________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५
अ० १ पा० ४ सू० १-४ ]
महावृत्तिसहितम्
अनुक्ते ॥ १४९ ॥ श्रनुक्त इत्ययमधिकारः । यदित ऊर्ध्वमनुक्रमिष्याम अनुक्त इत्येवं तद्वेदितव्यम् । स्वार्थद्रव्यलिङ्गानि त्रिको मृदर्थं इति श्रस्मिन् दर्शने स्वार्थिकाष्टाबादयः संख्या कर्मादयो विभक्त्यर्थाः । एवं च "कर्मणीपू” [१।४।२ ] इत्येवमादीनां "साधने स्वार्थे” [१।२।१५३] इत्येतस्य च गुणप्रधानभावेनैक्यता | स्वार्थैकत्वादिविशिष्टेषु कर्मादिष्वनुक्तेष्विवादयो भवन्ति । श्रथवा श्रनुक्तकर्माद्याश्रयेष्वेकत्वादिष्विवादयो भवन्ति । इह परिसंख्यानमिति केचित् । मिङकृत्सैरनुक्त कर्मादाविति । वक्ष्यति "कर्मणीप्” [१|४|२] | कटं करोति । श्रोदनं भुङ्क्क्क े ! अनुक्ते इति किम् ? क्रियते कटः । मिङोक्तं कर्म । कृतः कटः । कृतोक्तं कर्म । श्राद्धिको देवदत्तः । “श्राद्ध' मुक्तं ठोऽनेन" [४|१|१८ ] इति ठः । हृतोक्तः कर्ता । शतेन क्रीतः । “शतास्वार्थेऽसे ठयौ' [३४] १८ ] इति यः । हृतोक्तं करणमिति । कर्तरि करणे च भा न भवति । प्राप्तमुदकं यं ग्रामं स प्राप्तोदको ग्रामः । सेन कर्मोक्तम् । मिङ कुट्टत्तैरिति परिसं ख्यानं किम् ? कटं करोति भीष्ममुदारं दर्शनी यम् । अत्र कटशब्दादुत्पद्यमानया इपा उक्ते कर्मणि भीष्मादिभ्य इम्न स्यात् । तदेतत्परिगणनमयुक्तम् । कोsपि कर्म भीष्मादयोऽपि न ह्यसौ कटमात्रे सन्तोषं करोतीत्यनेकं कर्म गृह्यते । समुदायस्य चामृत्त्वात् प्रत्यवयवाद्विभक्त्युत्पत्तिः । इह श्रासने आस्ते शयने शेते इति श्रन्यो ह्यधिकरणप्रत्ययः सामान्येन युटाऽभिहितो अन्यश्व विशेषरूपेण विभक्त्योच्यते इति न दोषः ।
कर्मणी ||१४|२|| कर्मणि कारके अनुक्त इब् विभक्तिर्भवति । कटं करोति । ग्रामं गच्छति । आदित्यं पश्यति । श्रविशेषेण ड्याम्मृदः स्वादयो वक्ष्यन्ते । तन्नियमो ऽयं कर्मादिष्वेव इवादयो भवन्ति । बायो नियताः । कर्मादयस्त्वनियताः । तेषु ताऽपि प्राप्नोति । तत इदमुच्यते "ता शेषे " [११४/१७ ] इति शेषे ता भवति' नोक्ते कर्मादौ ।
अन्तरान्तरेण योगे || १ |४|३|| प्रतिपदोक्तत्वादिहान्तरान्तरेणशब्दौ निसंज्ञौ ताभ्यां योगे इब्बिभकोर्भवति । अन्तरा गन्धमादनं माल्यवन्तञ्च कुरवः । कुरुविशेषणत्वेन तायां प्राप्तायामिब्विधीयते । कुरुशब्दार्थे वर्तमानात् मृदर्थातिरेकाभावात् इम्न भवति । अन्तराराब्दो मध्यमाधेयप्रधानं व्रते । अन्तरेणशब्दः तच्च विनार्थं च । अन्तरेण सौमनसं विद्युत्प्रभञ्च 'देवकुखः । मोक्षमन्तरेण नात्यन्तिकं सुखम् । निसंज्ञयहणादिह न भवति । अन्तरायां पुरि वसति । किं ते धात्रवाणां सालङ्कायनानां चान्तरेण गतेन । योग इति किम् ? अन्तरा तक्षशिलाञ्च पाटलिपुत्रञ्च सुघ्नस्य प्राकारः । ननु पदविधिरयं अन्तराशब्दे सामर्थ्यात् स्रुघ्नशब्दाग्नि भविष्यति योगग्रहणमनर्थकम्। कचिदन्यैरपि योगे यथा स्यादित्येवमर्थम् | "अभितः परितः समयानिकषाद्दाप्रतियोगेषूपसंख्यानम्' [वा०] अभितो ग्रामम् । परितो ग्रामम् । समया ग्रामम् । निकषा ग्रामम्। हा देवदत्तम् । वृणीष्व भद्रे प्रतिभाति चेत्त्वम् । बुभुक्षितं न प्रतिभाति किञ्चित् । "उभसवंतसोः कार्यो पिर्यादिषु त्रिषु । कृतद्वित्वेष्विपा योगस्ततोऽन्यत्रापि दृश्यते" [वा०] उभयतो ग्रामम् । सर्वतो ग्रामम् । धिग्देवदत्तम् । उपर्यादिष्विति सूत्रोपलक्षणम् । सामीप्येऽवोऽध्युपरि ['उपर्यध्यवसः सामीप्ये" ] [ ५३५] इति द्वित्वे कृते त्रयाणां ग्रहणम् । अधोऽधो ग्रामम् । उपर्युपरि ग्रामम् | अभ्यधि ग्रामम् । “अन्यत्राऽपि दृश्यते" [वा०] विना धर्म कुतः सुखम् । श्रपि शब्दान्न च दृश्यते । हा तात हा पुत्र वत्सल ।
।
कालाध्वन्यविच्छेदे ॥ १।४/४ ॥ विच्छेदोऽत्यन्तसंयोगः । द्रव्यगुणक्रियाभिः कार्त्स्न्येन कालाध्वनोः सम्बन्ध इत्यर्थः । कालाध्वनोरविच्छेदे वर्तमानयोः सतोरिय् भवति । श्रन्यस्याश्रुतत्वात् कालाध्ववाचिभ्यामेवाधिकरणविवक्षायामपि प्राप्तायां तदविवक्षायां सम्बन्धलक्षणायां तायां प्राप्तायामयं विधिः । कालस्य द्रव्येण योगे—मासं गुडापूपाः । संवत्सरं क्षीरोदनम् । गुणेन- शरदं मथुरा रमणीया । मासं कल्याणी काञ्ची । क्रियया - मासमधीते । संवत्सरमधीते । अध्वनो द्रव्येण योगे-क्रोशं सिकताः । योजनं वनराजिः । गुणेन
I
१. कर्मवेन विवक्षायां नेत्यर्थः । २. - म्वान्तरा कुरवः मु० । ३. - दिम्न भवति ब०, स० ।
ε
For Private And Personal Use Only