________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०
जैनेन्द्र-व्याकरणम्
[अ० १ पा० है सू० ७६-८१
त्पलस्येति । गुणगुणिसम्बन्धे सविधिर्भवति । एकद्रव्येण गुणगुणिविवक्षा नास्तीति विशेषणवृत्तिरपि न भवति । मिना प्रतिषेधो वक्तव्यः । देवदत्तस्य साक्षात् । देवदत्तस्योपरि ।
कर्मणि च ॥ १|३|७६ ॥ चकारोऽवधारणार्थः । कर्मण्येव या ता विहिता तदन्तं सो न भवति । आश्चर्यो गवां दोहोऽगोपालकेन । रोचते मे श्रोदनस्य भोजनं देवदत्तेन । साधु खलु पयसः पानं जिनदत्तेन । “युट्” [२|३|१७] इति नन्भावै युट् । “कर्तृकर्मणोः कृति [ १।४।६८ ] इत्युभयत्र तायां प्राप्तायां " द्विप्रासौ परे " [१।४।६६] इति कर्मण्येव भवति । कर्तरि तु भा । कर्मण्येवेति किम् ? इध्मश्वनः ।
कर्तरि क्रेन || १ | ३|७७॥ कर्तरीति ताया विशेषणम् । कर्तरि या ता विहिता तदन्तं क्लान्तेन सो न भवति । अस्मिन्नास्यते स्म इदमेषामासितम् । इदमेषां यातम् । इदमेषां भुक्तम् । तयोरेव भावकर्मणोः क्के प्राप्ते "धिगत्यर्थाच्च " [२|४|१८] " अधिकरणे चाद्यच्च' [ २/४/२६] इति श्रधिकरणे क्तः । अधिकरणस्योक्तत्वात् । इदमित्येतस्मादीम्नास्ति " मडैकार्थे वा " [ १४/५४ ] इति वैव भवति । “कर्तृकर्मणोः कृति” [१।४।६८ ] इति ता प्राप्ता "न झितलोक" [१।४।७२ ] इत्यादिना प्रतिषिद्धा ' कस्याचिकरणे'' [१1४/७०] इत्यनेन एषामिति कर्त्तरि ता । एवं राज्ञां मतः राज्ञां बुद्धः, राज्ञां पूजितः “मतिबुद्धिपूजार्थाच्च [२/२/१६६ ] इत्यनेन वर्तमाने काले क्तो नियम्यते । स चेह कर्मणि कारके विहितः "कर्तृकर्मणोः कृति " [ १।४।६८ ] इति कर्तरि ता प्राप्ता "नति ० " [१/४/७२ ] इत्यादिना प्रतिषिद्धा भवतीत्यनेन सूत्रेण प्रत्यवस्थाप्यते । अथ यदा सकर्मकेभ्योऽधिकरणे क्तस्तदा कर्तृकर्मणोरनुक्तत्वात् " कस्याधिकरणे" [918/७० ] इत्यनेन या ता कर्तरि तस्याः प्रतिषेधः सिद्धः कर्मणि या ता तस्याः कथं वृत्तिप्रतिषेधः । इदमोदनस्य भुक्तमिति । नैष दोषः । कर्मणि चेति वर्तते तेनेह कर्त्तरि कर्मणि च ता क्तान्तेन न समस्यते । इह शेषलक्षणा ता । छात्रहसितम् ।
तृजकाभ्यां योगे || १ | ३२७८ ॥ कर्तरि या ता तदन्तेन सो न भवति । तृचैव कत्तु रुक्तत्वात् । तद्योगे - कर्तरि ता नास्ति । तृज्ग्रहणमुत्तरार्थम् । भवत श्रासिका । भवतः शायिका । भवतोऽग्रे गामिका । “पर्यायाखोत्पत्तौ वुण्” [२|३|६२] इति भावे स्त्रीलिङ्गे वुण् । “कर्तृकर्मणोः कृति” [१/४/६८ ] इति कर्तरि ता । कर्तरीत्येव । इक्षुभक्षिकां मे धारयसि । पूर्ववदुर । अत्रे शब्दात् कर्मणि ता "कृति" [ १।३।७१ ] इति तासः । मइति सम्प्रदानमेतत् ।
कर्तरि ||१३|७६ ॥ कर्तरि यौ तृजकौ ताभ्यां सह तान्तं न सो भवति । श्रपां स्रष्टा । पुरां भेत्ता । वज्रस्य भर्ता । याजकादिषु पतिपर्यायो भर्तृशब्दः । यवानां लावकः । सक्तूनां पायकः । कर्तरीति शक्यमकर्तुं तृचोsकस्य च कर्तरि विधानात् । नन्वकस्य भावेऽपि विधानमस्ति । सत्यम् । तद्योगे कर्तरि विहितायास्तायाः पूर्वेण वृत्त्यभावः सिद्धः सामर्थ्यादिह कर्तरि विहितस्याकस्य ग्रहणम् । तदेतत्कर्तृग्रहणं ज्ञापकं पूर्वप्रतिषेधो नित्यः श्रयम नित्यस्तेन तीर्थंकर्तारमर्हन्तमित्येवमादि सिद्धम् । तृनन्तेन वा "साधनं कृता” [१|३|२९ ] इति सः |
कोडाजीविक योनित्यम् ॥१३॥८०॥ नेति निवृत्तम् । तृचः क्रीडाजीविकयोरसम्भवान्नानुवृत्तिः । क्रीडायां जीविकायाञ्च तान्तमकेन सह नित्यं षसो भवति । क्रीडायाम् - उद्दालकपुष्पभञ्जिका । भावे खुविषये वुण् । "कर्तृकर्मणोः कृति” [१/४/६८ ] इति कर्मणि ता । जीविकायम् - दन्तलेखकः । नखलेखकः । श्रवस्करसूदकः । क्रीडायां कृतीति विकल्पः प्राप्तः । जीविकायां कर्तरीति प्रतिषेधः प्राप्तः । क्रीडायां श्रारम्भादेव नित्यत्वं सिद्धं नित्यग्रहणं जीविकार्थमुत्तरार्थंञ्च ।
तिकुप्रादयः || १३२८१ ॥ तिसंज्ञाः कुशब्दः प्रादयश्च समर्थेन नित्यं षसो भवति । ऊरीकृत्य । ऊरीकृतम् । पटपटयकृत्य । प्रादिसाहचर्यात् कुशब्दो भिस ज्ञो गृह्यते । कुत्सितो ब्राह्मणः कुब्राह्मणः । ईषन्मधुरं काम
कारात् । ननु भेन सः विशेषणं विशेष्येणेतिशब्दस्य क्वचिदन्यत्रापि विवक्षितस्थले समासार्थत्वेनातिशब्दबलेन सः । विशेषयवृत्तिस्तु न गुणगुणिवद्भावे विशेषणवृत्तेरप्यनङ्गीकारात् । "
For Private And Personal Use Only