________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० पा० ३ सू० ७०-७५ ]
महावृत्तिसहितम्
५६
जनम् । गुणोक्त्येति किम् ? ईषत्कारकः । ईषद्गार्ग्यः । जात्येकार्थसमवायिक्रियागुणापेक्षया जातेरपि वृद्धिहासौ ।
ता || १३|७० ॥ तान्तं सुबन्तेन सह षसो भवति । मोक्षमार्गः । स्वर्गसुखम् । राजपुरुषः ।
कृति ॥ १|३|७१ || कृत्प्रयोगे या ता तदन्तं सुपा सह षसो भवति । "न प्रतिपदम् [१।३।७३ ] इति प्रतिषेधं वक्ष्यति । तस्यायं पुरस्तान्निरासः । इध्मनां ब्रश्वनः इध्मश्वनः । पलाशसातनः । विलवनः । श्मश्रुकर्त्तनः । करणे युट् । “कर्तृकर्मणोः कृति " [१।४।६८] इति ता ।
याजकादिभिः || १ | ३ |७२ || याजकादिभिश्च सह तान्तं समस्यते षसो भवति । पूर्वेण प्राप्तः तृजकाभ्यां कर्त्तरीति प्रतिषिद्धः पुनरनेन सः । देवानां याजको देवयाजकः । साधूनां पूजकः साधुपूजकः । याजक पूजक परिचारक परिवेषक स्नापक अध्यापक उद्वर्त्तक उत्सादक होतृ भर्तृ रथगणक पत्तिगणक ।
न प्रतिपदम् || १ | ३|७३ ॥ प्रतिपदं विहिता या ता तदन्तं न समस्यते । शेषलक्षणां तां मुक्त्वा सर्वाऽन्यता प्रतिपदविधाना । सर्पिषो ज्ञानम् । पयसो ज्ञानम् । "ज्ञो स्वार्थे करणे" [१|४|५८ ] इति ता । हापि धर्मानुस्मरणम् । धर्मचिन्तनमिति । " स्त्रर्थदयेश कर्मणि” [१|४|५९ ] इत्यनेन शेषलक्षणा तानूद्यते । वनस्वामी | वनेश्वरो विद्यादायाद इत्येवमादिषु “स्वामीश्वर०" [ १ ४/४७ ] आदि सूत्रे चकारेण शेषलक्षणा ता समुच्चीयते ।
निर्धार || १ | ३ |७४ || निर्धारणे या ता तदन्तं न समस्यते । जातिगुणक्रियाभिः समुदायादेकदेशस्य निष्कृष्य धारणं पृथक्करणं निर्धारणम् | क्षत्रियो मनुष्याणां शूरतमः । श्यामा नारीणां दर्शनीयतमा । कृष्णा व सम्पन्नक्षीरतमा | धावन्तोऽध्वगानां प्रितमाः । क्षत्रियादिशब्देन सह वृत्तिर्न भवति । “यतश्च निर्धारणम्" [ १।४।४१ ] इति चकारेण शेषलक्षणायास्तायाः समुच्चयः । प्रतिपदविधानत्वे हि पूर्वेणैव सिद्धः प्रतिषेध इतीदमनर्थकं स्यात् । इह पुरुषेश्वर इति शेषलक्षणा ता विवक्षिता न निर्धारणलक्षणा ।
उड् गुणतृप्तार्थं सत्तव्यैकद्रव्यैः || १ |३|७५ ॥ उदन्त गुणार्थं तृप्तार्थ सत्संज्ञ तव्य एकद्रव्य इत्येतैः सह तान्तं न समस्यते । तस्य पूरणे डडित्यतः प्रभृति तमटष्टकारेण डडिति प्रत्याहारः । चक्रधराणां पञ्चमः । तीर्थंङ्कराणां षोडशः । बलदेवानां नवमः । समुदायसमुदितसम्बन्धे शेषलक्षणा ता । गुणार्थ:- बलाकायाः शौक्यम् । काकस्य कार्यम् । कण्टकस्य तैदण्यम् । गुणगुणिसम्बन्धे ता । "एङि पररूपम् " [४३८१ ] इत्यत्र परस्य रूपं पररूपमिति वृत्तिपदं ज्ञापकं यो गुणद्वारेण पूर्व द्रव्ये वृत्तो भवत्यन्ते गुणमाह तेन गुणशब्देनेह प्रतिषेधः । यस्तु सर्वदा गुणवचनस्तेन वृत्तिर्भवत्येव । हस्तिरूपम् । कपित्थरस: । चन्दनगन्धः । अग्निस्पर्शः । गुणशब्देनेह लोकप्रसिद्धा रूपरसगन्धस्पर्शा गुणा अभिप्रेताः । ततस्तद्विशेष्यैरयं प्रतिषेधः तेन यत्नगौरवं सूत्रलाघवं करणपाटवं वचनप्रामाण्यं गोविंशतिरित्येवमादिषु न प्रतिषेधः । वृषलस्य धाष्टर्यमित्यत्र वृत्तेरनभिधानम् । तृतार्थः - फलानां तृप्तः । सक्तनां पूर्णः । फलानां सुहितः । सक्तूनां प्रीतः । "तृप्त्यर्थे तूपसंख्यानम्” [वा०] इति ता । सदिति शतृशानयोः संज्ञा । चोरस्य द्विषन् । “कर्तृकर्मणोः कृति” [१|४|६८ ] इति कर्मणि ता प्राप्ता "न झित ०" [१।४।७२ ] इत्यादिना प्रतिषिद्धः । “द्विषः शतुर्वा वचनम्" [ वा० ] इति ता । इह तु शेषलक्षणा ता । देवदत्तस्य कुर्वन् । देवदत्तस्य कुर्वाणः । तव्यः - देवदत्तस्य कर्तव्यम् । जिनदत्तस्य कर्तव्यम् । अत्रापि "व्यस्य वा कर्तरि" [१।४।७५ ] इति शेषलक्षणा ता । तव्येन केचिद्विकल्पमिच्छन्ति । देवदत्त कर्तव्यम् । एकं द्रव्यमस्य एकद्रव्यम् । राज्ञः पाटलिपुत्रकस्य । शुकस्य मारविदस्य (आचायस्य श्रीदत्तस्य पूर्वनिपातस्यानियमः प्रसज्येत । विशेषणादिसूत्रे इतिशब्दोऽस्ति तेन नीलस्योत्पलस्य नीलो
1
१. पूर्वनिपातस्येत्यादि न भवतीत्यन्तसन्दर्भस्यायमभिप्रायः
"एक द्रव्ये तासाङ्गीकारे उभयोः पदयोस्तान्तत्वेन वोक्तत्वात्पूर्वनिपातस्यानियमः प्रसज्येत । ननु नीलस्योत्पलस्य नीलोत्पलस्येत्यत्र कद्रव्यत्वेन तास निषेधः कुतो न, गुणगुणिभावस्थले एकद्रव्यत्वानङ्गी
For Private And Personal Use Only