________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६
जैनेन्द्र-व्याकरणम्
[अ० १ पा० ४ सू० १-११
क्रोशं कुटिला नदी । योजनं दीर्घः पर्वतः । क्रियया - क्रोशमधीते । योजनमधीते । श्रविच्छेद इति किम् ? मासस्य द्विरधीते । क्रोशस्यैकदेशे पर्वतः ।
सिद्धौ भा ||१|४|५|| अविच्छेद इति वर्तते । सिद्धिः क्रियाफलनिष्पत्तिः । श्रविच्छेदे यो कालाध्वानौ तद्वाचिभ्यां भा भवति सिद्धौ गम्यमानायाम् मासेन प्राभृतमधीतम् । योजनेन प्राभृतमधीतम् । सिद्धाविति किम् ? मासमधीतं प्राभृतं न चानेनावधारितम्। नात्र क्रिया फलनिष्पत्तिरस्ति पूर्वेण इमेव भवति । क्रियामध्ये केपी || १ |४| ६ || कालाध्वनीति वर्तते । क्रिययोर्मध्ये यौ कालाध्वानौ ताभ्यां केपौ विभक्त्यौ भवतः । भुक्वा मुनिद्वाद्भोक्ता द्वय भोक्ता । इहस्थोऽयमिष्वासः क्रोशाद् विध्यति क्रोशे विध्यति चापाच्छरस्य निर्गमनं धानुष्कावस्थानं वा एका क्रिया द्वितीया व्यधनक्रिया तयोर्मध्ये कोशशब्दात्ता
1
लक्ष्यम्
प्राप्ता ।
पूजायां न गति ||१ |४| ७ || सुशब्दः पूजायामर्थं गिसंज्ञस्तिसंशश्च न भवति । सुस्थितं भवता । सुक्ति भवता | सिंज्ञाश्रयं षत्वं न भवति । तिसंज्ञाप्रतिषेधे यद्यपि तिसंज्ञाश्रयः सविधिर्न भवति, तथापि प्रादिलक्षणो भविष्यति । स्वती पूजायामिति वचनात् । सुसिच्य गतः । तस्मादुत्तरार्थं तिसंज्ञाप्रतिषेधवचनम् । पूजायामिति किम् ? सुषिक्तं किं तवाऽत्र ।
अतिक्रमे चातिः ||१||८|| अतिक्रम आधिक्यम् । अतिक्रमे पूजायाञ्चातिशब्दो गितिसंज्ञो न भवति । अतिसिक्कमेव भवता । तिस्तुतमेव भवता । गितिसंज्ञाश्रयः प्रादिलक्षणश्च सविधिर्न भवति । प्रतिक्तित्वैव गतः । पूजायाम् -- अतिरिक्त मतिस्तुतं भवता । स्वती पूजायामिति प्रादिलक्षणः सविधिः । प्रतिसिच्य गतः । “प्यस्तिवाक्से क्त्व : " [५।१।३१] इत्यत्र तिग्रहणमुपलक्षणं प्रादिसेऽपि प्यादेशः ।
पदार्थ संभावनाऽनुज्ञागहसमुच्चयेऽपिः || १ |४| ९ || अप्रयुज्यमानस्य पदस्यार्थः पदार्थः । संभावनं सामर्थ्याविष्करणम् । अनुज्ञा श्रभ्युपगमः । गर्दा निन्दा | एकत्रानेकस्य नियोजन समुच्चयः । एतेष्वर्थेष्वपिर्गितिसंज्ञो न भवति । पदार्थे - सर्पिषोऽपि स्यात् । पयसोऽपि स्यात् । बिन्दुः स्तोकं मात्रा चेत्यस्यार्थेऽपिशब्दः । सम्बन्धे च ता । संभावने - श्रपि सिञ्चेन्मूलकसहस्रम् । अपि स्तुयाद्राजानम् । अनुज्ञायाम् — अपि सिञ्च । अपि स्तुहि । अतिसर्गे लोट् । गर्हायाम् धिग् ब्राह्मणमपि सिञ्चेत्पलाण्डुम् । अपि स्तुयाद्वृषलम् | “अनवक्लृप्त्यमपै” [२|३|१२१] इति लिङ् । समुच्चये - अपि सिञ्च । अपि स्तुहि । सिञ्च च स्तुहि चैत्यर्थः । गिसंज्ञाश्रयं त्वादिकार्य न भवति ।
अधिपरी अनर्थको || १ |४|१०|| अनर्थका वनर्थान्तरवाचिनौ । अधि परि इत्येतौ नर्थको गितिसंज्ञौ न भवतः । कुतोऽध्यागतः । कुतः पर्यागतः । गितिसंज्ञाश्रयं सविधानं न भवति । "प्राग्घोस्ते” [ १/२/१४९ ] इति प्रयोगनियमश्च न भवति । इह च पर्यानामति गत्वं न भवति ।
वसेत्थम्भूतलक्षणेऽभिने || १|४|११ ॥ न गितिरिति वर्त्तते योग इति च । वीप्सा इत्थम्भूत लक्षण इत्येतेष्वर्थेषु अभिना योगे इविभक्ती भवति गितिसंज्ञाप्रतिषेधश्च । वीप्सायाम् वृक्ष वृक्षमभिसिञ्चति । इत्थम्भूते - साधुर्देवदत्तो मातरमभिस्थितः । इत्थम्भावोऽभिना गम्यते । लक्षणे -- वृक्षममिसिञ्चति । वृक्षमभिविद्योतते । गितिसंज्ञाप्रतिषेधात् पलं "प्राग्धोस्ते " [१।२।१४१] इति नियमश्च न भवति ।
भागे चानुप्रतिपरिणा ||१|४|१२|| मागेऽर्थे वीप्सेत्थम्भूतलक्षणेषु च अनु प्रति परि इत्येतैर्योगे इब् भवति गितिसंज्ञाप्रतिषेधश्च । भागोऽत्रांशः । यदत्र मामनुस्यात् मां प्रति स्यात् मां परि स्यात् तद्दीयताम् । वसायाम् - वृक्ष वृक्षम् अनुसिञ्चति प्रतिसिञ्चति परिसिञ्चति । इत्थम्भूते - साधुर्देवदत्तः मातरम
१. सु ब०, मु० । २. चाति अ०, स० । ३. येऽपि स० । ४. पर्यानतमिति ०, ब०, स० । ५. वृक्षमभिसजति अ०, ब०, स० ॥
For Private And Personal Use Only