति सामर्थ्यादुत्कृष्टादिप । अनु शालिभद्रमाढ्याः । अनु समन्तभद्रं तार्किकाः ।)
उपेन ।।१।४।१६।। हीनार्थे उपेन योगे इव् भवति न गितिसंज्ञा च । उपसिंहनन्दिनं कवयः । उपसिद्धसेनं वैयाकरणाः।
ईवधिके ॥१४॥१७॥ ईब्विभक्ती भवति अधिकार्थे द्योत्ये उपेन योगे। उप खार्या द्रोणः। उपनिष्के कार्षापणम् । यस्मादधिकं मृदातिरेकात्तत ईप ।
ईश्वरेऽधिना ॥४॥१८॥ ईश्वरशब्द ईश्वरेशितव्यसंबन्धमुपलक्षयति । ईश्वरे द्योत्ये अधिना योगे ईविभक्ती भवति न गितिसंज्ञा च । उत्तरसूत्राद्वेति विभाषाऽवलोकते । तत ईश्वरादीशितव्याच्च पर्यायेणेप् । अधि मेघेश्वरे कुरवः । अधि कुन्षु मेघेश्वरः। इह विभक्त्यर्थे हसः कस्मान्न भवति विभ कीशब्देन तत्र कारकं गृह्यते । ईश्वरेशितव्यसंबन्धश्चात्र न तु कारकम् ।
वा कृत्रधिः ॥१४॥२६॥ ईश्वर इति वर्तते । अधिशब्दः करोतौ वा गितिसंज्ञो भवति । तमधिकृत्य तमधिकृत्वा । ईश्वरं कृत्वेत्यर्थः । अत्र कर्मणीप् । पुनरधिग्रहणं गितिसंज्ञाप्रतिषेधार्थमेव न त्वीवर्थम् ।
काऽङा मर्यादावचने ॥१।४।२०॥ काविभक्ती भवति श्राडा योगे मर्यादावचने गितिसंज्ञाप्रतिपंधश्च । श्रा पाटलिपुत्रात् वृष्टो देवः । श्रा मथुरायाः। मर्यादायामिति सिद्धे वचनग्रहणमभिविधिसंग्रहार्थम् । श्रा कुमारेभ्यो यशः समन्तभद्रस्य । हैमर्यादावचन इति किम् ? ईषदर्थे क्रियायोगे च मा भूत् । आकडोरः । अाबद्धमाभरणम् ।
वजनेऽपपरिभ्याम् ॥१४॥२१॥ विवक्षितेनासंबन्धो वर्जनम् । वर्जनेऽर्थे अप परि इत्येताभ्यां योगे काविभक्ती भवति गितिसंज्ञाप्रतिषश्च । श्रप त्रिगतेभ्यो वृष्टो देवः । “परेवंजेने[१३] इति वा द्वित्वम् । परि परि त्रिगर्तेभ्यः। वर्जन इति किम् ? अोदनं परिषिञ्चति ।
यतः प्रतिदाप्रतिनिधी प्रतिना ॥१४॥२२॥ प्रतिदानं प्रतिदा प्रतिनिधीयत इति प्रतिनिधिः मुख्यस्य सदृशः। प्रतिना योगे यतः प्रतिदा यतश्च प्रतिनिधिस्ततः काविभक्ती भवति न गितिसंज्ञा च । प्रतिदायाम-माषानस्मै तिलेभ्यः प्रतियच्छति । तिलान् गृहीला माषान् ददातीत्यर्थ । एवं सर्पिषोऽस्मै तैलं प्रतिसिञ्चति । सर्पिषोऽस्मै तैलं प्रतिसिक्त्वा व्रजति-प्रतिनिधौ अर्ककोतिर्भरततः प्रति । अभयकुमारः श्रेणिकतः प्रति । प्रतियोगे "कायास्तसिः [स्तस् ]'' [४७३] इति तसिः ।
For Private And Personal Use Only