________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० १ प ३ सू० ११-१७]
महावृत्तिसहितम्
६३
सपुत्रः । “वा नीच:" [४|३|११०] इति सहशब्दस्य सादेशः । तुल्ययोग इति किम् ? प्रत्यहं सह शान भारं वहति रासभी । विद्यमानताऽत्र सहार्थः । श्रद्य नैव सिद्धे हसनिवृत्त्यर्थे कबभावार्थञ्च वचनम् । इति - शब्दो योगविभागार्थः । तैनातुल्ययोगेऽपि क्वचिद्वसः का च । तेन सकर्मकाच्चरेर्दो भवति । सपक्षको वादी बत इत्यादि सिद्धम् । अत्र हि खरेरेव देन योगो न कर्मणः । तथा वादिन एव च तेन योगो न पक्षस्य ।
चार्थे द्वन्द्वः ||१|३|६२॥ चकृतोऽर्थश्चार्थः । तस्मिन् वर्तमानमनेकं सुचन्तं द्वन्द्वसंज्ञः सो भवति । चत्वारश्चार्थाः । समुच्चयोऽन्वाचय इतरेतरयोगः समाहारश्चेति । तत्रानियतक्रमयौगपद्यानां द्वयादिवस्तूनामेक त्राभ्यारोपः समुच्चयः । यथा " गामश्वं पुरुषं पशुमहरहर्नयमानो वैवश्वतो न तृप्यति, सुरया इव दुर्मदी । " गुणप्रधानभावमात्रविशिष्टः समुच्चय एवान्वाचयः । यथा भिक्षामट गां चानयेति । इतरेतरयोगसमाहारावपि समुच्चयस्य भेदौ । परस्परं सापेक्ष णामवयवभेदानुगत इतरेतरयोगः । अनपेक्षिता अवयवभेदाः संहतिप्रधानाः समाहाराः । श्राद्ययोश्चमन्तरेणापि क्वचित् प्रयोगात् । असामर्थ्याच्च नास्ति सविधिः । इतरेतरयोगे । प्लक्षन्यग्रोधौ छायां कुरुतः । समाहारे प्लक्षान्यग्रोधं सिध्यति । वाक्त्वचम् । वाग्दृषदम् । छत्रोपानहम् । इह द्वाविंशतिस्त्रयस्त्रिशद्गणितैत्येवमादिषु समाहारेऽपि लिङ्गमशिष्यं लोकाश्रयत्वादिति नपुंसकत्वाभावः । द्वन्द्वप्रदेशः 'द्वन्द्वाच्चुदहषो राधे'' [ ४।२।१०८ ] इत्येवमादयः ।
वो यक् ॥ ११३॥६३॥ सलक्षणसूत्रेषु वानिर्दिष्टं न्यक् संज्ञ भवति । तस्य प्रयोजनं पूर्वमित्यनेन पूर्वनिपातः । अधिस्त्रि । अधिकुमारि । भीति वोक्तम् । कष्टश्रितः । इबिति वोक्तम् । शङ्कुलाखण्डः । भेति वोक्तम् । एवं सर्वत्र बोद्धव्यम् । वसेऽनेकं सुबन्तं तस्य पूर्वनिपातनियममुत्तरत्र वक्ष्यति । इह राज्ञः रुति इति यत् प्रति यदप्रधानं तत् प्रति तन्न्यक्संज्ञ भवति । कथमयं विभागो लभ्यते । न्यगितीयमन्वर्थसंज्ञा । नीचैरञ्चतीति न्यगप्रधानमित्यर्थः ।
एकविभक्ति ||१|३|१४|| विभक्तिशब्दः पूर्वाचार्येष्टो निर्दिष्टः एका विभक्तिर्यस्य तन्त्र्य संज्ञ भवति । निष्कौशाम्बिः । निर्मथुरः । "परम्" [ ११३६२] इत्यनेन परनिपातार्थमेतत् । प्रादेशस्तु "स्त्रीगोर्नीच:' [१।१।१] इत्यत्र अन्वर्थस्य नीचः समाश्रयणात् सिद्धः ।
परम् ॥ १|३|१५|| एकविभक्ति न्यसंज्ञः परं प्रयोक्तव्यम् । पूर्वमित्यनेन पूर्वनिपाते प्राप्तेऽपवादः । इह धर्म श्रितः । धर्मं श्रितेन धर्मश्रिताय इत्येवमादिषु "वोक्तम्" [४|३|११० ] इत्यनेनैव न्यकसंज्ञा भवत्यनवकाशत्वात्ततस्तदाश्रयः पूर्वनिपातः ।
राजदन्तादौ ||१|३|६६ ॥ राजदन्तादिषु न्यक् परं प्रयोक्तव्यम् । उत्तरसूत्रैः प्राप्तस्य पूर्वनिपातस्यापवादोऽयम् । दन्तानां राजा राजदन्तः । वनस्या अग्रेवणम् । गणपाठादनुप् । लिप्तवासितं नग्नमुषितम् श्रवक्लिन्नपक्क सिक्नसंमृष्ट भृष्टलुञ्चितम् अर्पितोप्तम् उतगाढमेतेषु' पूर्वकालस्य परनिपातः । उलूखलमुसलं तन्दुलकिण्वम् । श्रारग्वायनिबन्धकी। चित्ररथबाहूलीकम् । अवन्त्यश्मकम् । शूद्रार्यम् । स्नातकराजानौ । विष्वक्सेनार्जुनौ । अचि भ्रुवम् । दारगवम् । शब्दार्थो । धर्मार्थौ । कामार्थौ । ऋतु व्यत्ययोऽपि ।
शब्दौ । अर्थधर्मौ । श्रर्थकामौ । वैयाकरणमतम् । भोजवाजौ । गोपालधानीपूलासम् । पूलासकरण्डम् | उशीरबीजम् । सिञ्जस्थम् । शिक्षास्त्री | चित्रास्वाती । भार्यापती । जायापती । जम्पती । दम्पती । जायाशब्दस्य जम्भावो दम्भावश्च निपात्यते । पुत्रपती । पुत्रपशू । केशश्मश्रुः । शिरोबिन्दु | सपिर्मधुनी । मधुसर्पिषी । श्राद्यन्तौ । अन्तादी | गुणवृद्धी । वृद्धिगुणौ ।
पूर्वम् ॥१३॥६७॥ न्यगिति वर्तते । न्यक्संज्ञ पूर्व प्रयोक्तव्यम् । वाक्यवद् वृत्तावनियमो मा भूदि - त्यारम्भः । उक्तान्युदाहरणानि । यत्र द्वे अपि तान्ते राज्ञः पुरुषस्येति तत्र कस्य न्यक्त्वं न्यगित्यन्वर्थसंज्ञाश्रयणाद्राजशब्दस्य ।
१, सर्वकालस्य ब०, स० ।
For Private And Personal Use Only