________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम् [.. पा० ३ ० १८-१०५ द्वन्द्धे सुः ॥१॥३६॥ द्वन्द्वे से स्वन्तं पूर्व प्रयोक्तव्यम् । मुनिगुप्तौ । यदुगुप्तौ। अनेकप्राप्तावनियमेन मुनिपटुगुप्ताः। पटुमुनिगुप्ताः । पटुगुप्तमुनयः । न्यगित्यन्वर्थसंज्ञा । द्वन्द्वे च न कस्यचिदप्राधान्यमित्यप्राप्ते पूर्वनिपात इदं सूत्रम् ।
अजाद्यत् ॥१॥३॥६६॥ अजादि अदन्तं शब्दरूपं द्वन्द्व से पूर्व प्रयोक्तव्यम् । इन्द्रचन्द्रौ । उष्ट्रखरम् । उष्ट्रशशम् । इह इन्द्राग्नी । इन्द्रवा) इति सुलक्षणात् परत्वादनेन पूर्वनिपातः । उभयत्र वायोः प्रतिषेध इति आनङ्न भवति । बहुष्वनियमेन इभरथाश्वम् । अश्वरथेभम् । तपरकरणं किम् ? वृक्षाश्वे । श्रश्वावृक्षो।
अल्पान्तरम् ॥१॥३॥१००।। अल्पान्तरं शब्दरूपं द्वन्द्वे पूर्व प्रयोक्तव्यम् । धवखदिरौ। धवाश्वकणंम् । "बहुष्वनियमः" [बा०]। वीणादुन्दुभिशाः । शङ्खदुन्दुभिवीणाः । "ऋतुनक्षत्राणां समानाक्षराणामानुपूयण वक्तव्यम्' [वा०] । शिशिरवसन्तौ। हेमन्तशिशिरवसन्ताः। अश्विनीभरण्यः। कृत्तिकारोहिण्यः । समानाक्षाणामिति किम् ? ग्रीष्मवसन्तौ । "यक्षरस्य पूर्वनिपातो वक्तव्यः'' [वा०]। कुशकाशम् । तृणकाष्ठम् | "वर्णानामानुपूर्येण" [ वा०] | ब्राह्मणक्षत्रियविट्शूद्राः । 'भ्रातुश्च ज्यायसः" [वा०] युधिष्ठिराजु नौ । "संख्याया अल्पीयसो वाचिकायाः" [वा०] द्वित्राः । एकादश । नवतिशतम् । “अभ्यर्हितस्य च' [वा०] मातापितरौ । श्रद्धामधे । दीक्षातपसी ।
ईब्विशेषणे घे ॥१॥३॥१०१॥ ईबन्स विशेषणं च बसे पूर्व प्रयोक्तव्यम् । बसे अनेकं सुबन्तं न्यसंशमित्यनियमे प्राप्तेऽयमारम्भः । कराठेकालः। उरसिलोमा। उदरेमणिः । बहेगडुः । "कामेऽमर्धमस्त. कात् स्वाङ्गम् [१३१३१] इत्यनुप । चित्रगुः। लम्बकर्णः। "सर्वनामसंख्ययोः पूर्वनिपातो वक्रव्य:' [पा०] । सर्वे श्वेतमस्य सर्वश्वेतः । सर्वगौरः । द्विशुक्लः । द्विकृष्णः । सर्वनामसंख्ययोः परस्परं वृत्तिः । वाक्ये संख्यायाः परत्वात् पूर्वनिपातः । द्वयन्यः । त्र्यन्यः । “वा प्रियस्य' [वा.] । प्रियदधिः । दधिप्रियः । कथं गडुकण्ठः । गडुशिराः । अाहिताग्न्यादिषु द्रष्टव्यः ।
तः॥१॥३॥१०२॥ तान्तं बसे पूर्व प्रयोकव्यम् । कृतकटः । भिक्षितभिक्षः। अवमुक्तोपानत्कः । तान्तस्य विशेषणत्वेनाविवक्षितत्वात् पूर्वेण न सिध्यति । कथं क्वचिजातिकालसुस्वादिभ्यश्च तान्तस्य परप्रयोगः (जातः)। सारङ्गजग्धी। पलाण्डुमक्षिती। कालात्-मासजाता। संवत्सरजाता। सुखादिभ्यश्च-सुखं जातं यस्याः सुखजाता। दुःखजाता । वाऽहिताग्न्यादिषु व्यवस्थयेदं भविष्यति । प्रहरणार्थेभ्यः परे वेपो वक्तव्ये । उद्यतोऽसिरनेन अस्युद्यतः । मुसलोद्यतः । असिः पाणावस्य असिपाणिः । दण्डपाणिः । कथमुद्यतगदः । उद्यतासिः । इदमपि वेति सिंहावलोकनात् ।
वाऽऽहिताग्न्यादौ ॥१॥३।१०३॥ श्राहिताग्न्यादिधु बसे तान्तं वा पूर्व प्रयोक्तव्यम् । श्राहिताग्निः । अग्न्याहितः। एवं जातपुत्रः । जातदन्तः । जातश्मश्रुः । तैलपोतः। घृतपीतः। मद्यपोतः। ऊढभायः । अर्थगतः। आकृतिगणोऽयम् । तेनेष्टयो न वक्तव्याः।
ये कडाराः ॥१॥३१०४॥ ये कडायदयो वा पूर्व प्रयोक्लव्याः । कडारश्च स भद्रश्च स कडारभद्रः । भद्रकडारः । विशेषणस्य "वोक्तं व्यक्' [१॥३॥६३] पूर्वनिपातः प्राप्तो विभाष्यते । कडार गडुल कूट काण खज कुण्ट खोड खलति गौर वृक्ष भिक्षुक पिङ्गल तनु नट बधिर ।
___ उत्तरपदं धु ॥॥३॥१०॥ से यदुत्तरपदं तद्य संज्ञ भवति । पञ्चगवधनः। द्यौ परतः "इद (थ) धु समाहारे''[३४६] इति पूर्वस्य (स) संज्ञायां टः सान्तः सिद्धः । एवं द्वे अहनी जातस्य द्वथहजातः । "काला मेयः' इति समुदायस्य षसंज्ञा द्यौ परतः पूर्वस्यापि षसंज्ञायां टः सान्तः ।।
इत्यभयनन्दिविरचितायां जैनेन्द्रव्याकरणमहावृत्तौ प्रथमस्याध्यायस्य तृतीयः पदः समाप्तः ।
For Private And Personal Use Only