________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६२
जैनेन्द्र-व्याकरणम्
[ भ० १ पा० ३ ० ८७-३१
ग्रहणं किमर्थम् ? यावता शब्दे कार्यस्यासम्भवादर्थे कार्य विज्ञास्यते । अन्यपदार्थस्य ये लिङ्गसंख्ये ते यथा स्यातामित्येवमर्थम् । बहुयवं कुलम् | बहुयवा भूमिः । बहुयवौ । बहुयवाः । वाविभक्त्यन्ते अन्यपदार्थे वृत्तिर्न भवत्यनभिधानात् । श्रनेकग्रहणं बहूनामपि प्रापणार्थम् । सामानाधिकरण्याभावेऽपि बसो भवति । कण्ठेकालः । उरसिलोमा । उच्चैर्मुखो देवदत्तः । श्रस्तितीरा गौः । भीनामसंख्यत्वादसामानाधिकरण्यम् । इहाभिधानाभावान्न भवति । पञ्चभिर्भुक्तमस्य । सामानाधिकरण्येऽप्यनभिधानम् । पञ्च भुक्तवन्तोऽस्य । नपा निर्देशः किमर्थः ? उन्मत्तगङ्गम् । लोहितगङ्गम् । "खावन्यपदार्थे' [१|३|१८ ] इति हस एव भवति । इह वीरपुरुषको ग्राम इति परत्वादवसः प्रसस्य बाधकः । शस्त्रीश्यामा देवदत्तेत्येवमादिषु "यश्चैकाश्रये” [१|३|४४] इति प्रकृतमस्ति तेन बसस्य बाधः । “प्रादयो गताद्यर्थे वया” [वा०] इत्येवमादि वार्त्तिकवचनं प्रमाणम् । तेन निष्कौशाम्बिरित्येवमादिषु बसो न भवति । "ईबुपमानपूर्वस्य द्युखं वक्तव्यम्" [वा०] उदरे स्थितो मणिरस्य उदरेमणिः । "षे कृति बहुलम् ' [ ४ | ३ | १३२ ] इति ईपोऽनुप् । उष्ट्रमुखमिव मुखमस्य उष्ट्रमुखः। उपमानावयवत्वादुष्ट्रोऽप्युपमानम् । इह केशचूड़ः सुवर्णालङ्कारो देवदत्तः इति केशसम्भारे केशशब्दः । "सुवर्णविकारे सुवर्णशब्दो वर्तते । सङ्गतार्थः समर्थ इति निर्देशादेवंजातीयस्य वा खं द्रष्टव्यम् । प्रपतितपर्णः प्रपर्णः । श्रविद्यमानभार्यः भार्यः ।
Acharya Shri Kailassagarsuri Gyanmandir
1
संख्येये संख्या भयासन्नादूरसंख्यम् ||१|३| ७ || सख्येये या संख्या वर्तते तया भिन्न श्रदूर इत्येतानि संख्या च बसो भवति । अनन्यार्थार्थ वान्तेऽप्यन्यपदार्थे प्रापणार्थञ्च । समीपे दशानामिमे उपदशाः । उपविंशाः । समीपप्राधान्ये तु हसः । श्रसन्ना दशानामिमे श्रासन्नदशाः । श्रासन्नविंशाः । अदूरदशाः । श्रदूरचत्वारिंशाः । द्वौ वा त्रयो वा इमे द्वित्राः । त्रयो वा चत्वारो वा इमे त्रिचतुराः । "नवि सूप त्रिभ्यश्चतुरः " [ ४।२।७५ ] इति ग्रस्त्यो निपात्यते । त्रिर्दश इमे त्रिदशाः । वृत्त्यैवाभ्यावृत्तेरुक्तत्वात् सुचोऽप्रयोगः । संख्यासंज्ञाविधानेऽधिकशब्दस्यापि संख्यात्वमुक्तम् । अधिका दशानामिमेऽधिकदशाः । संख्येय इति किम् ? अधिका विंशतिर्गवाम् । संख्ययेति किम् ? पञ्च पदार्थाः । भयासन्नादूरसंख्यमिति किम् ? पार्थिवाः पञ्च ।
दिशोऽन्तराले ||१|३|८|| दिच्छन्दाः सुबन्ता अन्तरालवचने बसंज्ञकः सो भवति । अन्तराल एव यथा स्यादिति नियमार्थ आरम्भः । दक्षिणस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालं दक्षिणपूर्वा । "सर्वनाम्नो वृत्तिमात्रे पूर्वपदस्य पुंवद्भावः " [वा०] इति पुंवद्भावः । उत्तरपदस्य "स्त्रीगोनी' च: " [१1१1८] इति प्रादेशः । अन्तरालदिशः स्त्रीलात् पुनष्टाप् । अनेकमित्यनुवर्त्तनात् न्यक्संज्ञायां द्वयॊः पर्यायेण पूर्वनिपातः । एवं दक्षिणपरा । उत्तरपरा । उत्तरपूर्वा । प्रसिद्धानां दिक्कब्दानां ग्रहणादिह न भवति । वारुण्याश्च कौबेर्याश्च दिशोरन्तरालम् ।
तदमिति सरूपे ||११३८६ ॥ तत्रेति ईवन्ते द्वो सरूपे इदमित्येतस्मिन्नर्थे बसो भवति । इतिकरणात् ग्रहणविशिष्ट युद्धे विवक्षा । केशेषु केशेषु च गृहीत्वा इदं युद्ध वृत्त केशाकेशि | कचाकचि । “ञ इच्” [४।२।२८] इति इच् सान्त इजिति तिष्ठद्ग्वादौ हसंज्ञार्थ पठ्यते । "श्रन्यस्यापि " [४/३/२३२ ] इति पूर्वपदस्य दीत्वम् । अत्र सापेक्षत्वात् पूर्वेण वृत्तिर्न प्राप्नोति । सरूपे इति किम् ? केशेषु च कचेषु च गृहीत्वा इदं युद्ध वृत्त म् ।
तेन ॥ १३ ॥ ६०॥ इदमिति सरूपे इति वर्तते । तेनेति भान्ते सरूपे इदमित्येतस्मिन्नर्थे वसो भवति । इतिकरणानुवृत्तेर्यत्तेनेति निर्दिष्ट प्रहरणं चेत्तद्भवति । दण्डैश्च दण्डैश्च प्रहृत्येदं युद्धं वृत्तं दण्डादण्डि । मुसलानुसलि । सरूपे इत्येव । दण्डैश्च कमण्डलुभिश्च प्रहृत्येदं युद्ध वृत्तम् । योगविभाग उत्तरार्थः ।
सहेति तुल्ययोगे ||१३|११|| तुल्ययोगः समानक्रियादियोगः । तेनेति वर्तते । सह इत्येतत् सुबन्तं तुल्ययोगे वर्तमानं तेनेति भान्तेन सह समस्यते बसो भवति । सह छात्रेण सच्छात्र श्रागतः । सशिष्यः ।
For Private And Personal Use Only